________________
(तृतीयः
साहित्यदर्पणः। . . इत्यत्र च व्याधिः। 'भिसिणीअलसअणीए णिहि सव्वं सुणिच्चलं अंगं । दीहो णीसासहरो एसो साधेइ जीअइ सि परं ॥ १३० ॥' इत्यत्र च जडता । इदम्मम । . २३३ रसविच्छेदहेतुत्वान्मरणं नैव वर्ण्यते ॥ २२१ ॥ २३४ जातप्रायं तु तद्वाच्यं चेतसाऽऽकाङ्कितं तथा ।
वर्ण्यतेऽपि यदि प्रत्यु-जीवनं स्याददूरतः ॥ २२२ ॥
इत्यत्र । च । व्याधिः 'कुत्राप्यनुरक्ताया बालाया' इति शेषः । यथा वा-'क्षामक्षामकपोलमाननमुरःकाठिन्य. मक्तस्तनं. मध्यः क्वान्ततरः, प्रकामविनतावंसौ छविः पाण्डुरा । शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते पत्राणामिव शोषणेन मरुता, स्पृष्टा लता माधवी ॥' इत्यत्र दुष्यन्तेऽनुरक्तायाः शकुन्तलाया व्याधिः । . , 'भिसिणीअलसअणीए बिसिनीदलशयनीये बिसिनीनां कमलिनीनां दलानि पत्राणि तेषां शयनीयं शय्या तत्र । 'नलिन्यां तु विसिनीपद्मिनीमुखाः ।' इत्यमरः । सव्वं सर्वम् । अई करचरणादि । सणिञ्चलं सुनिश्चलम् । णिहि निहितं स्थापितमिति यावत् । अथापि-एसो एषः । दीहो दीर्घः । णीसासहरो निःश्वासभरः । जीआइ जीवति एसा (एषा)' इति शेषः । त्तीत्येवम् । परं केवलम् । साधेइ साधयति । अत्राा छन्दः । तल्लक्षणं चोक्तं प्राक् । इदं च कविराजानाम्, अत एव वक्ष्यन्ति-'इदम्ममेति ॥ १३० ॥'
इत्यवेत्यस्मिनुदाहृते पद्य इति यावत् । च । जडता । 'क्वाप्यनुरक्ताया नायिकाया'इति शेषः । उदाहृतं चेदं पद्य खप्राकृतकाव्यस्येति सूचयितुमाह-इदं भिसिणी...'इति पद्यम् । मम दर्पणकृत इत्यर्थः ।
यथा वा-' भवद्वियोगाच्छिदुरार्तिधारायमस्वसुर्मज्जति निःशरण्यः । मूर्छामयद्वीपमहान्ध्यपङ्के हाहा महीभृद्भटकुलरोऽयम् ॥'इत्यत्र नलस्य मूर्छाया वर्णनात्।
अथ कामस्यान्त्यदशामुदाहर्तुं प्रवृत्तः प्रथमं तत्र वक्तव्यविशेषं निर्दिशति-२३३ रस...इत्यादिना ।
२३३ रसविच्छेदहेतुत्वाद्रसस्यानुरागस्य रतेरिति यावद् विच्छेदो विनाशस्तद्धेतुत्वात् । मरणं मरणाख्या दशा । नैव । वर्ण्यते'कविभि'रिति शेषः । रत्याश्रयस्य मरणदशायां रतेर्विनाशश्शोकस्य पुनरुदय इति मरणरूपानुभावेन रतौ विनष्टायां तत्स्थायिकस्य शृङ्गारस्याप्यनुदयस्तस्मान्मरणं पूर्वरागवर्णनावस्थायां न वर्ण्यत इति भावः । विवृतिकारा अपि व्याचक्षते-'रत्याश्रयस्य मरणाद्रतेर्नाश इति मरणरूपानुभावेन रतेर्मेलनाभावाद्रसत्वं नोपपद्यते । इति । 'मिलनाभावा' दिति पाठान्तरन्तु च्युतसंस्कारमेव, मिलनस्य कुटादित्वाभावेन गुणनिषेधानुत्पत्तेः ॥ २२१ ॥
एतस्य प्रतिप्रसवमाह-२३४ जातप्रायं...इत्यादिना।
२३४ तु किन्तु । तन्मरणं तदाख्या दशेत्यर्थः । जातप्रायं जातस्य प्रायं सशमिति तथोक्तम् । यद्वा-प्रायेण (न तु सर्वथा ) जातमिति तथोक्तम् । सन्निहितमिति भावः । 'प्रायो बाहल्यतुल्ययोः ।' इति विश्व: । 'वाऽऽहितान्यादिषु ।' २।२।३७ इति परनिपातः । वाच्यं वर्णनीयम् । तथा। चेतला 'रत्याश्रयस्य वियोगस्यासहिष्णुत्वे' इति शेषः । आकाक्षितं वाञ्छितम् । 'मदीयं मरणं स्या' दित्येवं प्रार्थितमिति भावः । 'वाच्य'मिति पूर्वतोऽन्वेति । अथ-यदि । अदरतो नातिकालातिक्रम इति भावः । प्रत्युज्जीवनं मरणावस्थायां प्राप्तायामपि देवप्रसादादिना पुनर्जीवनमिति भावः । स्यात्सम्भाव्येत । तदेति शेषः । अपि । 'त' दिति पूर्वतोऽन्वेति । वर्ण्यते । 'कविभि' रिति शेषः ॥ २२२ ॥