________________
परिच्छेदः]
३३९
तत्र
रुचिराख्यया व्याख्यया समेतः । २२८ स च पूर्वरागमान-प्रवासकरुणात्मकश्चतुर्धा स्यात् ॥ २१५ ॥ २२९ श्रवणाद्दर्शनाद्वाऽपि मिथः संरूढरागयोः ।
__ दशाविशेषो योऽप्राप्ती पूर्वरागः स उच्यते ॥ २१६ ॥ २३० श्रवणं तु भवेत्तत्र दूतवन्दीसखीमुखात् ।
इन्द्रजाले च चित्रे च साक्षात्स्वप्ने च दर्शनम् ॥ २१७ ॥ २३१ अभिलाषश्चिन्ता, स्मृति--गुणकथनोद्वेग-संप्रलापाश्च ।
उन्मादोऽथ व्याधि-जडता, मृति,--रिति दशास्त्र कामदशाः ॥२१८॥ २३२ अभिलाषः स्पृहा, चिन्ता प्राप्युपायादिचिन्तनम् ।
उन्मादश्चापरिच्छेद-श्चेतनाचेतनेष्वपि ॥ २१९ ॥
अथ
। अप्राप्तौ ‘रते' रिति शेषः । यः ।
अथास्य प्रभेदान् दर्शयितुं चतुर्भेदत्वमाह-२२८ सचेत्यादिना ।
२२८ स विप्रलम्भः । च । पूर्वराग-मान-प्रवास-करुणात्मकः । 'स'निति शेषः । चतुर्धा चतु प्रकारः । स्यात् । अत्राहस्तर्कवागीशाः-'चतुर्थे' तीदमुपलक्षणम् । विरहोऽपि वेदितव्यः, स च गुर्वादिपरतन्त्रत्वात् । सङ्गमप्रतिरोधो यथा-'किं रुद्धः प्रियया..'इत्यादि । अन्यथा तस्य निरुक्तप्रकारचतुष्टयानन्तर्भावालक्ष्यत्वाभावेन तत्र सामान्यलक्षणस्यातिव्याप्तिप्रसङ्गात् । इति ॥ २१५ ॥
पूर्वरागेत्यादीनां स्वरूपतो निर्देशार्थ प्रवृत्त आह-तत्रेति । तत्र तेषु पूर्वरागादिषु मध्य इत्यर्थः ।
२२९ श्रवणात् सौन्दर्य्यादीनां गुणानामिति शेषः । वा। दर्शनाद् यथा श्रवणमनुभवात् । अपि । मिथः परस्परम् । संरूढरागयोः । यथा दमयन्तीनलयोरुषाऽनिरुद्धयोश्चेति शेषः । अप्राप्तौ 'रते' रि दशाविशेषोऽवस्थाविशेषः । 'सम्भवती'ति शेषः । सः। पूर्वरागः पूर्वः प्रथमः फलविशेषमप्राप्त इति यावत् , असौ रागोऽनुराग इति तथोक्तः । उच्यते ॥ २१६ ॥
ननु श्रवणं कथं दर्शनं वा कुत्र स्यादित्याशङ्कथाह-२३० तत्र तयोः श्रवणदर्शनयोर्मध्य इत्यर्थः । श्रवणम । तु। दूतबन्दीसखीमुखात् । मुखं द्वारम् । सखीति श्रोत्रन्तरद्रष्ट्रन्तरग्राहकम् । भवेत् । अथ-दर्शनम् । इन्द्रजाले । इदमुपलक्षणं मायिकदर्शितदृश्यजातस्य । च । चित्रे लिखिते दृश्ये । च । साक्षात्प्रत्यक्षम् । च । स्वप्ने । 'भवेदिति पूर्वतोऽन्वेति ॥ २१७ ॥
ननु साम्प्रतमनुरागान्वितावताविति ज्ञायतेत्याह-२३१ अत्रास्मिन्पूर्वरागे। अभिलाषः। चिन्ता पक्ष्यमाणलक्षणं चिन्तनम् । स्मृतिगुणकथनोद्धेगसंप्रलापाः स्मृति (ध्यानं ) श्च गुणकथनं चोद्वेग (व्याकुलता) श्च संप्रलापश्चेति तथोक्ताः । च । उन्मादः। अथ । व्याधिः पीडाज्वरादिरिति यावत् । जडता निश्चेतनत्वम् । मृतिमरणम् । 'अपी'ति शेषः । इतीत्येवम् । दश । कामदशाः कामकृता अवस्थाः । 'भवन्तीति शेषः ॥ २१८ ॥
अथ बोद्धव्यार्थविशेषानभिलाषादीन् व्याख्यातुमुपक्रमते-अथेत्यादिना ।
अथ पूर्वरागे कामदशानामभिधानाभिधानानन्तरम्। 'बोद्धव्यार्थविशेषा अभिलाषादयो व्याख्यायन्ते-२३२ अभिलाषः इत्यादिना।।
२३२ स्पृहा स्पृहणं प्रियस्येति तथोक्ता । षिद्भिदादिभ्योऽङ्।' ३।३।१०४ इत्यङ् । अभिलाषः । 'उच्यते'इति शेषः । प्राप्त्युपायादिचिन्तनं प्राप्तेः प्रियसङ्गस्योपायतत्प्रतिरोधनिराकरणादेश्चिन्तनम् । चिता । 'उच्यत'इति शेषः । चेतनाचेतनेषु जडाजडेषु । अपि किं पुनस्तदन्यतरेष्वेवेत्यर्थः । अपरिच्छेदो विवेकाभाव