________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । तत्राद्यं यथा
'शेफालिकां विदलितामवलोक्य तन्वी प्राणान्कथञ्चिदपि धारयितुं प्रभूता।
आकर्ण्य सम्प्रति रुतं चरणायुधानां किं वा भविष्यति न वेद्मि तपस्विनी सा ॥१३१॥' द्वितीयं यथा
'रोलम्बाः परिपूरयन्तु हरितो झङ्कारकोलाहलैमन्दम्मन्दमुपैतु चन्दनवनीजातो नभस्वानपि । माद्यन्तः कलयन्तु चूतशिखरे केलीपिकाःपञ्चम प्राणाःसत्वरमश्मसारकठिनागच्छन्तुगच्छन्त्वमी ॥ १३२॥
अत्रैवं बोध्यम्-मरणं तावच्चतुर्विधम्, प्रत्युज्जीवनाशाशून्यं, जातसदृशं, 'स्यान्ममेति चिन्तितं, प्रत्युज्जीवनाशासनाथ चेति भेदात् ; तत्राद्यं रसभङ्गहेतुत्वान्न वर्ण्यते, त्रिविधं पुनर्वर्ण्यते । इति ।
उदाहर्तुं प्रतिज़ानीते-तत्रेत्यादिना।। तत्र तेषु वर्णनीयेषु त्रिविधेषु मरणेषु मध्य इत्यर्थः । आद्यम् । 'मरण'मिति शेषः यथा-'शेफालिकां..'इत्यादौ।
'तन्वी कान्ता मदीयदर्शनमारभ्य मयि जातानुरागतया विरहाकुलत्वेन कृशाङ्गी वेत्यर्थः । 'तनुः काये स्वचि स्त्री स्यात्रिष्वल्पे विरले कशे ।' इति विश्वमेदिन्यो । 'वोतो गुणवचनात् ।' ४।१।४४ इति ङीष् । शेफालिकां निर्गुण्डीम् । 'शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा ।' इत्यमरः । विदलितां विकसिताम् । अवलोक्य । कथञ्चिन्महतारऽयासनमाणात मागितम न तु धर्तु, तत्र मम वियोगेन स्वत्वस्य परित्यक्तत्वात् । अपि । प्रभूता क्षमा जाता । सा तदानीमेव कथञ्चिदनिर्गमितप्रीति भावः । अत एंव-तपारका मदवियोगे त्यक्तशरीरापेक्षत्वेनाहारादिविमुखा तदवध्यन्यत्रादत्तचित्ता वेति भावः । समप्रति रात्रिशेषावसरे । चरणायुधानां कुकुटानाम् । 'कुकुटश्चरणायुधः ।' इत्यमरः । रुतं शब्दम् । आकर्ण्य श्रुत्वा । किं किमवस्थाका । भविष्यति । 'इती'ति शेषः । न । वेद्मि जानामि । वेति तु वाक्यालङ्कारार्थम् ।
अयम्भावः-सायं कयोश्चित्कुत्रापि सानुरागं साक्षात्कारो जातः, अथ-मनसा दृष्टिपातं वञ्चयितुमशक्तयोरपि तयोः स्वस्वं निकेततनं प्रति कथमपि गुरुजनादितन्त्रतया गतयो यको नायिका नक्तं चिन्तयमानोऽतएवोच्छिन्ननिद्र आह-सम्भावयामि मम सा प्रिया तदवध्येवाशमनीयबाधा, अथापि निशीथे मनसिजबाधोद्दीपकं शेफालिकाया विदलनमवलोक्यावशिष्टपरिमितनिःश्वासोच्छासा सम्भूयापि न सर्वथा जीवनावस्थातो विमुखीसंवृत्ता । किन्तु ततोऽप्यसह्यं साम्प्रतिकं कुक्कुटानां रुतमाकर्ण्य किमवस्थाका भविष्यतीति न ज्ञातुं क्षमे, संवृत्ता किं ननु विमुखी जीवना. बस्थातः ? इति । अत्र वसन्ततिलकं छन्दः ॥ १३१ ॥
चेतसाऽऽकाङ्कितं मरणमुदाहर्तुं प्रतिजानीते-द्वितीयमित्यादिना । द्रितीयं चेतसाऽऽकाङ्कितम् । 'मरण 'मिति शेषः । यथा-'रोलम्बाः ...'इत्यादौ ।
'रोलम्बा भ्रमराः । 'रोलम्बः स्यान्मधुकर'इति गोपाल: । झङ्कारकोलाहलैङ्कारा एव कोलाहलास्तैः । शङ्कारस्य कोलाहलत्वं त्वसह्यत्वात् , अत एव बहवचनेनापि निर्देशः सङ्गच्छत इति बोध्यम् । हरितो दिशः । 'आशाश्च हरितश्च ताः । इत्यमरः । परिपूरयन्तु परितो व्याप्ताः कुर्वन्तु । चन्दनवनीजातश्चन्दनानां वनी वन तत्र जातः प्रभूत इति तथोक्तः। ‘षिद्गौरादिभ्यश्च ।' ४।१।४१ इति डीए । नभस्वान् वायुः । 'नभखद्वातपवनपवमानप्रभञ्जनाः । इत्यमरः । अपि । मन्दम्मन्दम । उपैत । 'काम'मिति शेषः । चूतशिखरे चूतानामाम्राणों शिखरं शिरोदेशस्तत्र। 'आम्रचूतो रसालः' इति, 'शिरोऽग्रं शिखरं वा ने'ति चामरः । माद्यम्तः प्रमत्ताः सम्पद्यमानाः । केलीपिकाः केलीनां क्रीडानां (सञ्चारकाः) पिकाः कोकिला इति तथोक्ताः। 'केलिः केली रतिः क्रीडे ति गोपालः । 'कोकिल: पिक इत्यपि ।'इत्यमरः । पञ्चमं तदाख्यं रागखरम् । 'पञ्चमश्चेत्यमी सप्त तन्त्री