________________
२४४
साहित्यदर्पणः ।
[ तृतीय:
ममैतौ ।
तृतीयं यथा - कादम्बय महाश्वेता पुण्डरीकवृत्तान्ते । एष च प्रकारः करुणविप्रलम्भविषय इति वक्ष्यामः । चि
'नयनप्रीतिः प्रथमं, चित्तासङ्गस्ततोऽथ सङ्कल्पः । निद्राछेदस्तनुता, विषयनिवृत्तिस्त्रपानाशः ॥ १३३ ॥
कण्ठोत्थिताः स्वराः । ' इत्यमरः । कलयन्तु रचयन्तु । अश्मसारकटिना अमसारव होहवत् कठिनाः । एतेनात्यन्तायास दातृत्वं सूचितम् । 'लोहोsस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी । अश्मसार' इत्यमरः । अमी । प्राणाः । सत्वरं झटिति । एतेन प्राणानामत्यन्तमनुपयोगित्वं ध्वनितम् । गच्छन्तु गच्छन्तु । कामाभ्यनुज्ञायां द्विर्भावः । अत्र शार्दूलविक्रीडितं वृत्तम्, तलक्षणं चोक्तं प्राक् ॥ १३२ ॥ '
अयम्भावः - अनुरागवशाद्विश्विष्य स्थातुमक्षमस्याक्षमाया वा कस्याश्विनायिकाया जीवनान्निराशाया उक्तिरियम् । तथा च-भ्रमरा झङ्कारसन्तानैर्दिशो निरवकाशाः कुर्वन्त्वित्याद्या अभ्यनुज्ञा 'गच्छन्तुगच्छन्तु प्राणा' इत्यभ्यनुज्ञाऽर्था एव तासामत्र साहाय्याधायकत्वात् । अनुरागिणां हि परस्परं विश्लिष्य स्थितानां भ्रमरझङ्कारादयोऽत्यन्तं जीवितं संशयं नयन्त इति समयः । इति ।
उदाहृतं 'शेफालिकां..' इति, ' रोलम्बा: .. ' इति श्लोक स्वस्येत्याह-मम । एतौ उदाहृतौ लोकावित्यर्थः प्रत्युज्जीवनाशा पुरस्कृतं मरणमुदाहरन्ति तृतीयमित्यादिना ।
तृतीयं 'प्रत्युज्जीवनं स्याददूरतः । इति निर्दिष्टम्भरणमित्यर्थः । यथा । कादम्बय तदाख्ये गद्यकाव्ये । महाश्वेता पुण्डरीकवृत्तान्ते । 'वर्णित ' मिति शेषः । इदमुक्तम्- महाश्वेता नाम हंसस्य गन्धर्वराजस्य दुहिताssसीत्, पुण्डरीकः पुनः श्वेतकेतोस्तपोधनप्रवरस्य तनयः । परस्परमनुरागोत्पत्त्यनन्तरं विश्लिष्य स्थितयोः पुण्डरीकस्तपः प्रवणप्रवरोऽपि मदनशरज्वालया जर्जरीकृतो लोकान्तरपथिकोभूत् । अथ तस्मिंस्तदवस्थे महाश्वेतायां च तथा भवितुमुद्यतायां केनापि समुपदिष्टम् -' वत्से महाश्वेते ! न त्याज्यास्त्वया प्राणाः । पुनरपि तवानेन भविष्यति समागमः । इति । स्फुटं चैवं प्रत्युज्जीवनाशापुरस्कृतं मरणं पुण्डरीकस्य । इति ।
ननु भवतु तथा सन्निकृष्टजीवनं तन्मरणम्, किन्तु तदन्तः सम्भवति शोके किन्न करुणः ? इति चेत्सत्यमित्याहएष चेत्यादिना ।
एषोनुरागोद्भावनानन्तरमनुरागाश्रयस्य मरणवर्णनरूप इत्यर्थः । प्रकारः । च । करुणविप्रलम्भविषयः करुणविप्रलम्भयोर्विषय: स्थानम् । इतीत्येवम् । वक्ष्यामः ( यूनोरेकतरस्मिन् गतवति लोकान्तरं पुनर्लभ्ये । ) ' इत्यादिने 'ति शेषः । अयम्भावः - सन्निकृष्ट प्रत्युज्जीवने मरणे वर्ण्यमानेऽपि यावन्न प्रत्युज्जीवनं तावच्छोकर ति विप्रकृष्टत्वयोरवस्थानम् । रत्याश्रयस्य लोकान्तपथिकत्वे शोकः, प्रत्युज्जीवनाशादाढर्थे तदानों च ततो विश्लेषसद्भावे रतेविप्रकर्षश्च । स्फुटौ चैव करणो विप्रलम्भव । इति ।
अथ मतान्तरन्या एवं मरणदशा इत्याह- केचित्वित्यादिना ।
केचिद् वात्स्यायनप्रभृतयः । तु पुनः । 'आह'रिति शेषः ।
किमाहुरित्यपेक्षायामाह - 'प्रथमं गुणश्रवणाद्यवसरानन्तरं गुरुजनादिपरतन्त्रत्वेऽपि साक्षात्कारे सम्पद्यमाने इति भावः । नयनप्रीतिर्नयनयोः प्रीतिः परस्परमनुरागस जिगमिषाऽऽ दिव्यञ्जको ऽवस्थाविशेषः । ततस्तदनन्तरम् । चित्तासङ्गश्चित्तस्यासङ्ग आसक्तिः । अथ । सङ्कल्पोऽहमेतेन सङ्गच्छेय' मियाकारको मनोधर्म्मः । अथ तत्र विलम्बेनिद्राछेदो निद्रायारछेदोऽभावः । अत एव तनुता कृशत्वम् । विषयनिवृत्तिर्विषयेभ्यः शरीरयात्रा निर्वाहकेभ्यो भोजनादिभ्यो ( sपि ) निवृत्तिविरक्ति: । त्रपानाश एते गुरवः किमन्तरवगमिष्यन्तीत्येवं लज्जाया अभावः ॥