________________
२५४ साहित्यदर्पणः।।
( तृतीयः२४६ असौष्ठवं मलापत्तिस्तापश्च विरहज्वरः ।
अरुचिर्वस्तुवैराग्यं सर्वत्रारागिताऽधृतिः ॥ २३६ ॥ अनालम्बनता चापि शून्यता मनसः स्मृता ।
तन्मयं तत्प्रकाशः स्याद्वाह्याभ्यन्तरतस्तथा ॥ २३७॥ शेष स्पष्टम् ।
एकदेशतो यथा मम तातपादानाम्'चिन्ताभिः स्तिमितं मनः, करतले लीना कपोलस्थली, प्रत्यूषक्षणदेशपाण्डु वदनं, श्वासैकखिन्नोऽधरः । अम्भःशीकरपद्मिनीकिसलयैर्नोपैति तापः शमं,
कोऽस्याः प्रार्थितदुर्लभोऽस्ति सहते दीनां दशामीदृशीम् ॥ १४० ॥' अथ सौकाय काश्चिद्वयाचष्टे-२४६ असौष्ठवं...इत्यादिना ।
२४६ असौष्ठवम् । मलापत्तिर्मलानामापत्तिः प्रक्षालनाद्यभावेन सम्पत्तिः । च तथा । तापः । विरहज्वरो विरहेण कतो ज्वरस्तद्वत्सन्तापः । अरुचिः। वस्तुवैराग्यं वस्तुषु पदार्थेषु वैराग्यमुपादेयेत्वप्यनुपादेयताव्यवहारः । अथ-अधृतिः । सर्वत्र सर्वस्मिन सुहृजनान्तर इति यावत् । अरागिता सन्तोषराहित्यं सन्तोषकरत्वप्रत्ययविमुखत्वमिति यावत् । अनालम्बनता नालम्बनमाश्रयो यस्य यस्या वा तस्य तस्या वा भावस्तत्तेति तथोक्ता । आश्रयशून्यत्वमनालम्बत्वमिति यावत् । च । अपि । मनसः । शून्यता निर्व्यापारत्वम् , विषयाग्राहितेति यावत् । स्मृता । तथा । तन्मयम् । बाह्याभ्यन्तरतो बहिरन्तवेति भावः । तत्प्रकाशस्तस्य तस्या वा प्रकाशः परिस्कूर्तिः । स्यात् ॥ २३६ ॥ २३७ ॥
पाण्डुताकृशताऽऽदीनां तु व्याख्यानं स्पष्टमित्याशयेनाह-शेषम् । स्पष्टम् । इति । अथाङ्गासौष्टवादीनां दिड्मात्रमुदाहरण प्रस्तावयति-एकदेशत इत्यादिना ।
एकदेशत एकांशाद्दिमात्र मिति यावत् । यथा 'अङ्गासौष्टवाद्या' इति शेषः । मम "विश्वनाथस्य'ति शेषः । तातपादानां पितृपादानां चन्द्रशेखराणाम् । अत्र पादशब्दः पूज्यार्थः । कृतौ 'चिन्ताभिः..' इत्यादौ ।
'चिन्ताभिः शोकानुगृहीतानविशेषैः । मनः । स्तिमितं चञ्चलमस्थिरमिति यावत् । यद्वा-क्किन्नं शान्तप्रकाशमिति यावत् । 'स्तिमितं तरले क्लिन्न' इति रुद्रः । करतले । कपोलस्थली गण्डदेशः । लीनाऽस्तमिता । प्रत्यूषक्षणदेशपाण्डु प्रत्यूषस्य प्रभातस्य प्रभातकालिक इति यावत् , क्षणदेशः क्षणदाया रात्रेरीशश्चन्द्र इति यावत्, तद्वत् पाण्डु पाण्डुरोगग्रस्तमिवेति तथोक्तम् । मलिनश्वेतीभावमापनमिति भावः । 'प्रत्यूषोऽहम्मुखं कल्य' मिति ‘त्रियामा क्षणदा क्षपा ।' इति चामरः । वदनम्मुखम् । श्वासैकखिन्नो श्वासेनैकं केवलं खिन्नः । श्वासमात्रेण खिन्न इत्यर्थः । मात्रपदेन कान्तदशनक्षतव्युदासः । अधरः । तथा-अम्भःशीकरपद्मिनीकिसलयैरम्भसा जलानां शीकराः कणिका इति, ते च-पद्मिनीकिसलयानि पद्मिनीनां कमलिनीनां किसलयानि पत्राणीति तानि च तैस्तथोक्तैः । अत्र ‘शीकरोऽ. म्बुकणाः स्मृताः । इत्युक्त्याऽम्भः पदं व्यर्थ सञ्चन्दनायुषितार्थ व्यन्जयतीति बोध्यम् । तापः सन्तापोन्तरात्मन' इति शेषः । शमं शान्तिम् । न । उपैति । अतः-अस्याः प्रकृते वर्ण्यमानावस्थाया नायिकायाः । प्रार्थितदुर्लभःप्रार्थितोऽसौ दुर्लभ इति तथोक्तः । कः। अस्ति । यः-ईदृशीम् । दीनाम् । दशामवस्थाम् । सहते न तां निवर्तयितुं प्रयतत इति भावः । विरहिणीसख्या नायकं प्रत्युक्तिरियम् । अत्र शार्दूलविक्रीडितं छन्दः, तलक्षणं चोक्तं प्राक् ॥१४०॥'