________________
२३६
साहित्यदर्पणः।
[ तृतीयः२२४ शृङ्गार-हास्य-करुणा रौद्र-वीर-भयानकाः ।
बीभत्सोऽद्भुत इत्यष्टौ रसाः, शान्तस्तथा मतः ॥ २०९ ॥ अथ शृङ्गार:-- २२५ शृङ्गं हि मन्मथोद्भेदस्तदागमनहेतुकः ।
उत्तमप्रकृतिप्रायो रसः शृङ्गार इष्यते ॥ २१० ॥
"
२२४ शङ्कारहास्यकरुणाः। 'इति त्रय'इति शेषः । तथा रौद्रवीरभयानकाः । 'इति त्रय'इति शेषः । एवम्-बीभत्सः । अद्भुतः । 'चेति द्वय'मिति शेषः । इतीत्येवम् । अष्टौ । रसाः। न चैत एवेत्याह-तथा। शान्तः । 'नवम'इति शेषः । मतः। अत्राहुर्चिवृतिकारा:-अष्टाविति नाव्याभिप्रायेण, शान्तस्य नाट्ये ताकपुष्टिविरहात् । तदुक्तम्-' अष्टौ नाट्ये रसाः स्मृताः । इति । अयमभिप्रायः-'शृङ्गारहास्थकरुणरौद्रवीरभयानकाः । बीभत्साङ्गतसत्रज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः । इति भरतमुनेर्वचनं प्रकाशकारैश्च सङ्गृहीतम् । स्फुटं चैतदाकलयत, 'नाट्येऽष्टावेव शृङ्गाराद्या अद्भुतान्ता रसाः, शान्तस्तु नेति । अत एव व्याख्यातारः प्राहुः-'नाट्येऽभिनयात्मके काव्ये। श्रव्ये काव्ये तु शान्तो नवमोऽपि रसः, नाट्ये ह्यवस्थाऽनुकृतौ सर्वविषयोपरमस्वरूपस्य शान्तस्य न सम्भवनं रोमाञ्चादिविरहेणानभिनेयत्वात् गीतवाद्यादेस्तद्विरोधित्वाच्च । तदुक्तम्-'न यत्र दुःखं न सुखं न चिन्ता, न द्वेषरागौ न कदाचिदिच्छा । रसः प्रशान्तः कथितो मुनीन्द्रः सर्वेषु भावेषु शमप्रधानः ।' इति ।' इति । यद्यपि केचित्-'अष्टाविति नाध्य इति चोपलक्षणम् । तेन-'शान्तोऽपि नवमो रसः ।' इत्येतद्रक्ष्यमाणं दृश्यश्रव्यसाधारणम् , तस्याप्यभिनेयत्वस्य . बहुभिरङ्गीकारात्, गीतवाद्यादिकमपि तद्विषयकं न तद्विरोधि । अत एव चरमाध्याये सङ्गीतरत्नाकरे-'अष्टावेव रसा नाट्येष्विति केचिदचूचुदन् । तदचारु, यतः कश्चिन्न रसं स्वदते नटः ॥' इत्यादिना नाटयेऽपि शान्तरसोऽस्ती'ति व्यवस्थापितम्।' इत्याहुः । तदपि न यथा श्रव्ये अत एव प्रतिवादिनोऽप्याहुः-'यैरपि नाट्ये शान्तो रसो नास्तीति अभ्युपगम्यते, तैरपि बाधकाभावान्महाभारतादिप्रबन्धानां शान्तरसप्रधानताया अखिललोकानुभवसिद्धत्वाच्च काव्ये सोऽवश्यं स्वीकार्यः।' इति । सुष्ठूक्तं तद्विवृतिकारैः-'अष्टाविति नाट्याभिप्रायेण, शान्तस्य नाटये तादृक्पुष्टिविरहा'दिति यद्यपि प्रतिवदन्ते केचित् 'नाटये गीतवाद्यादीनां विरोधिनां सत्त्वात्सामाजिकेष्वपि विषयवैमुख्यात्मनः शान्तस्य कथमुद्रेक इति चेत्, नाटये शान्तरसमभ्युपगच्छद्भिः फलबलात् तद्गीतवाद्यादेस्तस्मिन् विरोधिताया अकल्पनात्, विषयचिन्तासामान्यस्य तत्र विरोधित्वस्वीकारे तदीयालम्बनस्थ संसारानित्यत्वस्य तदुद्दीपनस्य पुराणश्रवणसत्सङ्गपुण्यवनतीर्थावलोकनादेरपि विषयत्वेन विरोधित्वात् ।' इति । तदपि-शान्तो नाम शमस्थायिको रसः, शमश्च पुराणश्रवणादिनोत्तम्भितात्मैवेति नासौ तस्य सत्त्वे तिरोधीयते प्रत्युत तेनोद्दीप्यते, तिरोधीयते पुनर्गीतादेः सत्त्व एवेत्यनुभवसिद्धमितिहासप्रसिद्धं च । मैवं वा भूत् , सुष्ठूक्तं कविराजैः-'अष्टौ प्रोक्ताः शमोऽपि च।' इति 'अष्टौ रसाः शान्तस्तथा मतः ।' इति च, सुप्रयुक्तं च 'अपी'ति 'तथे ति चेत्याकलयन्तु सहृदयधुरीणादरमुकुलितनयनाः । इति ॥ २०९ ॥
एवं रसभेदान्निर्दिश्य तान् क्रमशो निरूप्य निदर्शयितुमुपक्रान्त आह-अथेत्यादि।
अथ रसभेदनिर्देशावसरे शृङ्गारादीनां यथौचित्यं क्रमान्निरूपणानन्तरम् । शृङ्गारः। तत्र तावत् निरूप्यते२२५ शृङ्गं...इत्यादिना ।
२२५ मन्मथोद्भेदो मन्मथस्य कामस्य सम्भोगेच्छाया इति यावदुद्भेद उद्बोध इति तथोक्तः । शृङ्गम् । हि खलु । तदागमनहेतुकस्तस्य (मन्मथोद्भेदस्य) आगमनं प्राप्तिस्तस्य हेतुको हेतुभूतः । उत्तमप्रकृतिप्राय उत्तमा प्रकृतिः खभावो येषां तानिति, उत्तमाः प्रकृतयो नायकास्तानिति वा प्रीणातीति वा श्रयतीति तथोक्तः । उत्तमप्रकृ. त्यालम्बनक इत्यर्थः । 'कर्मण्यण ।' ३३२११ इत्यण । 'प्रकृतिगुणसाम्ये स्यादमात्यादिस्वभावयोः। योनौ लिङ्गे पौरवर्ग' इति मेदिनी । एतेन खाभासाद्रसान्तराच्चैतस्य व्यतिरेकः सूचितः । 'उत्तमप्रकृति'रिति 'प्राय'इति च पृथपाठे'उत्तमः प्रकृति यको यत्र सः'इति, 'प्रायो बाहुल्येनेति चार्थः । 'प्रायो भूम्री'त्यमरः । तथा च-प्रायः शृशार उत्तमालम्बन