________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
उन्मादो, मूर्च्छा, मृतिरित्येताः स्मरदशा दशैव स्युः ।' इति ।
तत्र च
२३५ आदौ वाच्यः स्त्रिया रागः पुंसः पश्चात्तदिङ्गितैः ।
इङ्गितान्युक्तानि यथा - रत्नावल्यां सागरिकावत्सराजयोः । आदौ पुरुषानुरागे सम्भवत्यप्येवमधिका हृदयङ्गमता भवति ।
२४५.
उन्माद उन्मत्तत्वम् । मूर्च्छा वैचित्त्यम् । मृतिर्मरणम् । 'चे 'ति शेषः । इतीत्येवं दर्शिता इति भावः । एताः । 'दश । एव । स्मरदशा । स्मरस्य कामस्य दशास्तत्कृता अवस्था इत्यर्थः । स्युः । इति ॥ १३३ ॥
अत्रेदं वोध्यम्-चित्तासङ्गोऽभिलाषे. सङ्कल्पश्चिन्तायां, निद्राभङ्गानुताविषयनिवृत्तिव व्याधौ त्रपानाशः सम्प्रलापे, मूर्च्छा जडतायां च तिरोधीयन्ते, नयनप्रीतिः पूर्वानुराग एव, मृतिः पुनर्नांनाऽप्यभिन्नोदिता । तदिति - अन्यासामपि दशानां सम्भवापरिहेयत्वेन कविराजैरभिहिता एवं दश दशाः साम्प्रतं प्रतिभासते । इति ।
पूर्वानुरागः प्रथमं कस्य वाच्यमित्याकाङ्क्षायामुत्तरयितुमुपक्रमते तत्रेत्यादिना ।
तत्र तस्मिन् पूर्वानुराग इत्यर्थः । च
२३५ आदौ प्रथमम् । स्त्रिया नायिकायाः । ' नायक विषय' इति शेषः । रागोऽनुरागः । वाच्यो वक्तव्यः । पश्चान्नायिकाया अनुरागकथनानन्तरम् । तदिङ्गितैस्तस्या नायिकाया इङ्गितान्यभिप्रायनिवेदकानि चेष्टितानि तैः । पुंसः पुरुषस्य नायकस्येति यावत् । 'रागो वाच्य' इति पूर्वतोऽन्वेति ।
कुत्र दर्शितान्येवंविधानि चेष्टितानीत्याह- इङ्गितानि चेष्टितविशेषाः । ' आकारस्त्विज्ञ इङ्गितम् । इत्यमरः । यथा- । रत्नावल्यां रत्नावली प्रस्तुत्य श्रीहर्षदेवेन निम्मितायां नाटिकायामित्यर्थः । सागरिकावत्सराजयोः । उक्तानि 'तथाऽन्ययोर यवगन्तव्यानी 'ति शेषः । अयम्भावः - सागरिका नाम सिंहलेशस्य दुहिता वासवदत्ताया वयस्या रत्नावलीतराभिधेया, वत्सराज: पुनर्वासवदत्तायाः स्वामी । तयोरेवान्योऽन्यं हार्दावेदकानि चेष्टितानि रत्नावल्यां नाटिकायां दर्शितानि । तथाहि - वासवदत्तया छलेन खसन्निधानतो निवर्त्तयितुं सारिकासन्निधानं गन्तुं प्रेरितया सागरिकया fararasure निलीय मदनमर्चयितुं कुसुमावचयनात्प्रभृति- 'हद्दीहद्दी ! कहं कुसुमलोहोक्खित्तहिअआण अदिचिरं जेव्व मए किदं ता इमिणा सिन्दुवार विडवेण ओबारिअसरीरा भबिअ पेक्खामि (विलोक्य) कहं पेक्खिदो जेब्ब अब्बो कुसुमाउहो अह्माणं तादस्स अंतेउरे चित्तगदो अचीअदि इह दु पच्चक्खो लक्खीअंदि ।' इत्यादिना वत्सराजविषयकप्रेमावेदकानि चेष्टितानि, वत्सराजेन पुनः - चित्रफलकदर्शनानन्तरं 'लीलाऽवधूतपद्मा कथयन्ती पक्षपातमधिकं न । मानसमुपैति के चित्रगता राजहंसीव ॥ ' इत्यभिधानात्प्रभृति- 'श्रीरेषा पाणिरप्यस्याः पारिजातस्य पलव: । कुतोऽन्यथा स्वत्येष स्वेच्छा मृतद्रवः ॥ इत्यादिना दर्शितानि । इति ।
ननु प्रथमं यदि पुरुषस्यैवानुरागः स्यात्तदाऽसौ तथोच्येत का क्षतिरित्याशङ्कयाह - आदौ पुरुषनिष्ठानुरागसम्भवात् प्रथमम् । पुरुषानुरागे । पुरुषनिष्ठे नायिकाविषयानुराग इति भावः । सम्भवति । सतिसप्तमीयम् । अपि । एवं नायिकाSनुरागवर्णनस्य प्राथमिकत्व इति भावः । अधिका' नायकानुरागवर्णनस्य प्राथमिकत्वापेक्षयेति शेषः । हृदयङ्गमता युक्तमुपेतत्वं रमणीयतेति यावत् । ' सङ्गतं हृदयङ्गमम् ।' इत्यमरः । भवति सम्पद्यते । अयम्भावःपुरुषः पौरुषापेतो न शोभते, पौरुषं च वैद्यभिन्नमेवेति विदितं विदुषाम् तथा च- पुरुषस्य धैर्य्याद्यपराभिधेयं पौरुषमुद्भावयितुं तन्मनसि जातमपि मदनक्षोभं न निवन्नन्ति सहृदयधुरीणाः । उक्तं चैवं स्थाने - 'आदा'वित्यादि । इति ।
१ 'हाधिकाधिक ! कथं कुसुमलोभोत्क्षिप्तहृदययाऽतिचिरमेव मया कृतं तस्मादमुनैव सिन्धुवारविटपेनापवारितशरीरा भूत्वा प्रेक्षिष्ये । कथं प्रेक्षित एवापूर्वः कुसुमायुधः, अम्माकं तातस्यान्तःपुरे चित्रगतोऽर्च्यते, इह तु प्रत्यक्षो लक्ष्यते ।' इति ।