________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । २४७ भावी भवन्भूत इति त्रिधा स्यात्तत्र कार्यजः । कार्य्यस्य बुद्धिपूर्वकत्वात् वैविध्यम् । तत्र भावी यथा मम-- 'यामः सुन्दरि ! याहि पान्थ ! दयिते ! शोकं वृथा मा कृथाः, शोकस्ते गमने कुतो मम, ततो बाष्पं कथं मुश्चसि ।
अयम्भावः-'चिन्ताभिः स्तिमितम्मनः' इत्यनेन आलम्बाख्या, 'करतले लीना कपोलस्थली'त्यनेन शोकमुद्रापुरस्कृताऽरुचिः, 'प्रत्यूषक्षणदेशपाण्डु वदन'मित्यनेन पाण्डुताकृशता, 'श्वासकखिन्नोऽधरः' इत्यनेन मृतिः, 'अम्भःशीकरपद्मिनीकिसलयैपति तापः शम'मित्यनेन तापश्चेति दशा अभिव्यज्यन्ते । मृतेः साक्षाद्वर्णनमनुचितमिति तत्प्रागवस्थैव मृतिपदबोध्याऽत्रोदिता । प्रत्यूषे क्षणदेशः कृशो मलिनश्च भवतीति वदनरूपस्याङ्गस्यासौष्टवमपि दर्शितम् । यद्यपि नैताः क्रमाद्दर्शिताः, अथापि आसां योगपद्येन न काऽपि विप्रतिपत्तिः । इति ।
यथा वा मम-'कान्ते याति पुरान्तरं सपदि संत्यक्ता विभूषाक्रियाः, कोऽप्यन्तर्निहितोऽनलश्च तनुता नीता च पाण्डतनूः । वैराग्यं समुपासितं, न तु धृतिर्दृष्टं जगत्तन्मयं, नो तत्त्वं, बत मूर्च्छनाः सुपठिता, नोन्मीलनार्थाः क्रियाः ॥' इति । अत्र हि क्रमाद्दश सर्वा अप्यमी बोधिताः । इति दिक् ।
अथाऽस्य कार्यजस्य प्रभेदानाह-२४७ भावी..इत्यादिना ।
२४७ तत्र तेषु कार्य्यजशापजसम्भ्रमजभेदाबिविधेषु प्रवासेषु मध्य इति यावत् । कार्यजः किञ्चित् कार्यमुपजीव्य प्रवृत्तः प्रवास इत्यर्थः । भावी भविष्यः । भवन् वर्तमानः । भूतः। 'चे'ति शेषः । इतीत्येवम् । विधा त्रिविधः । स्यात् ।
अस्य त्रैविध्ये हेतुं निर्दिशति-कार्य्यस्येत्यादिना।
कार्य्यस्य यत् किञ्चिदुपजीव्य प्रवृत्तः प्रवासस्तस्येति शेषः । बुद्धिपूर्वकत्वाज्ञानपूर्वकत्वात् । वैविध्यम । 'प्रवासस्येति शेषः । अयम्भावः--ज्ञानं हि त्रैकालिकमिति तत्पूर्वकस्य कार्य्यस्यापि त्रैविध्यम् , युक्तं चैवं प्रवासस्य त्रैविध्यम् । इति ।
क्रमादुदाहर्तुं प्रवृत्त आह-तत्रेत्यादिना ।
तत्र तेषु भाविभवद्भुतविधतया त्रिविधेषु कार्य्यजेषु प्रवासेविति यावत् । भावी । 'प्रवास'इति शेषः । यथा। मम 'विश्वनाथस्येति शेषः । मम-कृती-'यामः..' इत्यादौ ।
'हे सुन्दरि सौन्दर्यशालिनि ! एतेन-अस्मासु परत्र यातेष्वपि तव सौन्दर्यमेव युक्तं, न तु म्लानत्वमिति सूचितम् । यामो यास्यामः । 'वय'मिति शेषः । 'वर्तमानसामीप्ये वर्तमानववा ।' ३।३।१३१ इति लट् । गौरव
र्था बहुत्वेनोक्तिः । तथा च-न वयमल्पस्य हेतोरन्यत्र जिगिमिषामि, किन्तु महतः कार्य्यस्य हेतोरिति निष्कृष्टम् । (प्रेयसी प्रति प्रेयस इयमुक्तिः)। हे पान्थ पथिक ! एतेन-नास्ति मम त्वया दयितादयितत्वव्यवहारः । अस्ति चेत् ? किम्मां विहाय परत्र यातुमुद्यतोऽसि । तत्स्फुटं 'तव मयि प्रेमाभाव' इति सूचितम् । अत एवाह-याहि (प्रेयांसं प्रति प्रेयस्या इयमुक्तिः)। हे दयिते प्रेयसि ! 'यत्नादपि परक्लेश हत्ते या हृदि जायते । इच्छा भूमिसुरश्रेष्ट ! दया सा परिकीर्तिता ॥' इत्युक्तलक्षणेच्छा जाता यस्यास्तत्सम्बुद्वौ तथोक्ते । तारकादित्वादितच् । तथा च-सम्प्रति गन्तुमभ्यनुज्ञा प्रदायोत्साहनीया वयम् , न शोक प्रकटय्य प्रयाणे दुरितोदर्का विधेया। इति स्वाभिप्रायाविष्करणयोग्यत्वं सूचितम् । शोकम् । वृथा ‘तव स्वरूपस्य न्यकारकत्वादिति शेषः । मा नैव । कृथाः कुरु । 'माडि लुडु ।' ३।३।१७५ इति लुङ् । 'न माङ्योगे ।' ६।४।७४ इत्यटो निषेधश्च । (इति प्रेयसी प्रति प्रेयसोऽसावुक्तिः) ते तव पान्थस्येति यावत् । एतेन प्रयाणकर्तृत्वेन प्रेमाभावः, तद्दयित्वस्यासम्भवात्पान्थत्वमेव त्वयि युज्यत इति सूच्यते । अत एव-गौरवेण सम्बुद्धयभावोऽपि स्थाने इति बोध्यम् । गमने । मम तव पान्थत्वेन खतस्त्वया सम्भाषितुमप्यनुचिताया'इति शेषः । कुतः केन हेतुना। शोकः। : सम्भाव्यते'ति शेषः । (इति प्रेयास प्रति प्रेयस्या उक्तिः)। ततस्तर्हि । बाष्पमश्रु । 'बाष्पमूष्माश्रु'इत्यमरः । कथम् । 'शोकाभाव 'इति शेषः । मुश्चसि (इति प्रेयसः