________________
२५१
ETTI
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । सम्भोगचिह्ननानुमिते यथा
'नवनखपदमङ्गङ्गोपयस्यंशुकेन, स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् ।
प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्प-नवपरिमलगन्धः केन शक्यो वरीतुम् ॥ १३९ ॥' एवमन्यत्र । अथ मानभङ्गोपायानाह२४१ साम भेदोऽथ दानं च नत्युपेक्षे रसान्तरम् ।
तद्भङ्गाय पतिः कुर्यात् षडुपायानिति क्रमात् ॥ २३० ॥ अपि न त्वेककमिति भावः । रोषरजोभी रोषः पत्युरन्यस्याः प्रियाया नेत्रपरागापनयनकरणापराधजन्यः क्रोध एव रजांसि धूलयस्तैः । अभीक्ष्णम्मुहनिरन्तरं वा। 'अमीक्ष्णमसकृत्समाः । इति 'अभीक्ष्णं शश्वदनारते । इति चामरः ।
पूरे समन्ततः पूर्ण जातम् । कर्मणि लिट् । शिशुपालवधस्येदं पद्यम् , पुष्पिताग्रा वृत्तम् , तल्लक्षणं चोक्तं प्राक् ॥ १३८ ॥
अथानुमितस्योदाहरणं निर्देष्टुमुपक्रमते-सम्भोगचिनेत्यादिना । सम्भोगचिह्न । अनुमिते पत्युरन्यप्रियासङ्ग ईष्यामान'इति शेषः । यथा-'नव...इत्यादौ ।
'नवनखपदं नवानि अत एव प्रत्याख्यातुमशक्यानि नखपदानि नखानां पदाभि चिह्नानि यत्र तत् तथोक्तम् । 'पदं व्यवसितित्राणस्थानलक्ष्माघ्रिवस्तुषु ।' इत्यमरः । अई शरीरम् । 'अझं गात्रे प्रतीकोपाययोः पुम्भूम्नि नीति ।' इति मेदिनी । अंशुकेन वस्त्रेणोत्तरीयेण वा । अंशुकं श्लक्ष्णवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोः । इति मेदिनी । गोपयसि निगूहसे । खार्थ णिच् । दन्तदष्टं दन्तेन दष्टस्तम् । ओष्ठम् । पुनः । पाणिना हस्तेन । स्थगयसि छादयसि । 'सम्बुद्धिपदानभिधानं क्रोधातिशयं सम्बोधनीयस्यानभिधेयत्वं च द्योतयतीति बोध्यम् । 'स्थगं' अपवारणे । खार्थे णिच् । प्रतिदिशं दिशिदिशि । विभक्त्यर्थेऽव्ययीभावः । 'अव्ययीभावे शरत्प्रभृतिभ्यः ।' ५।४।१०७ इति टच् । अपरस्त्रीसङ्गशंस्यपराऽसौ स्त्री (सपत्नी) तस्याः सङ्गस्तं शंसति कथयतीत्येवंशीलः । विसर्पन्न्याप्नुवन् । नवपरिमलगन्धो नवः सद्योभुक्तत्वेनास्तमप्राप्तोऽसौ परिमल: कुसुमामर्दनजन्यः शोभनो गन्ध इति तथोक्तः । 'विमर्दोत्थे परिमल'इत्यमरः । केनांशुकेन पाणिनाऽन्येन वे'ति शेषः । वरीतुं गोपयितुम् । 'वृतो वा ।' ७।२।३८ इतीटो दीर्घः । शक्यः। सपत्नीभवनादुपपन्नन्नायकं प्रति नायिकायास्तत्सम्भोगोद्घाटनोक्तिरियम् । तथा च-यद्यपि नखाघातचिह्नानि दन्तदशनचिह्नानि च तव तया सह सम्भोगं निवेदयन्ति तानि हि साम्प्रतिकानि, कालान्तरीणानि कदाचित्तिरोधीयेरन्नपि तदपि तेषां खशरीरसम्बन्धितयांऽशुकादिना निगृहनं कर्तुं पार्य्यते, अथायं सर्वतो व्याप्तः परिमल: कथं निगुहितुं पारिष्यते । इति निष्कृष्टं तात्पर्य्यम् । अत्र मालिनी छन्दः, तल्लक्षणं चोक्तं प्राक॥ १३९ ॥ एवमन्यत्रान्यविधोऽपामान ऊद इत्याह-एवमित्यादिना ।
यथा दृष्टो भोगाङ्कानुमितश्च विनयति..'इत्यत्र 'नवनख'..इत्यत्र च दर्शितस्तथा स्वयमुत्स्वप्नायितानुभितो गोत्रस्खलनानुमितः धृतश्चेत्येवं त्रिविधोऽन्योऽपीामान इति भावः । अन्यत्र । 'द्रष्टव्य'इति शेषः । यथा चा मम'घूर्णनयनं निपतद्वसनं वर्षमजं स्खलच्चिकुरम् । प्रातर्यान्तं कान्तं दृष्टा कान्ताऽन्तिकान्ताऽऽसीत् ॥' 'कमले ! कासि गता त्वं मध्येरससिन्धु मां निपात्यवत । इत्युन्नदति विबुद्धा कान्ते सहसा जगामास्तम् ॥' 'रभन्यति सततमसौ तां सा च तमिन्दु कलेव संश्रयते । इत्याकयं रुषा स्वं दयितमपि हन्त सम्मेने ॥' इत्यादावह्यः ।
एवं सप्रभेदं प्रणयमानमामानं च निदर्य प्रसङ्गान्मानशमनोपायान् निदर्शयितुं प्रतिजानीते-अथेत्यादिना । अथ मानस्य कार्यकारणाभ्यां निर्देशानन्तरम् । मानभड्रोपायान् । आह-२४१ साम...इत्यादिना ।
२४१ तद्भङ्गाय तस्य (मानस्य ) भङ्गो भञ्जनं तस्मैं। साम सान्त्वनम। अनुनयवचनैः सौहार्दावेदनमिति यावत् । भेदो मानिन्याः सखीं वशीकृत्य तद्द्वाराऽपराधस्यान्यथाबोधनमिति भावः । अथ । दानं कथमपि करणादिसमर्पणम् । च तथा । नत्युपेक्षे नतिश्च (पादयोर्निपत्य प्रसादनं च) उपेक्षा च (अवज्ञया सामादिप्रयोगाभावश्च) इति