________________
२५२
साहित्यदर्पणः ।
२४२ तत्र प्रियवचः साम, भेदस्तत्सव्युपार्जनम् ।
[ तृतीय:
दानं व्याजेन भूषादिः पादयोः पतनं नतिः ॥ २३१ ॥ सामादौ तु परिक्षीणे स्यादुपेक्षाऽवधीरणम् ।
रभसत्रासहर्षादेः कोपभ्रंशो रसान्तरम् ॥ २३२ ॥
यथा - 'नो चाडु श्रवणं कृतं... ' इत्यादि । अत्र सामादयः पञ्च सूचिताः, रसान्तरमूह्यम् ।
अथ प्रवास:
"
तथोक्ते । रसान्तरमन्यो रस इति तथोक्तम् । 'मयूरव्यंसकादित्वादन्यस्यान्तरादेशस्तत्परनिपातश्च । 'रस्यत इति ' रस औग्यं, तदन्यस्त्रासादिरिति भावः । इतीत्येवम् । 'पूर्वपूर्वस्य निष्फलत्व' इति शेषः । षट् । उपायान् । क्रमात् · न तु व्यत्ययेनेति भावः । पतिः । कुर्य्याद् विदध्यात् । तथा चेदं निष्कृष्टम् -- यदि साम्ना न मानो भज्येत तदा भेदं विदध्यात् तेन यदि नासौ नश्येत तदा दानम् इत्येवं क्रमेण पूर्वपूर्वस्य निष्फलत्वे यथोत्तरं वलीयां समुपायं विदध्यात् । अत एवोक्तं शृङ्गारतिलके - 'यथोत्तरं वलीयांस इत्युपायाः प्रसादने । आयास्त्रयो वरं कार्य्या विदग्धैः पश्चिमाः कचित् ॥' इति ॥ २३० ॥
ननु किन्नाम सामादीति तद् व्याचष्टे - २४२ तत्रेत्यादिना ।
२४२ तत्र तेषु सामादिषु मध्य इति यावत् । प्रियवचः प्रियमनुनयपूर्वकं सौहार्दावेदकं च तद्वच इति तथोक्तम् । साम । तथा तत्सख्युपार्जनं तस्या: ( प्रसिद्धाया मानिन्याः ) सखी तस्या उपार्जनं खानुकूलतां प्रत्यानयनम् । येनासौ खसख्या वुद्धिमन्यथा ( नायकानुनयपरतया ) सम्पादयेदिति भावः । भेदः । तथा । व्याजेन कपटेन येनासौ प्रथमं खं न जानीयात्तेन केनाप्युपायेनेति यावत् । भूषादिर्नेपथ्यादिः । 'भूषादे' रिति पाठे तु 'अर्पण' मित्यध्याहार्यम् । दानम् । तथा पादयोः पादसमीपे । पतनं 'शिरसे 'ति शेषः । नतिः ॥ प्रणमनम् । खामादौ । आदिपदेन भेददानप्रणिपातानां ग्रहणम् । तु पुनः । परिक्षीणे सर्वथा क्षीणे । सतिसप्तमीयम् । विफले जाते सतीति भावः । अवधीरणं तिरस्कारोऽनभिलाषीभवनमिति यावत् । ' प्रसादनस्ये 'ति शेषः । उपेक्षा । स्यात् । अथरमसत्रासहर्षादे रभसागा त्रासहर्षो, तावादी यस्य ( निर्वेदादेः ) तस्मात्तथोक्तात् । कोपभ्रंशः कोपस्य भ्रंशो लक्षणया तद्धेतुरित्यर्थः । रसान्तरम् ॥ २३१ ॥ २३२ ॥
लक्ष्यं दर्शयति-यथा- 'नो चाटुश्रवणं कृतं...' इत्यादि 'पद्य' मिति शेषः । कथमिदं लक्ष्यमित्याशङ्कयाहअस्मिन्, 'नो चाटुश्रवणं कृतं... ' इत्युदाहृते व्याख्यातपूर्वे पथ इति यावत् । सामादयः सामभेददाननत्युपेक्षा इत्यर्थः । पञ्च मानभङ्गोपाया' इति शेषः । सूचिताः । ननु षष्ठं क्केत्याह - रसान्तरम् । ऊह्यं गवेषणीयमिति भावः । ' अन्यत्रे 'ति शेषः । इदमुक्तम् - कलहान्तरिताया उदाहरणत्वेन निदर्शितपूर्वमत एव तदानीं व्याख्यातमपीदं 'जो चाटुश्रवणं कृतं ... ' इति पयम्, असौ च-नायकं निराकृत्य पश्चात्तापं कुर्वत्याः कस्याश्चिदुक्तिः, तथा च--'नो चाटुश्रवणं कृतमित्यनेन 'नायकेन सामोपासित' मिति, 'न च दृशा हारोऽन्तिके वीक्षित' इत्यनेन 'नायकेन दानं कृत' मिति, 'कान्तस्य प्रियहेतवे निजसखीवाचोऽपि दूरीकृता' इत्यनेन 'नायकेन भेदोऽनुष्टित' इति, 'पादान्ते विनिपत्य तत्क्षणमसौ गच्छ' नित्यनेन च 'नायकेन नतिरुपेक्षा च क्रमादाश्रिते इति नायिकोक्तिः स्फुटमवगमयति । अथ रसान्तरमुदाहतं यथा तर्कवागीशै: - कथं ममोरसि कृतपक्षनिखनः शिलीमुखोऽपतदिति जल्पति प्रिये । विवृत्य किंकिमिति सजल्या तया ससाध्वसं कुपितमवोचि कान्तया ॥' इति, अत्र हि कान्तवक्षसि शरपतनशङ्कया मानभङ्गः । इति ।
एवं मानं सप्रभेदं लक्षयित्वा क्रमप्राप्तं प्रवासं लक्षयितुमुपक्रमते - अथेत्यादिना ।
अथ सप्रभेदस्य मानस्य लक्ष्यलक्षणाभ्यां निदर्शनानन्तरमित्यर्थः । प्रवासः । लक्ष्यते - २४३ प्रवासो.. इत्यादिना ।