________________
२४७
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः । २३८ मानः कोपः, स तु देधा प्रणयेासमुद्भवः । २३९ द्वयोः प्रणयमानः स्यात् प्रमोदे सुमहत्यपि ॥ २२७ ।।।
प्रेम्णः कुटिलगामित्वात् कोपो यः कारणं विना। . 'द्वयोरिति, नायकस्य नायिकायाश्चोभयोश्च प्रणयमानो वर्णनीयः । तत्र नायकस्य यथा
'अलिअपसुत्तअ णिमीलिअच्छ ! देसु सुहअ मज्झ ओआसं ।
२३८ मानः । 'नामे'ति शेषः । कोपो लक्षणया तन्मूलो विप्रलम्भ इत्यर्थः । स मानमूलो विप्रलम्भ इत्यर्थः । तु। प्रणयासमुद्भवः प्रणयश्चेा चेति ते सम्भव उत्पत्तिस्थानं यस्य स इति तथोक्तः । प्रणयः प्रीत्या प्रार्थनं प्रीतिरेव वा । ईर्ष्यासपत्न्याद्युत्कर्षासहिष्णुत्वम् । 'प्रश्रयप्रणयौ समौ ।' इति 'प्रणयास्त्वमी। विश्रम्भयाच्याप्रेमाण' इति 'अक्षान्तिा ' इति चामरः । 'सन्निति शेषः । तथा .च-प्रणयजात ईर्ष्याजातश्च सन्नित्यर्थः । द्वेधा द्विविधः । तथा च-मानस्य द्वैविध्यान्मानविप्रलम्भोऽपि द्विविध इति निष्कृष्टम् ।
ननु प्रेमकोपयोः परस्परं विरुद्धत्वात् कथं प्रणयसम्भवो मान इत्याशङ्कयाह-२३९ द्वयोः..इत्यादिना ।
२३९ दयोनायिकानायकयोरित्यर्थः । 'व्यस्तसमस्तयो'रिति शेषः । न च 'द्वे च द्वे चेति तयो'रिति वाच्यम एकद्विव्यादीनामेकशेषानभ्यनुज्ञानात् । तथा च-नायिकानायकयोर्व्यस्तयोः समस्तयोर्वेति निष्कृष्टम् । समह. त्यतिशयितो ( जीवनावधिस्थायी ) महानिति तस्मिंस्तथोक्ते । अपि 'किं पुनररूपे' इति शेषः । प्रमोदे प्रेम्णि कोपावसरप्रतिरोधके हेताविति यावत् । प्रेम्णः। कुटिलगामित्वात् कुटिलोऽसौ गामी सञ्चारीति तस्य भावस्तत्त्वं तस्मात् । 'कुटिलनिष्ठत्वा' दित्यन्ये । कारणम् । विना । यः। कोपः । 'स' इति शेषः । प्रणयमानः प्रणयस्य मानः । स्यात् । अयम्भावः-यद्यपि प्रेम्णि सति कोपः स्यादिति वक्तुं न शक्यते, तथाऽपि-वैश्वानरे स्वर्णस्येव कोप एवं प्रेम्णः परीक्षेति कविभिस्तथा वर्ण्यते नायिकानायकाभ्यां च तथाऽनुष्ठीयते । तत्सुष्ठूक्तं 'प्रेम्णः कुटिलगामित्वादिति ॥ २२७ ॥
कारिकाकाठिन्यं परिहर्तुं द्वयोरिति पदार्थ निर्दिशन्नाह-द्वयोरित्यादिना ।
द्वयोः। इतीत्यस्या'इति शेषः । नायकस्य । च तथा । नायिकायाः। चाथवा । उभयो यकनायिकयोः । प्रणयमानः प्रणयस्य मानः लक्षणया तन्मूलो विप्रलम्भ इत्यर्थः । वर्णनीयः । 'इत्यभिप्राय'इति शेषः । इदं बोव्यम्-'वर्णनीय' इत्यत्रानीयरः प्रत्ययस्य कृत्यसञ्ज्ञकतयाऽहर्थेि प्रयोगः, तथा च-वर्णयितुमर्ह इत्यर्थः पर्यवसीयते । वर्णनीयत्वं चान्यथा तस्य विवेकानुपपत्तेरेव । तदिति साधूक्तं प्रणयस्य कुटिलत्वे वर्णनीयत्वम् । इति ।
एवं प्रणयमानस्य त्रैविध्ये क्रमप्राप्तं तावदुदाहर्तुमुपक्रमते-तत्रेत्यादिना ।
तत्र तेषु नायकादिसम्बन्धित्वेन त्रिविधेषु प्रणयमानेषु मध्य इत्यर्थः । नायकस्य 'प्रणयमान' इति शेषः । यथा'अलिअ... इत्यादौ ।
'अलिअपमुत्तअ अलीकप्रसुप्तक अलीकम्मिथ्या प्रसुप्तं प्रखापः (शयनं ) यस्य तत्सम्बुद्धौ तथोक्त । इति यावत् । 'शेषाद्विभाषा।' ५।४।१५४ इति कप् । अत एव-णिमीलिअच्छ निमीलिताक्ष निमीलिते निर्व्यापारे कृते (न तु जाते ) अक्षिणी नेत्रे येन तत्सम्बुद्धौ तथोक्त ! इति यावत् । यद्वा-समस्तमिदम् , तथा च-अलीकं यत् प्रसुप्तं (शयन) तस्य कं सुखं (क्रीडारसः) तेन निमीलिते अक्षिणी यस्येति तत्सम्बुद्धौ तथोक्त ! 'अलीकं त्वप्रियेऽनृते ।' इत्यमरः । प्रसुप्तमित्यत्र भावे क्तः । 'सुखशीर्षजलेष कम्।' इति मेदिनी। सहअ सुभग ! मज्म मह्यमनुनयपरायै तव प्रियायै इति यावत् । ओआसं अवकाशं शय्यायां शयनसान्निध्योपयोगित्वमिति यावत् । देसु देहि । एतावन्तं