________________
परिच्छेदः ]
__ रुचिराख्यया व्याख्यया समेतः । यथा मालतीमाधवे रतिः। लटकमेलके हासः । रामायणे शोकः । महाभारते शमः। एवमन्यत्रापि ।
एते हि एतेष्वन्तरोत्पद्यमानैस्तैस्तविरुद्धैरविरुद्धश्च भावैरनुच्छिन्नाः, प्रत्युत परिपुष्टा एव सहृदयानुभवसिद्धाः। किश्च
२२३ नानाऽभिनयसम्बन्धान भावयन्ति रसान्यतः ।
तस्माद्भावा अमी प्रोक्ताः स्थायिसञ्चारिसात्त्विकाः ॥ २०८ ॥ यदुक्तम्
'सुखदुःखादिभिर्भावैर्भावस्तद्भावभावनम् ।' इति । अथ रसस्य भेदानाहउदाहरति-यथेत्यादिना।
यथा। मालतीमाधवे तदभिधेये भवभूतिविरचिते प्रकरणे । रतिः। 'मालतीमाधवयोरन्योऽन्यालम्बने'ति शेषः । लटकमेलेके लटकान् दुर्जनान्मेलयतीति, तत्र तदभिधेये शङ्खधरविरचिते प्रहसन इति यावत् । 'लटकानां मेलकः सङ्घटनं यत्र तत्रे'ति तु न युक्तम्, व्यधिकरणस्य बहुव्रीहेरन्यथाऽनुपपत्तावुपपत्तेः । हासः । दन्तुरादीनां निरीक्षणादिजन्य' इति शेषः। रामायणे 'वाल्मीकिविरचिते महाकाव्य' इति शेषः । शोकः । 'रामदशरथादिवियोगादिजन्य' इति शेषः । महाभारते । शमः। 'पाण्डवाना' मिति शेषः । एवम् । अन्यत्र 'वेणीसंहारादावुत्साहादि' रिति शेषः । अपि । इति ।
नमु कथमेषां स्थायित्वमित्याशङ्कयाह-एते हीत्यादि।
एते 'रत्यादयः स्थायिनो भावा' इति शेषः । हि खलु । 'हि हेताववधारणे ।' इत्यमरः । एतेषु 'शृङ्गारादि' विति शेषः । अन्तरा मध्ये। 'अथान्तरेऽन्तरा । अन्तरेण च मध्ये स्यु' रित्यमरः। उत्पद्यमानैर्जायमानैः । तैस्तैः । वीप्सायां द्वित्वम् । विरुद्धैः । अविरुद्धः । चाथ वेत्यर्थः । भावैः 'व्यभिचारिभि' रिति शेषः । अनुच्छिन्ना उच्छेदमप्राप्ताः । प्रत्युत । परिपुष्टाः परिपोषं प्राप्ताः। एव । सहृदयानुभवसिद्धाः । इदमभिहितम्रसेषु जायन्त एव ते ते व्यभिचारिणो भावाः, किन्तु तैः सर्वैविरुद्धरविरुद्धराप वा तेषां स्थायिनो भावा नोच्छिद्यन्ते, प्रत्युत परिपुष्यन्त इति सहृदयानुसिद्धतया दुरपह्नवम् । इति ।
एवं स्थाय्यादीनां विशेषलक्षणान्यभिधाय सामान्यलक्षणानि वक्तुमुपक्रमते-किश्चेत्यादिना ।
किश्च-२२३ स्थायिसञ्चारिसात्त्विकाः स्थायिनश्च सञ्चारिणश्च (व्यभिचारिणश्च ) सात्त्विकाश्चेति ते । यतः। नानाऽभिनयसम्बन्धान नाना विविधा येऽभिनया हृद्गताभिव्यक्षिकाः शरीरचेष्टास्तान् सम्बनतीति तान् । यद्वा-नानाऽभिनयसम्बन्धा येषु तान् । रसान् । भावयन्ति बोधयन्तीत्यर्थः । तस्मात् । अमी स्थायिप्रभृतयः । भावाः। प्रोक्ताः। तथोक्तं-'नानाऽभिनयसम्बद्धान्भावयन्ति रसानिमान् । यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥' इति ॥ २०८॥
उक्तार्थे प्राचां सम्मतिं दर्शयितुमाह-यद यतः । उक्तम्। किमित्याह-'सुखदुःखादिभिः सुखं 'निरीहावस्थायां वात्मविश्रामज' मित्युक्तस्वरूपं, शम इति यावत् , तच्च-'दुःखमिष्टनाशादिभिश्चेतोवैक्लव्य' मित्युक्तस्वरूपं, शोक इति यावत् , तच्चेति ते आदी येषां (रत्यादीनाम् ) तैः । भावैः। तद्भावभावनं तेषां रसानां भावा अवच्छेदका धर्मास्तेषाम्भावनम् । भावः।' इति ।
एवम्भावान्निरूप्य तदभिव्यङ्गयान् शृङ्गारान्निरूपयितुं प्रवृत्तस्तत्र तावत्तान्नाम्ना निर्देष्टुमुपक्रमते-अथेत्यादिना ।
अथ भावनिरूपणानन्तरम् । रसस्य ३६ सत्त्वोदेकादित्यादिनोक्तस्वरूपस्य । भेदान् । आह-२२४ शृङ्गार.. इत्यादिना ।