________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। . २५७ भूतो यथा-'चिन्ताभिः स्तिमितं..'इत्यादौ । शापाद् यथा-'तां जानीयाः..' इत्यादौ ।
२४८ दिव्यनाभसमानुष्यो-त्पातजात्सम्भ्रमात्रिधा ॥ २३८॥ उन्मादादीनामत्रैवान्तर्भावान्न पार्थक्यम् । तत्र दिव्यो यथा-विक्रमोर्वश्यामुघशीपुरूरवसोः ।
इदं बोध्यम-प्रेयसः प्रवासनिश्चयमात्रेण कार्ये वलयानां पतनम्, अस्राणामतर्कितप्रेयःप्रवासशोकोपस्थित्या निर्गतानां प्रलयः, (अस्राण्यपि शोकज्वालां शमयितुं प्रभवन्ति, किन्तु तेषामपि प्रेयःप्रवासेन समं प्रवासश्चिराय उपस्थित इति भावः) एवं सति कथं धैर्यमवतिष्ठेत, कथं वा चित्तम् , तदिति हे प्रियजीवित ! तेषां सुहृदां सङ्घः किमु त्वया त्यज्यते, एतैर्विना त्वं किं करिष्यसीत्यन्ततो गन्तव्ये साम्प्रतमेव तवापि गमनं साम्प्रतम् । अत्र च-नायक आलम्बनं, स्मर्यमाणं पुरातनं प्रवासदुःखमुद्दीपनं, एवमुक्तिरनुभावः, अनादिर्व्यभिचारी चेति नायिकाया रतिज्ञे रसाभिव्यक्तिः । इति ।
भूतमुदाहरन्नाह-भूत इत्यादिना ।
भूतः । 'प्रवास'इति शेषः । यथा-'चिन्ताभिः स्तिमितं..'इत्यादौ । अयम्भावः-'चिन्ताभिः स्तिमित...' इति प्रवासस्य स्मरदशोदाहरणतयोदाहृतपूर्व पद्यम्, तत्र प्रोषितः प्रेयानालम्बनं, तस्य प्रत्यावर्तने विलम्ब उद्दीपनं, चिन्ताजाड्यादयोऽनुभावाः, चिन्ताऽऽदयश्च सञ्चारिभावाः, इत्येवम्भूतप्रवासोऽभिव्यज्यते । इति ।
__शापजः प्रवासस्तु तदुपाधीनामानन्त्येन गणयितुमशक्य इत्येकविध एवेति तद्भेदगणनामुपेक्ष्य तमुदाहरन्नाहशापादित्यादिना ।
शापाच्छापनिमित्तकोत्पत्तिकः । 'प्रवास' इति शेषः । यथा-'तां जानीयाः..इत्यादौ । अयम्भाव:-'तां जानीया' इति प्रोषितभर्तृकोदाहरणतयोदाहृतपूर्व पद्यम् , अन च कुबेरशापादन्तरितसहवासाया: प्रेयस्या आलम्बनत्वेन स्मर्य्यमाणायाश्च तस्या दैन्यावस्थाया उद्दीपनत्वेन मेघं प्रति दूतभावनया सन्देशोक्तेरनुभावतया ग्लान्यादेः सञ्चारितया शापजो यक्षयोः प्रवासोऽभिव्यज्यते । इति ।
अथ सम्भ्रमजं लक्षयति-२४८ दिव्य..इत्यादिना ।
२४८ दिव्यनाभसमानुष्योत्पातजात । दिव्याश्च नाभसा (आकाशप्रभवा ) श्च मानुष्या (मनुष्यलोके भवा) श्चेति तेभ्यो जायत इति तस्मात्तथोक्तात् । 'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यत' इति न्यायेनोत्पातपदस्य प्रत्येकं सम्बन्धः । दिव्या दिवि भवा उत्पाता विद्युदुल्काद्याः । नाभसा नभसि भवाः केतूदयाद्या उत्पाताः । मानुष्या मनुष्ये मनुष्यलोके भवा भूमिकम्पाद्याः । तथा च-दिव्योत्पातादिभ्यो जातो यस्तस्मादिति निष्कृष्टोऽर्थः । सम्भ्रमात्सम्भ्रमं निमित्तीकृत्य जात इत्यर्थः। 'प्रवास' इति शेषः । त्रिधा त्रिविधः। 'स्यात्' इति शेषः ॥ २३८ ॥
ननून्मादादीनामप्युत्पातानतिरिक्तत्वात् क्वान्तर्भाव इत्याशङ्कयाह-उन्मादादीनाभिल्यादिना ।
उन्मादादीनाम् ।आदिपदेन निर्घातादीनां ग्रहणम् । अत्रैषु दिव्योत्पातादिषु । एव । अन्तर्भावात। न । पार्थक्यं भेदः । भूकम्पादिवदुन्मादादयोऽपि मनुष्यलोकभवा उत्पाताः, केतूदयादिवनिर्घातादयोऽपि नाभसा उत्पाताश्चेति दिकू । तथा च-एभ्यः सजातस्य सम्भ्रमस्य त्रैविध्यादेतज्जातः प्रवासोऽपि त्रिविधः । इति ।
उदाहरति-तत्रेत्यादिना ।
तत्र तेषु सम्भ्रमस्य दिव्यादित्रैविध्येन त्रिविधेषु प्रवासेषु मध्य इत्यर्थः । दिव्यो दिव्यसम्भ्रमाजातः प्रवास इत्यर्थः । यथा-विक्रमोर्वश्यां तदाख्ये कालिदासकृते त्रोटकसज्ञके दृश्यकाव्यभेद इत्यर्थः । 'चतुर्थेऽङ्के' इति शेषः । उर्वशीपुरूरवसोः। उर्वशी नाम देवाङ्गना, पुरूरवा नाम राजर्षिः तयोः । इदं बोध्यम्-'उर्वश्या विहरता पुरूरवसा काऽपि विरहन्त्युदकवती नाम विद्याधरसुता क्षणं दृष्टा, तत् कुपिता मित्रावरुणशापाच हतविवेका विदितप्रभावमपि कुमारवन प्रविष्टवती । प्रविशन्त्येव लतासंवृत्ता, राजर्षिश्च तां विचिन्वन् प्रवासमन्वभूत् ।' इति तत्रत्यं तात्पर्य्यम् , एवं च सम्भ्रमानुपदं पुरूरवस' सम्भ्रमः । असौ च तादृशघटनाऽऽलम्बनकस्तेन सुरतविच्छेदोद्दीपनकः, प्रलापानुभावको
३३