________________
[ तृतीयः
२४६
साहित्यदर्पणः। २३६ नीली कुसुम्भम्मञ्जिष्ठा पूर्वरागोऽपि च त्रिधा ॥ २२३ ॥ तत्र२३७ न चातिशोभते यन्ना-पैति, प्रेम मनोगतम् ।
तन्नीलीरागमाख्यान्ति यथा श्रीरामसीतयोः ॥ २२४ ॥ कुसुम्भरागं तत्पाहु-र्यदपैति च शोभते । देवहूत्या समं यद्वत् कर्दमस्य तपस्विनः ॥ २२५ ॥ मञ्जिष्ठारागमाहुस्वद् यन्नापैत्यतिशोभते ।
इन्दुमत्या यथाऽजस्य दमयन्त्या नलस्य वा ॥ २२६ ॥ अथ मान:
अथास्य त्रैविध्यं दर्शयति-२३६ नीली..इत्यादिना ।
२३६ च पुनः । पूर्वरागः । अपि । नीली तत्स्वरूपभूत इत्यर्थः । कुसुम्भं तत्स्वरूपभूतः । मनिष्ठा तत्स्वरूपभूतः । 'चेती'ति शेषः । त्रिधा ॥ २२३ ॥
अथ त्रिविधानामेषां लक्षणनिर्देशपूर्वक लक्ष्याणि निर्देष्टमुपक्रमते-तत्रेत्यादिना । तत्र तेषु नीलाद्यपाधिकेषु रागेषु मध्ये
२३७ यत् । न । अपैति निवर्त्तते । न। च 'य'दिति समन्वेति । अतिशोभतेऽत्यन्तं शोभते प्रत्यक्षं सद्विकसतीति भावः । तत् । मनोगतं न तु बहिर्भूतम् । प्रेम । नीलीरागं नीली नीलोऽसौ राग इति तं तथोक्तम् । 'नीली रुगभेदनीलिन्यो' रिति मेदिनी। आख्यान्यभिदधति ।। 'विशेषज्ञा' इति शेषः । उदाहरति-यथा। श्रीरामसीतयोः श्रीरामचन्द्रस्य सीतायाश्चेत्यर्थः । थ्रिया युक्ते रामसीते इति श्रीरामसीते तयोः । 'अल्पान्तरम् ।' २।२।३४ इत्यनेन रामस्य पूर्वनिपातः । यद्वा-श्रीरामश्च सीता चेति तयोरित्येव युक्तम् । 'अभ्यर्हितं चे'त्यनेन श्रीरामस्य पूर्वनिपातः । अत एव रामस्य श्रीविशिष्टत्वं शोभते । न च स्त्रीवाचकस्यैव पूर्वनिपातनं न्याय्यम् , तथा प्रमाणानुपलब्धेः 'इन्द्रेन्द्राण्या' इत्याद्युदाहरणोपलब्धेश्च । अयम्भावः-श्रीरामचन्द्रस्य जनकनन्दिन्याश्च पारस्परिकोऽनुराग आन्तरिको विरहदैयेऽप्यरिक्तैश्वर्य्य एवासीदिति नीलीरागसदृशत्वान्नीलीरागापराभिधेयः । इति । अथ यत् । अपैति 'कालान्तरे' इति शेषः । च । शोभते यावद्वियोगाद्यभावस्तावद् बाह्यमपि भवतीति भावः । तत् 'प्रेमे'ति शेषः । कुसुम्भरागं कुसुम्भः कौसुम्भोऽसौ रागस्तम् । कुसुम्भरागसदृशमिति भावः । 'कुसुम्भं हेमनि महारजते ना कमण्डलौ ।' इति मेदिनी। प्राहुः । उदाहरति-यद्धत् । देवहत्या। समम् । कदमस्य । तपस्विनः । अयम्भावः कर्दमस्य देवहूत्याश्च पारस्परिकोऽनुरागो यावत्तद्भगवदवतार इति कुसुम्भरागसदृश इति । तथा यत् । न । अपैति । किन्तु-अतिशोभते । तत् 'प्रेमेति शेषः । मनिष्ठारागं मजिष्ठा मञ्जिष्ठासम्बन्ध्यसौ रागस्तम् । आहः। उदाहरति-यथा। अजस्य रघुपुत्रस्य । इन्दुमत्या। 'सम'मिति शेषः । वाऽथवा । 'यथे'ति पूर्वतोऽन्वेति । नलस्य । दमयन्त्या 'सम मिति शेषः । अयम्भावः-- अजस्येन्दुमत्याश्च नलस्य वा दमयन्त्याश्च पारस्परिकोऽनुरागो यावज्जीवनं स्फुटोऽभूदिति मञ्जिष्टासदृशो गाढो रमणीयश्चेति ॥ २२४ ॥ ॥ २२५ ॥ २२६ ॥
एवं पूर्वराग निर्वर्ण्य निर्दिश्य च क्रमप्राप्तम्मानं निर्वर्णयितुमुपक्रमते-अथेत्यादिना । अथ पूर्वरागनिर्देशनानन्तरम् । मानः । 'निर्दिश्यत' इति शेषः । २३८ मानः..इत्यादिना ।