________________
साहित्यदर्पणः।
[तृतीयःशून्यवासगृहमुद्दीपनविभावः, चुम्बनमनुभावः, लज्जाहासौ व्यभिचारिणौ, एतैरभिव्यक्तः सहृदयविषयो रतिभावः शृङ्गाररसरूपताम्भजते । तद्भेदावाह
२२६ विप्रलम्भोऽथ सम्भोग इत्येष द्विविधो मतः ॥ २१४ ॥ तत्र
___ २२७ यत्र तु रतिः प्रकृष्टा नाभीष्टमुपैति विप्रलम्भोऽसौ । - अभीष्ट नायकं नायिकावा।
शून्यवासगृहं शून्यं जनान्तरसञ्चारसन्निधानादिना रहितं यद्वासगृहं तदित्यर्थः । उद्दीपनविभावः । चुम्बन 'परि चुम्व्येति 'चुम्बित'मिति पदद्योत्यं चेत्यर्थः । अनुभावः। लज्जाहासौ'लज्जेति हसते'ति पदद्योत्यौ। व्यभिचारिणौ। एतैरालम्बनादिभिरित्यर्थः । अभिव्यक्तो भग्नावरणत्वं नीतः। सहृदयविषयः। रतिभावः । शङ्गाररसरूपताम् । अत्र शशारः सम्भोगाख्यः । भजते आश्रयतीत्यर्थः ।
एवं शृङ्गार निर्दिश्य तद्भेदद्वयं निर्देष्टुं प्रतिजानीते-तद्भेदावित्यादिना । तद्भदौ तस्य शृङ्गारस्य भेदौ तौ तथोक्तौ । आह-२२६ विप्रलम्भो..इत्यादिना ।
२२६ विप्रलम्भो विशेषेण प्रलम्भ ईर्ष्यादिना रतेरुच्छेदो लक्षणया तन्मूलो रस इत्यर्थः । अथ । सम्भोग: सम्यग्भोगे ईर्ष्यादिराहित्यादिना रतेरुन्मेषो लक्षणया तन्मूलो. रस इत्यर्थः । इतीत्येवम् । द्विविधः। एष शृङ्गारः इत्यर्थः । मतः ॥ २१४ ॥
अथ क्रमादेतयोर्लक्षणे अभिधातुमुपक्रमते-तत्र तयोर्विप्रलम्भसम्भोगयोर्मध्य इत्यर्थः ।
२२७ यत्र यस्मिन् शृङ्गार इत्यर्थः । तु पुनः । प्रकृष्टादिनाऽकलुषिता हीनत्वमप्राप्ता वेति भावः । रति प्रेमविशेषो विलासविशेषो वा । अभीष्टं नायकरूपं नायिकारूपमालम्बनं वा । न । उपैति सेवते । असौ स इत्यर्थः । विप्रलम्भस्तदाख्यः शृङ्गार इत्यर्थः । इदमुक्तम्-रतिहिं नायकस्य नायिकाविषया नायिकाया वा नायकविषया प्रीतिः, सा यदीर्थ्यादिना दूषिता सती स्वस्वाभिमतमपि नायकसम्बन्धिनो नायिकारूपनायिकासम्बन्धिनी वा नायकरूपं वाऽऽलम्बनमाश्रयते तदा विप्रलम्भ इति । तर्कवागीशास्तु-'यत्र रसे प्रकृष्टा प्रकरणादिना प्रधानत्वं प्राप्ता रतिरस्ति । नायिका नायको वाऽभीष्टं नायक नायिका वा नोपैति नोपभुङ्क्तेऽसौ विप्रलम्भ इत्यर्थः । तथा च-उपभोगाभावसंवलितप्रकृष्टरतिविषयो रसो विप्रलम्भ इत्यर्थः । करुणादौ शोकोद्दीपनतया रतिसत्त्वेन तत्रातिव्याप्तिवारणाय प्रकृष्टेति। सम्भोगेऽतिव्याप्तिवारणायोपभो. गाभावेति । विप्रलम्भसमानविषयके ज्ञानान्तरे संस्कारे वाऽतिव्याप्तिवारणाय रस इत्यर्थः । अन्ये तु-'यत्र दुःखसंवलितवादतिर्न प्रकृष्टाऽभीष्टमुपैति विषयीकरोति स विप्रलम्भ' इति व्याकुर्वन्ति, तन्न; करुणेऽतिव्याप्तेः । यदि च-'यत्रे' त्यस्य 'शृङ्गार' इति व्याकारात् करुणे नातिव्याप्तिरित्युच्यते, तदा 'अभीष्टमुपैती' त्यस्यानर्थक्यम् । अभीष्टविषयकरतेरेव शृङ्गारत्वेन परिणामात् । अपरे तु-'नायिकादिभिरभीष्टं नोपैति न सङ्गच्छते, तथा चाभीष्टविच्छेदाभावेनाव्याप्तेः । केचित्तु-'संयोग: मुखसम्भिन्नो विप्रलम्भस्तु दु:खयुक । रतिस्तयोः प्रकर्षः स्यादाधिक्यात्सुखदुःखयोः ॥' इति दर्शनाद दुःखसंवलितरतिस्थायिभावको रसो विप्रलम्भ' इत्याहुः, तन्न, 'प्रणयमाने दुःखायोगादव्याप्तेः । इति व्याचक्षते । 'ईर्ष्यादिहेतुका' दिति निवेशे तु न काऽपि क्षतिः । आदिना प्रणयमानगुरुतन्त्रताप्रवासादिनां ग्रहणम् । अत एवाहु:'शृङ्गारो द्विविधः, संयोगो विप्रलम्भश्च, रतेः संयोगकालावच्छिन्नत्वे प्रथमः, वियोगकालावच्छिन्नत्वे द्वितीयः; संयोगश्च न दंपत्योः सामानाधिकरण्यम् , एकतल्पशयनेऽपादिसद्भावे विप्रलम्भस्यैव वर्णनात् । एवं वियोगोऽपि न वैयधिकरण्यम् , दोषस्योक्तत्वात् । तस्मात् द्वाविमौ संयोगवियोगाख्यावन्तःकरणवृत्तिविशेषौ । यत्संयुक्त वियुक्तश्चास्मीति धीः ।' इति ।
कारिकाकाठिन्यपरिहारायाभीष्टपदं व्याचष्टे-अभीष्टमित्यादिना ।
अभीष्टम् । 'इत्यस्येति शेषः । नायकम् । 'इत्यर्थ' इति शेषः । वा । नायिकाम् । 'इत्यर्थ' इति शेषः । इदं बोध्यम्-'अभीष्ट' मित्यस्य लिङ्गविपरिणामेनाभीष्टां नायिकामित्यर्थः । इति ।