________________
[ तृतीयः
साहित्यदर्पणः । गंडपरिउंबणपुलइअंग ण पुण्णो चिराइस्सं ॥ १३४॥
नायिकाया यथा-कुमारसम्भवे सन्ध्यावर्णनावसरे । उभयोर्यथा
'पणअकुविआण दोपण वि अलिअसुत्ताण माणइण्णाणं ।
णिञ्चलणिरुद्धणीसासदिण्णअण्णाण को मेल्लो ॥ १३५ ॥' अनुनयपर्यन्तासहत्वे त्वस्य न विप्रलम्भभेदता, किन्तु-सम्भोगसश्चार्याख्यभावत्वम् । यथासमयं जागरितं, न त्वमुपागतवतीति यत्र स्थितवत्यसि तत्रैव तिष्टेति कोपो मयि न निधेय इत्याह-गंडपरिउंबणपुलइअंग गण्डपरिचुम्बनपुलकिताज गण्डया: कपोलयो: परिचुम्बनं परितश्चुम्बनं तेन पुलकितमङ्गं यस्य तत्सम्बुद्धौ तथोक्त ! इति यावत् । पुण्णो पुनः । ण न । चिराइस्सं चिरस्यामि विलम्ब करिष्यामीति यावत् । चिरादागमने 'नात्र शयीते ति पर्यकं निरुध्य मिषेणापि सुप्तं सुप्तमालक्ष्य कथमपि तत्र लब्धशयनावकाशाया निद्राव्याजेन स्वगण्डपरिचुम्बगेन पुलकिताङ्गं च तं दृष्ट्वा ज्ञाततद्भावायाः स्वचिरागमनापराधक्षमापनार्थेयं कस्याश्चित् कामिन्या उक्तिः । एवं च नायकस्य प्रणयमहत्त्वेऽपि मानो व्यज्यते । अत्र गाथा छन्दः, तल्लक्षण चोक्तं प्राक् ॥ गाथासप्तशत्याः पद्यमिदम्॥१३४॥'
एवं नायकस्य प्रणयमानमुदाहृत्य नायिकायाः प्रणयमानमुंदाहर्त्तमुपक्रमते-नायिकाया इत्यादिना ।
नायिकाया नायिकात्वेनाभिमतायाः पार्वत्या इत्यर्थः । 'प्रणयमान' इति दोषः । यथा--कुमारसम्भरे कुमारस्य देवसेनापतेः सम्भवो जन्म लक्षणया तं प्रकृत्य कालिदासेन कृतं काव्यमिति तस्मिंस्तथोक्ते । 'अष्टम सर्ग' इनि शेषः । सन्ध्यावर्णनावसरे । मुञ्च कोपमनिमित्तकोपने : सन्ध्यया प्रगमितोऽम्गि नान्यया। किन्न वत्सि सहधर्मचारिणं चक्रवाकसमवृत्तिमात्मनः ॥' इत्यादाविति शेषः ।
अथोभयोःप्रणयमानमुदाहर्तुमुपक्रमते-उभयोरियादिना । उभयो यकनायिकयोः । 'प्रणयमान' इति शंषः । यथा । 'पण..' इत्यादी ।
'पणअविआण प्रणयकुपितयोः प्रणयेन कुपिते तयोस्तथोक्तयोः । दोषण योनायकनायिकयारिति यावत् । वि अपि । अलिअसुत्ताण अलीकसुप्तायोनिद्रामन्तराऽपि निद्रालीढयोरिव पतितयोरिति यावत् । माणइण्णार्ण मानविज्ञयोर्माने विज्ञे चतुरे तयोः । 'प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः ।' इत्यमरः । 'अन्योऽन्य' मिति शेषः । तथा
-अन्योऽन्यम्मानाविष्करणे चतुरयोरित्यर्थः । णिच्चलणिरुद्धणीसासदिण्णअण्णाण निश्चलनिरुद्धनिश्वासदत्तकणयोः । को कः । मल्लो मल: समर्थ इति यावत् । 'मानभञ्जन' इति शेषः । परस्परं रुष्टे नायकनायिके अवलोकयन्यास्तदन्तःपुरचारिण्याः कस्याश्चित् 'पर्ष्याप्तोऽयम्मान' इति मानभन्जनाथै यतमानाया वितर्कोक्तिरियम् । अत्रापि गाशा छन्दः, तल्लक्षणं चोक्तं प्राक् । इदं च गाथा सप्तशत्याः ॥ १३५ ॥'
अनुनयमन्तरेणैवास्य निवर्त्यत्वेऽसूयारूपत्वमित्याह-अनुनय...इत्यादिना ।
अस्य प्रणयमानस्येत्यर्थः । अनुनयपर्यन्तासहत्वेऽनुनयस्य 'क्षमस्व प्राणेशे : न पुनरपराधियति कदाचनायं दासस्ते सुकृतिनि दयां घेहि सुमुखि । इत्याद्यर्थनस्य पर्यन्तोऽवधिस्तदसहत्ये। अनुनयमन्तरव निवर्त्यत्र इति भावः । सतिसप्तमीयम् । तु पुनः । विप्रलम्भभेदता विप्रलम्भस्य भेदात्मकत्वम् । न 'मन्तव्य'ति शेषः । किन्तु-सम्भोगसञ्चार्याख्यभावत्वं सम्भोगस्य सन्चायांख्यभावो व्यभिचारिभावस्तस्य भावस्तत्त्वम् । इदमुक्तम्प्रणयमानो यद्यनुनयमन्तरैव निवत्यंत, तदाऽसौ सम्भोगस्यासूया नाम सञ्चारिभावविशेष इत्याख्यायते न पुनर्विप्रलम्भविशेष इति । इति।
उदाहरति -यथा-भ्रूभङ्गे...इत्यादौ ।
२ 'अलीकप्रसुप्तकनिमीलिताक्ष ! देहि सुभग ! मह्यमवकाशम् । गण्डपरिचुम्बनपुलकिताङ्ग न पुनश्चिरस्यामि ॥' इति संकृतम् । २ प्रणयकुपितयोईयोरपलीकगुपयोनिविज्ञयोः । निश्चलनिरूद्धनिःश्वासदत्तकर्णयोः को मलः ।' इति संस्कृतम्।