________________
साहित्यदर्पणः।
[तृतीयःविस्फारश्चेतसो यश्च स विस्मय उदाहृतः ॥
शमो निरीहावस्थायां स्वात्मविश्रामजं सुखम् ॥ २०७॥ विविधेषु नानाप्रकारेषु । पदार्थषु । विषये सप्तमीयम् ॥ २०६॥ च । यः । चेतसश्चित्तस्य विस्फारो विस्तारः । सः । विस्मयः । उदाहतः । 'अद्भुतस्य स्थायी भाव'इति शेषः । निरीहावस्थायां निर्गतेहा 'एवं कृते एतदधिगमिष्यामी'त्येवं तृष्णोत्तरङ्गा चेष्टा यस्य तस्यावस्था दशा तस्याम् । 'सत्या'मिति शेषः । स्वात्मविश्रामजं खस्य जीवस्यात्मविश्रामस्तस्माज्जायत इति तथोक्तम् । आत्मनि परमात्मरूपे खखरूपे विश्रामोऽवस्थानमित्यात्मविश्रामः। मुखम्। शमः शान्तिः । 'शान्तस्य स्थायीभाव'इति शेषः। अत एवोक्तं प्रदीपकारैः-- अत्र वदन्ति शान्तो नाम रसस्तावदनुभवसिद्धतया दुरपह्नवः न चैतस्य स्थायी निवेदो युज्यते, तस्य विषयेष्वलंप्रत्ययरूपत्वादात्मावमानरूपत्वाद्वा । शान्तेश्चै निखिलविषयपरिहारे जनितात्ममात्रविश्रामानन्दप्रादुर्भावमयत्वानुभवात् । तदुक्तं (कृष्णद्वैपायनेन )-'यच्च कामसुखं लोके यच दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते नाहंतः षोडशी कलाम् ॥' अत एव-'सर्ववृत्तिविरामोऽस्य स्थायीति निरस्तम् । अभावस्य स्थायित्वायोगात्, तस्माच्छमोऽस्य स्थायी, निर्वेदादयस्त व्यभिचारिणः, स च शमो निरीहावस्थायामानन्दः, स्वात्मविश्रामात् ।'इति । अत्राह:--'तत्त चिन्त्यमेव, विषयेव. लगप्रत्ययस्य आत्मावमाननरूपस्य वा निर्वेदस्य शोकवत्समाधानात् । वस्तुतो रत्यादिकमुपजीव्य हर्षादेरिव तत्त्वज्ञानजं निर्वदमपसीव्य शमादिप्रवृत्तेः स एव स्थायी, न शमः । न च 'क्वचिच्छम'इति भरतमुन्युक्तिविरोध इति वाच्यम्, हास्यते यस्मादिति व्युत्पत्त्या तस्य निर्वेदपरत्वात् तृष्णायाः क्षयो यस्मादिति व्युत्पत्त्या तृष्णाक्षयोऽपि निर्वेद एव । अत एव- एकोनपञ्चाशद्भावा'इति मुन्युक्तिः सङ्गच्छते । अष्टौ स्थायिनः, अष्टौ सात्त्विकाः, त्रयस्त्रिंशद् व्यभिचारिणः: इत्येवं गणनया हि एकोनपञ्चाशत्त्वं, शमस्यापि स्थायिभावे त्वाधिक्यापत्तिः । इति । इदं न विचारसहम् । तथाहि. शम्यते यस्मादिति व्युत्पत्तिस्तावन्न साम्प्रतम् अपादाने घोऽविधानात् । न च बाहुलकाद् भविष्यतीति वाच्यम् , अतिप्रसङ्गात् । न वा 'अकर्तरि च कारके सज्ञायाम् ।' ३।३।१९ इत्यनेन 'सज्ञाया'मित्यस्य प्रायिकत्वाद्भविष्यतीत्यपि वाच्यम् , प्रायिकस्य प्रकारान्तरेणोपपत्तावनभ्यनुज्ञानात् । नापि निर्वेद एव स्थायी भाव इत्यर्थं तथा समाधीयत इति वक्तुं शक्यम्, 'शमनं शम'इति व्युत्पन्नस्यैव शमपदवाच्यस्य स्थायित्वाभ्युपगमात् । एवं तृष्णायाः क्षयो यस्मा'दिति व्युत्पत्त्या नष्णालयशब्दोऽपि निर्वेदपर इत्यपि न युक्तं वक्तम्, व्यधिकरणबहुव्रीहेरनाम्नातत्वात् । 'सप्तमीविशेषणे बहुव्रीहौ ।' १२१३५ इति ज्ञापकस्याप्यनित्यत्वाच । ननु निर्वदातिरिक्तत्वेन शान्तरसस्य शमः स्थायीति स्वीकारे कथमेकोनपञ्चाबगदावा' इति सङ्गमिष्यत इति चेत्, 'शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः । बीभत्साद्भतसज्ञाश्चेत्यष्टौ नाटये रसाःस्मृताः ॥ एते ह्यष्टौ रसाः प्रोक्ता दुहिणेन महात्मना ।' इत्येवं शान्तस्यानभिधानेन शमस्याप्यगणनात् । अत एव-वचिच्छम' इत्यादौ 'क्वचि' दित्याद्यपि सङ्गच्छते । न च निर्वदः स्थायी शान्तस्येति वक्तुं युक्तम् । अस्य व्यभिचारित्वेनाम्नातत्वात् । यद्यपि-'आपदादिभिर्जायमानस्यैवास्य व्यभिचारित्वमुपपद्यते। तत्त्वज्ञानजस्य पुनः शमस्येव स्थायित्वम । अत एव-तत्त्वज्ञानापदीयादे'रिति व्याख्यानावसरे तत्त्वज्ञानमिह देहविषयादावनुपादेयत्वज्ञानमेव, न तु जीवात्मपरमामनोरभेदज्ञानम, तस्मिन् सति मोक्ष एव, न तु खावमाननम् ।' इति व्याख्यातं तर्कवागीशैः। तथाऽपि तत्रेदं वक्तव्यम्जीवपरमात्मनोरभेदज्ञानमपि द्विविधम् , उपदेशमात्रलब्धमनुभवलब्धं च । तत्राद्यस्यैव निर्वेदापरप-यत्वं, द्वितीयस्य पनः शमापरपायत्वम् । इत्यनुभवितारः । एवं चाद्यस्य स्थायित्वमुपयुज्यत एव न, अन्यस्य पुनरुपयुज्यते। उपयुज्यमानत्वस्वीकारेऽन्यनाममात्रे विवादः । इति ॥ २०७॥
शान्तेश्चेति । 'निखिलविषयपरिहारेण वैराग्येण जनितो य आत्ममात्रे विश्रामो विगलितवेद्यान्तरतया चित्तस्य स्थितिस्तेन य आनन्दः शमाख्यस्तस्य प्रादुर्भावोऽभिव्यक्तिस्तत्वरूपत्वानुभवात् । इति तट्टीकाकाराः प्राहुः ।