________________
परिच्छेदः] रुचिराख्यया व्याख्यया समेतः ।
२५३ २४३ प्रवासो भिन्नदेशत्वं कार्याच्छापाच्च सम्भ्रमात् । २४४ तत्रागचेलमालिन्य-मेकवेणीधरं शिरः ॥ २३३ ॥
निःश्वासोच्छ्रासरुदित-भूमिपातादि जायते । किश्व२४५ अङ्गेष्वसौष्ठवं तापः पाण्डुताकृशताऽरुचिः ॥ २३४ ॥
अधृतिः स्यादनालम्बस्तन्मयोन्मादमूर्च्छनाः।
मृतिश्चेति क्रमाज्ज्ञेया दश स्मरदशा इह ॥ २३५ ॥ २४३ कार्याद् कायं निश्चितं कर्तुं युक्तं, तस्मात्तदनुरुध्येत्यर्थः । ल्यपो लोपे पञ्चमीयम् । शापाच्छापो महतां कोपात्परानिष्टफलको वाक्यविशेषस्तस्मात्तं प्राप्येत्यर्थः । अत्रापि त्यपो लोपे पञ्चमी । च तथा । सम्भ्रमात् सम्भ्रमो हर्षेण भयेन वा किञ्चित्कृते त्वरणं तस्मात्तमुपजीव्येत्यर्थः । अत्रापि ल्यपो लोपे पञ्चमी । भिन्नदेशत्वम्भिन्नः पृथग्भूतो देशो ययोस्तत्त्वं तथोक्तम् । 'देशित्व' मिति तु न युक्तम्, 'न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकर' इति मत्वर्थीयानुपपत्तेः । 'नायिकानायकयो' रिति शेषः । प्रवासः। 'स्या' दिति शेषः । इदमुक्तम्नायकयोः पृथक्पृथग्देशवर्तित्वं प्रवासः, स च त्रिविधः, कार्यशापसम्भोगोपाधिभेदात् । इति ।
अथास्यानुभावाँलक्षयति-२४४ तत्रा..इत्यादिना ।
२४४ तत्र तस्मिन् प्रवासे सतीति यावत् । अचेलमालिन्यमङ्गं (शरीरं ) च चेलं (वस्त्रं ) चेति तयोर्मालिन्यमिति तथोक्तम्। 'अ गाने..' इति मेदिनी । 'चेलं वसनमंशुकम्' इत्यमरः । तथा-एकवेणीधरमेका सौरभलाद्यद्वासनाभावेन जटिलतां प्राप्ता वेणी केशरचनाविशेषस्तस्या धरमिति तथोक्तम् । शिरोमस्तकम् । अथनिःश्वासोच्छ्रासरुदितभूमिपातादि निःश्वासश्चोच्छासश्च रुदितभूमिपातादि चेति तथोक्तम् । निश्वासो दीर्घश्चसितम्, उच्छ्वास ऊर्द्धश्वसितम् । रुदितभूमिपातादि रोदनपृथिवीपतनचकितनिरीक्षणोद्धोषणादि। जायते समुद्भवति । प्रायेण नायिकायाः 'खाल्प्येन पुनर्नायकस्यापी'ति शेषः ॥ २३३ ॥
न केवलमेतावदित्याह-किश्चान्यदपि जायत इति भावः । किमित्यपेक्षायामाह-२४५ अङ्गेव...इत्यादिना ।
२४५ इहास्मिन् प्रवासे सतीत्यर्थः । अङ्गेषु शरीरावयवेषु मुखादिष्विति यावत् । असौष्ठवं न सौष्ठवं सुष्टुत्वं सुभगत्वमिति यावत्, इति तथोक्तम् । मालिन्यमिति भावः । ताप उपचारात्तादृशं दुःखम् । पाण्डुताकृशता पाण्डतया पाण्डुरुग्णतया (युक्ता) कृशता क्षामाङ्गत्वमिति तथोक्ता । 'पाण्डुस्तु पीतभागार्द्धः केतकीधूलिसन्निभः । इति शब्दार्णवः । अरुचिर्न रुचिरभिलापति तथोक्ता । सर्वेषु वस्तुषु वैराग्यभिति भावः । 'अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम् ।'इत्यमरः । अधतिन धृतिः सन्तोष इति तथोक्ता । असन्तुष्टत्वमिति भावः । 'धृतिर्योगान्तरे धैर्ये धारणाध्वरतुष्टिषु । इति विश्वः । स्यात् । तथा-अनालम्ब आलम्बशुन्यत्वम् । तन्मयोन्मादभूच्छनास्तन्मयं चोन्मादध मूर्च्छना चेति तथोक्ताः । प्राधान्येन प्रस्तुता सा यत्रेति, प्राधान्येन प्रस्तुतः स यत्रेति वा तत्तन्मयं, प्राधान्येन तत्स्वरूपभूतमित्यर्थः । मृतिर्मरणम् । च । इदं-समुच्चयार्थम् । 'चान्वान्वयसमाहारेतरेतरसमुच्चये।' इत्यमरः । इतीत्येवम् । क्रमात् पौर्वापर्येण । दश । यत्तक्तं विवृतिकारैः-'दशेत्यत्र एकादशेति विज्ञेयम् । इति, तत् पाण्डुताकृशताया द्वैतभ्रान्त्या । स्मरदशाः कामकृता अवस्थाः । ज्ञेयाः । इदमुक्तम्-प्रवासे सति यथासम्भवं नायकयोरसौष्ठवाद्यामरणान्ता दश कामस्य यथोत्तरं प्राबल्ये तत्कृता यथाऽऽनुपौय॑मेता अवस्था भवन्ति, न तु व्यत्ययेनेति ॥ २३४ ॥ २३५ ॥