________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । 'मयि सकपटं..'इत्यादौ च नायकस्य स्मृतिः। नेत्रे खञ्जनगनने..'इत्यादौ च गुणकथनम् । 'श्वासान् मुश्चति..' इत्यादौ चोरेगः ।
'त्रिभागशेषासु निशासु च क्षणं निमील्य नेत्रे सहसा व्यबुध्यत । व नीलकण्ठ ! व्रजसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना ॥ १२८ ॥' इत्यत्र प्रलापः । 'भ्रातद्धिरेफ!..' इत्यादावुन्मादः। 'पाण्डु क्षामं वदनं, हृदयं सरसं, तवालसं च वपुः ।
आवेदयति नितान्तं क्षेत्रियरोगं सखि ! हृदन्तः ॥ १२९ ॥' _ 'मयि सकपटं..'इत्यादौ । स्मृत्याख्योदाहरणत्वेन निदर्शितपूर्व इत्यर्थः। च । नायकस्य 'स्वनायिकादर्शनप्ररूढरागस्येति शेषः । स्मृतिरनुस्मृत्यपरपाया लक्ष्यत इत्यर्थः । यथा वा-'अजस्रमारोहसि दूरदीघों सङ्कल्पसोपानततिं तदीयाम् । श्वासान्स वर्षत्यधिकं पुनर्यद् ध्यानात्तव त्वन्मयतामवाप्य ॥' इत्यत्र नलस्य दमयन्तीस्मृतिः । ___'नेत्रे खञ्जनगञ्जने..'इत्यादौ प्ररूढयौवनलक्ष्यतयोदाहृतपूर्वे च । गुणकथनम् । केनापि क्रियमाणं 'मायिकाया' इति शेषः ।
यथा वा-'अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू। कुसुममिव लोभनीयं यौवनमजेषु सन्नद्धम् ॥' इत्यादौ दुष्यन्तस्य शकुन्तलागुणवर्णनम् ।
'श्वासान्मुश्चति..'इत्यादौ 'तपनलक्ष्यत्वेनोदाहृतपूर्व ' इति शेषः । च । उद्रेगो ‘नायिकाथा' इति शेषः ।
'त्रिभागशेषासु त्रिभ्यो भागेभ्यः शेषा अवशिष्टास्तासु । कर्मणि घञ् । यद्रा-निशायाः त्रियामत्वेन तृतीयो भागस्त्रिभागः, स शेषो यास तायु इति । निशासु रात्रिए। च पुन: । क्षणं नत्वधिकम् । नेत्रे। निमौल्य न तु निद्रामनुभूयापोति भावः । सहसा तत्क्षणात् । हे नीलकण्ठ!क कुत्र मदभुतपूर्वे स्थान इत्यर्थः । व्रजसि गच्छसि । इशीत्येवम् । अलक्ष्यवागलक्ष्या निविषया वागुक्तिर्यस्याः संति तपोक्ता । तथा असत्यकण्ठार्पितवाह..बन्धनाऽसत्ये मियाभूते कण्ठे नीलकण्ठकण्ठेऽपितं निहितं वाहुबन्धन यया यस्वा वति तथोक्ता। 'पार्वती'ति शेषः । व्यबध्यत नेत्रे उन्मील्य जागरं नाटितवतीत्यर्थः । अत्र वंशस्थं वृत्तं, तलक्षणं चाक्तं प्राक। कुमारसम्भवस्येदं च पद्यम १२८॥'
___ इत्यत्र । प्रलापः सम्प्रलापापराभिधेया कामावस्था लक्ष्यत इत्यर्थः । 'भ्रातरेिफ !' इत्यादौ 'उन्मादाख्यसात्त्विकभावस्य लक्ष्यत्वेनोदाहृतपूर्व' इति शेषः । उन्मादः । तदाख्या कामावस्थेति भावः । 'नायकस्य नायिकादर्शनपुरनरागस्येति शेषः । यथा वा-'विभेति रुष्टाऽसि किलेत्यकस्मात्स त्वां किलापैति हसत्यकाण्डे । यान्तीमिव स्वामनुयात्यहेतोरुक्तस्त्वयेति प्रतिवक्ति मोघम् ॥' इत्यत्र नलस्याविवेकादुन्मादः ।
सविता पाण्ड सितं गतरक्तिमात एवारमणीयमिति यावत् । 'पाण्डः कुन्तीपतौ सिंते।' इति हैमः । क्षामं कृशं म्लानमिति यावत् । वदनम्मुखम् । तथा-सरसं रसेनानरसेन सह वर्तत इति तथोक्तम । शोकदै. येणापरिपक्कभुक्तानमिति भावः । यद्वा-रसेनानुरागेणोपचारात्तदुपलक्षकेण रोमाञ्चितत्वादिना सह वर्तत इति तथोक्तम । 'शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः' इत्यमरः । एवम्-हृदयं भुक्तानस्थानविशेषो वक्षो वा । 'हदयं वक्षति खान्ते बुक्काया मिति व्याख्यासुधा । अलसमालस्ययुक्तं कम्मनिर्ह मिति यावत् । च । वपुः शरीरम् । (कर्त) हदन्तहृदयमध्ये । नितान्तमत्यन्तम् । क्षेत्रियरोगं क्षेत्रियोऽसाध्योऽसौ रोगस्तम् । परक्षेत्रे न तु यावर्त्तमानक्षेत्रं चिकित्स्यः प्रतिकार्य इति क्षेत्रियः । क्षेत्रं शरीरम् । 'क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोः । इति मेदिनी । 'क्षेत्रियच परक्षेत्र चिकित्स्यः । ५।२।९२ इति निपातनात्साधुः । 'क्षेत्रिय क्षेत्रजतृणे परदाररतेऽपि च । अन्यदेहचिकित्साह ऽसाध्यरोगे च जायते ॥' इति विश्व: । आवेदयति बोधयति । अत्राा छन्दः । लक्षणं चोक्तं प्राक् । इदं च कस्येति नज्ञायते । मालतीमाधवस्येति तु भ्रान्तोक्तिः, अस्य तत्रानुपलम्भात् । अपरिणीतामिति खानुराग प्रकटयितुमक्षमा सखी प्रति सख्या उक्तिरियम् ॥१२९॥ इति ।