________________
(तृतीयः
. २५६
साहित्यदर्पणः। शीघ्रं न व्रजसीति, मां गमयितुं कस्मादियं ते त्वरा,
भूयानस्य सह त्वया जिगमिषोर्जीवस्य मे सम्धमः ॥ १४१॥' भवन् यथा--
'प्रस्थानं वलयैः कृतं, प्रियसखैरौरजस्रं गतं, धृत्या न क्षणमासितं, व्यवसितं चित्तेन गन्तुं पुरः। यातुं निश्चितचेतसि प्रियतमे सर्वेसमं प्रस्थिता, गन्तव्ये सति जीवितप्रिय ! सुहत्सार्थः किमु त्यज्यते ॥ १४२॥'
प्रेयसी प्रत्युक्तिः)। शीघ्रमविलम्बो यथा भवेत्तथेति भावः । न नेव। ब्रजसियामि। इतीत्यस्माद्धताः। 'बाप्पं मुञ्चामी' ति शेषः । अयम्भावः पान्थेन सम कुलनिया भाषणानौचित्यंन तस्मिन् गते तेन भाषांवरह एवं युक्तः, स च तव शीघ्रगमनप्रयुक्तः स्यादिति तदभावाद्वाप्पं मुञ्चामि । इति (प्रेयांस प्रति प्रेयस्या इन्सुतिः) । भाग । 'तव दयित' मिति शेषः । गमयितुम् । कस्माच्छोकाभाव'इति शेषः । इयम् । 'शीघं न जसीति वाक्येन प्रत्याय्येति भावः । ते तव दयिताया इनि यावत् । त्वरा त्वरणम् । कार्यसहस्रातिपातेऽपि न दचितं गमर्यात काचित् , कि पुनस्त्वरयेद् गमयितुमिति भावः (इति प्रेयसः प्रेयसी प्रत्युक्तिः)। त्वया 'पान्थेने'ति शेषः । सह । जिगमिषोगन्तुमुत्कण्ठस्य । मे मम मदीयस्येति यावत्। अस्य। जीवस्यान्तरात्मनः । भूयानत्यन्तम् । अयम् । सम्भ्रमो व्यग्रता। 'उपस्थितेति शेषः । अयम्भावः-पान्थं त्वामवगम्य मदीयोऽयं जीवाऽपि बाल इव वलात् त्वया सह पान्यो भवितुमुत्कण्ठते । तदिति यावत्पान्थो न भवेत् तावत्त्वया त्वरितमपसर्त्तव्यम् । इति (प्रेयांस प्रति प्रेयस्या इयमुक्तिः)। एवं च नायिकानायकयोरुक्तिप्रत्युक्तिपरमिदं पद्यम् । अत्र शार्दूलविक्रीडित छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ १४१ ॥'
अत्रेदम्बोद्धव्यम्-मम गमनं शोकस्त्वया न कर्त्तव्य इति कान्तस्य प्रार्थनम् , प्रकारान्तरेण तद्गमन प्रतिषेद्धं नाति पान्थस्य तव गमने शोक इत्यपहवनं कान्तायाश्च । एवं च-याम इति किं, याय्येवासि, तद् यथेष्टं त्वरितं त्वया यातव्यम्, न कालोऽपयातव्यः, अनन किल कालापयापनेन मम मरणासन्नाया जीवितमतीवापीडयते । अथ यदि यायास्तर्हि जीवितापयापनेन सुखिता स्याम् , न यायाश्चेत् तर्हि जीवितस्य मुस्थतया सुस्थिता स्याम् । यानायानयोरेकतरासम्भवे जीवितं निष्कामदपि न निष्कामति, सन्तिष्टदपि न सन्तिष्ठते । नायकश्चालम्वनं, तस्य - याम 'इन्युक्तिरुद्दीपनं, जीवस्य जिगमिषुत्वाभिधानमनुभावोऽस्रपातो व्यभिचारी चेति यात्रायाः सम्भावितमात्रतया भावा प्रवासोऽभिव्यज्यते । इति ।
एवम्भाविनमुदाहृत्य भवन्तप्रवासमुदाहर्त्तमाह-भवन्नित्यादिना।। भवन सम्पद्यमानः । 'प्रवास'इति शेषः । यथा-'प्रस्थानं...'इत्यादौ ।
'हे जीवितप्रिय जीवनप्राणाः । इति यावत् । प्रियतमेऽत्यन्तं प्रिये। त्वत्तोऽपी'ति शेषः । अत एव-वन्नाथे कान्त इति भावः । यातुं गन्तुम् । अन्यत्र प्रवसितुमिति यावत् । निश्चितचेतसि निश्चितं चेतश्चित्तं बुद्धिरिति यावत्, यस्य तस्मिंस्तथोक्ते । निश्चित्यावस्थित इति भावः । सतिसप्तमीयम् । वलयः कटकैरुपलक्षणेन कङ्कणैश्चेत्यर्थः । 'कटको वलयोऽस्त्रियाम् ।' इत्यमरः । प्रस्थानं प्रयाणम् । कृतमारब्धम् । 'पुरोगन्तुमिव'ति शेषः । वस्तुत:--प्रयाण श्रुत्वैव दुर्मनायमानायाः काश्यन कटककरणानां पतनं संवृत्तमिति भावः । प्रियसखैः प्रियस्य कान्तस्य सखायः मित्राणि तथाभूतत्वेनात्यक्षितानीति यावत् , तैस्तथोक्तः । 'राजाहःसखिभ्यष्टच ।' ५।४।९५ इति टच । अस्त्रैरश्रुभिः । 'अस्रः कोण कचे पुसि, क्लीवमश्रुणि शोणिते।' इति यावत् । अजस्त्रं नित्यं चिरायेति यावत् । 'नित्यानवरताजस्रमपी' त्यमरः। गतं निर्गतम्। धृत्या धैर्येण । क्षणं क्षणपर्यन्तम्। 'अपी'ति शेषः । न । आसितमुपंक्शनं कृतम्। चित्तेन। 'अपि तथेति शेषः । पुरः प्रियतमगमना'दिति शेषः । गन्तुम् । व्यवसितं निश्चितम् । एवम-सर्वे 'वलयादय' इति शेषः। सममेकपदम्। प्रस्थिताः प्रस्थानं कृतवन्तः । अथ-गन्तव्ये 'त्वयाऽपी'ति शेषः । सति । सुहत्सार्थः सुहृदा वलायदीनां सार्थः समुदाय इति भावः । किम् । उ। त्यज्यते । कान्तप्रवास निश्चित्य खजीविते निराशायाः कस्याश्चित् कान्तायास्तदानींतनी खावस्थां निर्दिश्य खर्जीवितं प्रत्युक्तिरियम् । अमरुशतकस्येदं पद्यम् । अत्र शार्दल. विक्रीडितं वृत्तं, तल्लक्षणं चोक्तं प्राक् ॥ १४२ ॥'