________________
३५०
.
- साहित्यदर्पणः।
[तृतीयः२४० पत्युरन्यप्रियासङ्गे दृष्टेऽथानुमिते श्रुते ॥ २२८॥
ईर्ष्यामानी भवेत्स्त्रीणां तत्र त्वनुमितिस्त्रिधा।
उत्स्वनायितभोगाङ्क-गोत्रस्खलनसम्भवा ॥ २२९ ॥ तत्र दृष्टे यथा
'विनयति सुदृशो दृशोः परागं प्रणयिनि कौसुममाननानिलेन । तदहितयुवतेरभीक्ष्णमक्ष्णो-र्द्धयमपि रोषरजोभिरापुपूरे ॥ १३८ ॥'
कानायकाः । सहासरभसव्यासक्तकण्ठग्रहः सहासं यथा स्यात्तथा रभसेन वेगेन व्यासक्तो भुजबन्धनेन दृढं लग्नः कण्ठग्रहां यत्र सः। क्रियाविशेषणत्वं तु युक्तम् । मानकलिर्मानस्य कलि: कलहः । कली स्त्री कलिकायां, ना शूरा. तिकलहे युग।' इति मेदिनी । भग्नत्रुटितः । अत्र दम्पत्योरन्योन्यगता रतिः परिपुष्यमाणा सम्भोगात्मना परिणता, तत्र दर्शनमात्रेण मानत्यागोऽनुभावः, हर्षश्च व्यभिचारी । अमरुशतकस्येदं पद्यम्, अत्र शार्दूलविक्रीडित छन्दः, तल्लक्षण चोक्तं प्राक् ॥ १३७ ॥'
एवं प्रणयमानं निरूप्येामानं निरूपयितुमुपक्रमते-२४० पत्युरित्यादिना ।
२४० पत्युन तूपपते'रिति शेषः । अन्यप्रियासनेऽन्याऽसौ प्रिया तस्या आसङ्ग आसक्तिस्तस्मिन् । दृष्टे । अथ तथा। अनुमिते तत्परिभुक्तदुकूलधारणादिदर्शनद्वारा निश्चिते । एवम्-श्रुते । 'सती'ति शेषः स्त्रीणां नायिकानाम । ईामान ईययाऽसहिष्णुतया मानः । 'तृतीया तत्कृतार्थन गुणवचनेन ।।१।३ इति तृतीयासमासः । ईाया मान इति पक्षे तु-'षष्ठी।' २।२।८ इति सम्बन्धसामान्यविवक्षया समासः । भवेत् । तत्र तस्मिन्नामाने । त पुनः । उत्स्वप्नायितभोगाइगोत्रस्खलनसम्भवोत्स्वप्नायितं (सुरतश्रमवशाद गाढ निद्रा) च भोगाङ्कश्च (सम्भोगचिहं च) गोत्र (नाम) स्खलनं (उच्चारण) चेति तानि सम्भव उत्पत्तिर्यस्याः सा। सम्भवत्यस्मादिति सम्भवः । 'ऋ. दोरपू ।' ३।३१५७ इत्यप् । 'गोत्रं कुलाख्ययोः । इति मेदिनी । अनुमितिरनुमानम् । त्रिधा त्रिप्रकारा । 'ज्ञेये'ति शेषः । अयम्भावः-ईर्ष्यामानो नायिकानामेव जायते, तथाहि-यदि प्रियो यस्यां कस्याञ्चिदन्यस्यामनुरज्येत, तया रममाणश्च दृष्टोऽनुमितः श्रुतो वाऽयं भवेत्तदा तदासक्तिसमर्पितसपत्नीसौभाग्यविभावक ईर्ष्यामानः समुदयते । न चायं नायकानाम् , नायिकानां हि नायकान्तरासक्तो शृङ्गारस्यवानभ्यनुज्ञानात् । इति ॥ २२८ ॥ २२९॥
दर्शनादिना भिद्यमानाया नायकस्य नायिकान्तरासक्तेरुदाहृतत्वेनैवेामानमुदाहृतत्वं मन्यमान आह-तत्रेत्यादिन।। . तत्र तस्मिनीामानस्य मूलभूते नायकस्य नायिकासङ्ग इति यावत् । दृष्टे । सतिसप्तमीयम् । 'ईOमान' इति शेषः । यथा-'विनयति..' इत्यादौ ।
'सदृशः शोभने सुखदे वा दृशो नेत्रे यस्यास्तस्याः । निजाभिमतायाः कान्ताया इत्यर्थः । 'यस्या' इति शेषः । दृशोदृष्टियुगलोपरीत्यर्थः । सप्तमीयम् । 'दृक् स्त्रियां दर्शने नेत्रे बुद्धौ च, त्रिषु वीक्षक ।' इति मेदिनी। 'स्थित' मिति शेषः । 'दृश'इति पाठे तु-पञ्चमी । नेत्रादित्यर्थः । कौसुमं कुसुमस्य कमलाद्यन्यतमस्येदं तत्तथोक्तम् । परागं रजः । 'पराग: कौसुमे रेणौ धूलिस्नानीययोरपि । गिरिप्रभेदे विख्यातावुपरागे च चन्दने ॥' इति मेदिनी । अस्यानेकार्थतया 'कौसुम' मिति विशिष्याभिधानान पौनरुत्यकृते, प्रत्युत पुनरुक्तवदाभासार्थमिति बोध्यम् । आननानिलेन मुखवायुना । विनयति समुद्भूयापनीतं कुर्वति (कत्तु प्रवत्तमान इव)। प्रणयिनि प्रणयः प्रेमास्मिन्नस्ति, न त्वस्यास्तीति; तथोक्ते । एतेन-नायके नायिकाया अनुरागः, न तु नायकस्य नायिकायामिति समर्थितम् । यद्वा-यस्याः नेत्रपरागमपनयति, तस्यां प्रणयोऽस्यास्तीति तथोक्त इति युक्तमेवेति बोध्यम् । 'प्रणयः प्रसरे प्रेम्णी'ति मेदिनी । सतिसप्तमीयम् । तदहितयुवतेस्तस्या (नायकेनापनीयनेत्रपरागत्वेन महोन्नतायाः) अहितयुवतिरहिता प्रतिकूला युवतिस्तरुणी तस्याः । अक्षणोनॆत्रयोः। 'षष्टी शेषे ।' २।३।५० इति षष्टी। द्वयं युगलम् । द्वाववयवौ यस्य तत् । 'सङ्ख्याया अवयवे तयप्।' ५।२।४२ इति तयप् । 'द्विंत्रिभ्यां तयस्यायज् वा ।' ५।२।४३ इति तयस्यायच् ।