________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । 'धूभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्धीक्षते, रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते । कार्कश्यङ्गमितेऽपि चेतसि तनू रोमाश्चमालम्बते,
दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने ॥ १३६ ॥ यथा वा
'एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोरन्योऽन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोौरवम् । दम्पत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषो
भग्नो मानकलिः सहासरभसव्यासक्तकण्ठग्रहः ॥ १३७ ॥' ___ 'भ्रूभने ध्रुवोर्बुकुट्यार्भङ्गः कौटिल्य तस्मिन् । 'भशस्तरङ्गे भेदे च रुगविशेष पराजये। कौदिये गयविजित्यो इति मेदिनी । रचिते । षष्टी चानादरे ।' २।३।३८ इति सप्तमी । अपि किं पुनरन्यदे'ति शेपः । तथा च-उद्यम्य कृतमपि भ्रुकुट्योः कौटिल्यमनादृत्यैवेति निष्कृष्टोऽर्थः । दृष्टिर्नेत्रम् । 'दृष्टिनिऽदिण दर्शने । इति हैमः । जातावेकवचनम् । यद्वा-उद्वीक्षणक्रियायां भेदत्यागेन व्यापृतत्वमादायकत्वेन तथोक्तिः । अधिकम्प्रभारचनापक्षयाss. धिक्यं यथा स्यात्तथेति भावः । सोत्कण्ठमुत्कण्ठया सह वर्तत इति तद्यथा स्यात्तथा । उद्धीक्षते पश्यति कष्टं वर्ष प्रावर्ततेति यावा । 'अपूर्वमिव य'मिति शेषः । 'गायां लडपिजात्वोः ।। ३।३।१४२ इति गायां भते लट । रुद्धायां निर्व्यापारतां नीतायाम् । अपि किं पुनरन्यदेति शेषः । वाचि वाग्देव्याम्। 'गीर्वाग्वाणी सरखती।। इत्यमरः । अनादर सप्तमीयम् । तथा च-'नाहं तेन सम्भाषिष्ये' इति नियापारतां नीतामपि वाचमनादत्येति निष्कृष्टोऽर्थः । इदम् । दग्धाननं दग्धं लक्षणया तुच्छं यदानने तत् । सस्मितं स्मितेनषद्धास्येन सह वर्तत इति तथोक्तम् । जायते कष्टमवर्तत । अत्रापि गहस्यां भूते लट् । आननस्य सस्मितत्वेन विधेयं दग्यत्वं विशेषणीभतं गौणतां प्राप्तमिति विधेयाविमर्शः । कार्कय कर्कशस्य निष्ठुरस्य भावः कार्कश्य तत्तथोक्तम् । ‘स्यात्केर्कशः साहसिकः कठोरामसुणावपि ।' इत्यमरः । गमिते नीते न तु गते, एतेन यत्नातिशयो द्योतितः । अपि । चेतसि चित्ते। 'चित्तं ततो हृदय'मित्यमरः । अत्राप्यनादरे सप्तमी । तथा च-कर्कशता नीतामपि चित्तवृत्तिमनारत्येति निकृष्टम। तनूः शरीरम् । रोमाञ्चं रोमोद्गमम् । आलम्बते कष्टमवालम्बत । अत्राप्यपियोगे तथा लट् । तस्मिन । जने नायकरूपे लोके । दृष्टे । अत्राप्यनादरे सप्तमी । तथा च-तं जने हृष्टमनादृत्येति निष्कृष्टोऽर्थः । मानस्य चित्तोड़तताविशेषस्य । 'मानश्चित्तसमुन्नतिः ।' इत्यमरः । निर्वहणं निर्वाहः । कथं केनोपायेन । भविष्यति । न कथमपीति भावः । 'मानस्त्वया तदा रक्षितव्य' इत्युपदिशन्तीं सखी प्रति कस्याश्वित्सरलस्वभावायाः स्वखाभाव्याक्तिरियम । तथा च-यदा यदा मान रक्षितुं समुद्यताऽहं, तदा सर्वदेव मम नेत्रादिवपरीत्यमाचारतवत् , तत् कथमद्यैव तंदृया प्रभविष्यामीति निष्कृष्टोऽर्थः । एवं च-नायिकाया नायकविषया रतिः परिपुष्टा सम्भोगात्मनाऽवतिष्ठते । तथा दर्शनादिव्यापारा अन. भावा असूया चात्र व्यभिचारिणी नायकस्य दर्शनादौ सोत्कण्ठत्वादेगर्हितत्वाप्रत्यायनात् । अमरुशतकस्येदं पद्यम। अन शार्दूलविक्रीडितं छन्दः । तल्लक्षणं चोक्तं प्राकू ॥ १३६ ॥'
उदाहरणान्तरमपि दर्शयति-यथा वा-इत्यादिना । वाऽथवा । यथा । मानस्यानुनयपर्यन्तासहत्वे सम्भोगसञ्चारित्वमिति शेषः । 'एकस्मिन्..इत्यादी ।
'एकस्मिन्नभिन्ने । शयने शय्यायाम् । ‘शयनं सुरते निद्राशय्ययोश्च नपुंसकम् ।' इति मंदिनी। पराइमर. तया पराङ्मुखे ययोस्तयोर्भावस्तत्ता तया तथोक्तया। वीतोत्तरवीत निवृत्तमुत्तरमुक्तिप्रत्युक्तिरूपं यस्मिंस्तद् यथा भवेत्तथा। ताम्यतोः क्लिश्यतोः । 'तमु' काक्षायाम् । अन्योऽन्यस्य परस्परस्य । 'असमासवद्भावे पूर्वपदस्थस्य सुपः सुर्वक्तव्यः।' इति सुः । हदि हृदयेऽन्तरात्मनीति यावत् । अनुनये धाष्टयाभावे । स्थिते । अनादरे सप्तमी । अपि । गौरवं गुरुत्वं 'कथमहं पूर्वमनुनयेय' मिति महत्त्वमिति यावत् । संरक्षतोः पालयतोर्निर्वहतोरिति यावत् । अथापि-शनकैः शनैः । अपाङ्वलनादपाङ्गयोर्नेत्रपर्यन्तभागयोर्वलनं चालनं तस्मात् । 'अपाङ्गो नयनस्यान्ते स्याचित्रकप्रधानयोः ।। इत्यजयः । 'वल' सञ्चरणे । युट् । मिश्रीभवचक्षुषोर्मिश्रीभवन्ति व्यासजन्ति चढूंषि ययोस्तयोः दम्पत्यो यि.