________________
२४०
साहित्यदर्पणः।
[सृतीयः
अलक्ष्यवाक् सम्प्रलापश्चेतसो भ्रमणाशम् । व्याधिस्तु दीर्घनिःश्वास-पाण्डुताकृशताऽऽदयः ॥ २२० ॥
जडता हीनचेष्टत्व-मङ्गानां मनसस्तथा । शर्ष स्पष्टम् । क्रमेणोदाहरणानि यथा- प्रेमाः ...' इत्यादौ मालतीसाक्षादर्शनप्ररूढरागस्य माधवस्याभिलाषः।
'कथमीक्षे कुरङ्गाक्षी साक्षालक्ष्मी मनोभुवः। इति चिन्ताऽऽकुलः कान्तो निद्रा नैति निशीथिनीम् ॥ १२७ ॥'
इत्यत्र च कस्याश्चिन्नायिकाया इन्द्रजालदर्शनप्ररूढरागस्य नायकस्य चिन्ता। इत्यर्थः । च पुनः । उन्मादः। 'उच्यत'इति शेषः चेतसश्चित्तस्य । भृशमत्यन्तम्। भ्रमणात प्रियस्य भावनया तन्मयत्वेनावस्थानात् । अलक्ष्यवान लक्ष्यं विषयो यस्याः साऽलक्ष्या, साऽसौ वागिति तथोक्ता । सम्प्रलापः। 'प्रलापः स्यादिति पाठान्तरम् । 'उच्यत'इति शेषः । दीर्घनिःश्वासपाण्डुताकृशताऽऽदयस्त द्रूप इति भावः । तु। व्याधिः। उच्यत' इति शेषः अङ्गानां करचरणादीनाम् । तथा। मनसश्चित्तस्य । हीनचेष्टत्वं हीना नष्टप्राया चेष्टा व्यापारो येषां यस्य वा तेषां तस्य वा भावस्तत्त्वम् । जडतायेति शेषः ॥ २१९-२२२ ॥
स्मृत्यादयस्तु न बोद्धव्यार्थविशेषा इत्याशयेनाह-शेष शिष्यते व्याख्यानतोऽवशिष्यते यत् (स्मृत्यादिकम् ) तत्तथोक्तम् । 'सम्बन्धमनुवतिष्यत इति भाष्यात् घजन्तस्याप्येतस्य क्लीबत्वम् । स्पष्टम् । न बोद्धव्यार्थविशेषमिति 'न व्याख्यायत'इति शेषः ।
इदमवधेयम्-अभिलाषाद्या दश कामावस्था भवन्ति, तत्राभिलाषश्चिन्तान्मादः संप्रलापो व्याधिर्जडता चेति षड़ व्याख्याताः, स्मृत्याद्याः पुनः-'मुहुर्मुहुनिःश्वसितैमनोरथविचिन्तनः । प्रद्वेषस्त्वन्यकार्याणामनुस्मृतिरुदाहृता ॥' 'अङ्गप्रत्यङ्गलीनाभिर्वाक्चेष्टाहसितेक्षणैः । नास्त्यन्यः सदृशस्तेनेत्येतत्स्याद्गुणकीर्तनम् ॥' 'आसने शयने वाऽपि न कुंप्यति न हृष्यति । नित्यमेवोत्सुका यस्मादुद्वेगस्थानमेव तत् ॥ चिन्तानिःश्वासखेदेन हद्वाहाभिनयेन च। तदेव कुर्यादत्यन्तमुद्वेगाभिनयेन च ॥' 'सर्व कृतं प्रतीकारैयदि नास्ति समागमः । कामाग्निना प्रदीप्ताया जायते या मृतिस्तु सा ॥' 'मरणं तत'इति पाठान्तरम्। इत्यादिना भरतादिभिर्व्याख्यातत्वाबोव्यार्थविशेषत्वाभावाच न व्याख्याताः । इति ।
एवमभिलाषादीन् व्याख्याय क्रमेणोदाहर्तुं प्रतिजानीते-क्रमेणेत्यादिना।
क्रमेण यथानिर्देशपौर्वापर्यम् । उदाहरणानि निर्दिश्यन्त इति शेषः । यथा-'प्रेमाः ...इत्यादौ 'प्रलयलक्ष्यत्वेनोदाहृतपूर्व पद्य'इति शेषः । मालतीसाक्षादर्शनमरूढरागस्य मालत्याः साक्षादात्मना दर्शनं तेन प्रादु. रागस्येत्यर्थः । माधवस्य । अभिलाषः 'मालतीविषयक'इति शेषः ।
'मनोभुवो मनसो भवत्युत्पद्यत इति तस्य, कामस्येत्यर्थः । साक्षात् । लक्ष्मी तत्स्वरूपामित्यर्थः । कुरङ्गाक्षी कुरङ्गस्य मृगस्येवाक्षिणी यस्यास्ताम् । प्रियाम् । कथम् । 'हतभाग्योऽह'मिति शेषः । ईक्षे पश्येयम् । “तिभाषा कथमि लिड्च ।। ३।३।१४३ इति चालट् । इतीत्येवम् । चिन्ताकुलः शोकग्रस्तः । कान्तः। निशीथिनी यावद्रात्रि । 'काला चनोरत्यन्तसंयोगे' २।३।५ इति द्वितीया । निद्रां (कर्म) । न । एति प्रतिपद्यते। इदं कस्यापि कवेः पद्यं, कविराजानामेव वा, 'इदं ममे ति पाठाधिक्यस्य वाचिकत्वात् ॥ १२७ ॥'
इत्यत्र । च। कस्याश्चित । नायिकायाः। इन्द्रजालदर्शनप्ररूदरागस्येन्दजालस्यानिर्वचनीय यस्य दर्शनं तेन प्ररूढो रागो यस्य तस्येत्यर्थः । नायकस्य । चिन्ता प्राप्युपायादिचिन्तनं लश्यत इति भावः ।
यथा वा-'मनस्तुवं नोज्झति जातु यातु मनोरथः कण्ठपथं कथं सः । का नाम बाला द्विजराजपाणिग्रहाभिलाषं कथयेदलज्जा ॥' इत्यत्र नलस्य गुणश्रवणादमयन्त्याश्चिन्ता ।