________________
चतुर्थः परिच्छेदः ।
अथ काव्यभेदमाह
२८१ काव्यं ध्वनिर्गुणीभूत-व्यङ्गयं चेति द्विधा मतम् ।
निधानं भूतीनां, रमणमुदयानां, स्थितिपदं महिम्नां भव्यानां, निगमशिरसां रत्नमुकुटम् । गुणानामासेव्यं, जनिरतिलयास्था त्रिजगतां शरण्यं सिद्धीनां किमपि कमनीयं विजयते ॥ एवं काव्यस्वरूपं निरूप्य तद्विभागनिरूपणमनुगतं मन्वान आह- अथेत्यादि ।
अथ काव्य स्वरूपनिरूपणानन्तरम् । काव्यभेदं काव्यानां भेदस्तम् । आह । स्वरूपज्ञानानन्तरं विशेष जिज्ञासामपनेतुं काव्यं स्वरूपतो निरूप्य विभागतो, निरूपयितुमाह- २८१ काव्यमित्यादि ।
अत्रेदं बोद्धव्यम् - भेदः सजातीयो विजातीयः स्वगतश्चेति त्रिप्रकारः । घटाद् घटस्य भेदः सजातीयः, पटाद् घटस्य पुनर्विजातीयः, एकस्यैव पुनर्घटस्य कपालैकदेशादिभ्यः स्वगतः । तत्र वक्ष्यमाणः काव्यविभेदः किं सजातीयो विजातीयः स्वगतो वा । न स्वगतः । चमत्कारापरपर्यायस्य रसपदवाच्यस्य काव्यत्वस्याखण्डैकरसत्वे सावयवित्वासम्भवात् । न वा विजातीयः । काव्यसंसारे काव्यत्वमन्तरेण भानाभावात् नाप्येवं सजातीयः काव्यत्वस्य निरवच्छिन्नत्वात् । ' तमेव भान्तमनुभाति सर्वम्, तद्विष्णोः परमं पद सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम्, सर्वं खल्विदं ब्रह्म नेह नानाऽस्ति किञ्चन, एकमेवाद्वितीयं ब्रह्म, रसो वै सः, रसं ह्येवायं लब्ध्वाऽऽनन्दीभवती' त्यादिश्रुतिखारस्यात् काव्यसंसारे काव्यत्वात्मकस्य चमत्कारापरपर्यायस्य रसस्यैव भासा सर्व वाच्यत्वादिरूपमिदं जगद्भासते तदभावे सर्वस्यैवामुष्य भासमानत्वासम्भवात् । भासमानत्वमपि तेषाम् 'यथाऽग्नेर्विस्फुलिङ्गा व्युच्चरन्ति एवमेवात्मन इत्यादिश्रुतिप्रामाण्यान्न तदतिरिक्तमवसेयम् ।' विकारो नामधेयं मृत्तिकेत्येव सत्य' मित्यादिभ्यश्च श्रुतिभ्यस्तेषां रसव्यतिरिक्तानां मृषात्वेनाभिधानमपि तत एव सङ्गच्छते । भासमानस्य च सूर्यस्योलूकानुमत्या तत्त्वाभावो यथाऽकिञ्चित्करस्तथा सहृदयेतरस्य दृशा रसस्यापि । श्रीमद्भगवताऽपि 'या निशा सर्वभूतानां तस्यां जागर्त्ति संयमी त्युक्तम् । सहृदयदृशा रसमन्तरेण काव्यसंसार एव न भासते इति निरवच्छिन्नत्वमेकत्वमद्वितीयमनतिरिक्तत्वं च तस्य निर्बाधम् । 'विज्ञानमानन्दं ब्रह्मेत्यादिभिः श्रुतिभिरुद्धोष्यमाणं ब्रह्मणो विज्ञानात्मकत्व मानन्दात्मकत्वं च रसरूपस्यैव सङ्घटते । रसस्य विज्ञानापरपर्यायानुभवात्मकताया आनन्दापरपर्यायावादात्मकतायाश्च सहृदयहृदयसाक्षिकत्वात् । ' तच्छुक्कमका यमत्रणमस्त्राविरर्ट ' इत्यादिभिश्च श्रुतिभिस्तस्यैवामुष्य निरवयत्वाद्युद्धोष्यते इत्यत्र न विप्रतिपत्तिः । सहृदयानां काचित् । ऐकमत्येन तैरेव रसस्य निरवयवत्वादीनामुद्धोष्यमाणत्वात् । इत्येवं कथं पुनस्तस्य भेदजिज्ञासा | काव्यसंसारे रसमन्तरण भानाभावान्न विजातीयत्वसमर्पितस्तस्य भेदः, निरवयवत्वादिना च न तस्य भेदान्तरावतारोऽपि । इति चेत् ! सत्यम् । न वास्तविकं भेदं तस्य वक्ष्यामः, किन्त्वौपाधिकम् । उपाधिः कः पुनरसौ पिशाच इति चेत् ! रक्तिमनीलिमायसम्पृक्तस्य स्फटिकस्य रक्तिमनीलिमत्वादिप्रत्यायकं जपाकुसुमेन्दीवरादिसन्निधानमिव, जातिव्यक्त्यादिः शरीरस्येव, शरीरादि च चेतनस्य शरीरिण इव, देश काल वक्तृ तात्पर्य संयोग विप्रयोगादिः शब्दार्थयोः, तत्समर्पितः पुना रसस्येति दिक् । १ ध्वनिस्तदाख्यमित्यर्थः । ध्वन्यतेऽभिव्यज्यते चमत्कारालिङ्गितो भावोऽस्मिन्निति ध्वनिः । 'खनिकस्य ज्यसिवसिवनिसनिध्वनि प्रन्थिचलिभ्यश्च (उ० ) ४। १४१ ॥ ' इत्यौणादिकादिः । च तथा । गुणीभूतव्यङ्गयं गुणीभूतोऽप्रधानीभूतो वाघ्यलक्ष्यपूर्वव्यङ्गयचमत्कारापेक्षया गौणत्वं प्राप्तो व्यङ्गयो व्यञ्जनयोन्नेयश्चमत्कारो यत्र तत् । व्यङ्गयचमत्कारोऽपि द्विधा पौर्वोऽन्त्यश्च । कापि पौर्वस्य क्वापि पुनरन्त्यस्य चमत्कार वैलक्षण्यमभिप्रेतं यथा भवति तथा पुरस्ताद् दर्शयिष्यते । तदाख्यं तत्स्वरूपं वेति भावः । इतीत्येवम् । काव्यम् । द्विधा । मतमङ्गीकृतम् । 'विवेकिभिरिति शेषः ।