________________
परिच्छेदः ]
रुचिराख्थया व्याख्यया समेतः । वागादिवैकृतैश्चेतो-विकासो हास उच्यते ॥ २०३ ॥ इष्टनाशादिभिश्चेतो-वैक्लव्यं शोकशब्दभाक् । प्रतिकूलेषु तैक्ष्ण्यस्या-वबोधः क्रोध इष्यते ॥ २०४ ॥ कार्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते ।। रौद्रशक्त्या तु जनितं चित्तवैक्लव्यदं भयम् ॥ २०५ ॥ दोषेक्षणादिभिर्गर्दा जुगुप्सा विस्मयोद्भवा ।
विविधेषु पदार्थेषु लोकसीमाऽतिवर्तिषु ॥ २०६ ॥ मनीषाया अनुकूलो ममासौ लोकतः शास्त्रतो वाऽविरुद्धो भोगविषय इत्यध्यवसायेनाभिमतस्तत्र । 'मनश्चित्ते मनीषायाम्।' इति । अर्थे । नायिकानायकान्यतमरूप एव पदार्थे इति भावः । मनसश्चित्तस्य । प्रवणायितं प्रवणायनम् । अत्र भावे क्तः । रतिः। शृङ्गारस्य स्थायी भाव' इति शेषः । अत एवोक्तं-स्त्रीपुंसयोरन्योऽन्यालम्बनः प्रेमाख्यश्चित्तवृत्तिविशेषो रतिः।' इति 'प्रवणायितं प्रेमाई मनोरतिरित्यर्थः। तच्चोत्कटावेश एव पर्य्यवस्यति, स चानुराग एव, सोऽपि प्रकृते सुरतेच्छारूप एवेति च। वागादिवैकृतः। विकृतस्य भावो वैकृतम् । अत्र भावेऽण् । आदिनाऽजादीनां ग्रहणम् । बहुवचनेन जाड्यादिग्रहणम् । चेतोविकासश्चेतसश्चित्तस्योपहसनीयत्वज्ञानेन (मुखवि. (सद्वारा प्रतीयमानः ) विकास इति तथोक्तः । हासः। 'हास्यस्य स्थायी भाव' इति शेषः । उच्यते । अत एवोक्तं. वागङ्गादिविकारदर्शनजन्मा विकासाख्यो हासः ।' इति । इष्टनाशादिभिारष्टस्य स्वप्रियस्य स्त्रीपुत्रादे शादयस्तैः । आदिना विपदादिस्थित्यादीनां ग्रहणम् । बहुवचनेन दुराशङ्कादीनां ग्रहणम् । चेतोवैकुव्यं चेतसो चक्लव्यं विकवता । शोकशब्दभाक् शोक इत्यर्थः । 'करुणस्य स्थायी भाव इति शेषः । अत एवोक्तम्-‘पुत्रादिवियोगमरणादिजन्मा वैक्लव्याख्यश्चित्तवृत्तिविशेषः शोक' इति । प्रतिकूलेषु विरोधिषु शत्रुप्रभृतिविति यावत् । तेक्षण्यस्य तीक्ष्णतायाः 'किमहमेतस्यानिष्टमपपादयेय' मिति दुर्भावनेच्छाया इति यावत् । अवबोधो ज्ञानम्। 'यतः स' इति शेषः । 'उत्कटत्वम्' इति विवृतिकाराः । क्रोधः। 'रौद्रस्य स्थायी भाव'इति शेषः । इष्यते। तथोक्तं-'गुरुबन्धुवधादिपरमापराधजन्मा प्रज्वलनाख्यः क्रोधः । अयं च परविनाशादिहेतुः ।' इति यद्यप्युक्तं 'क्षुद्रापराधजन्मा तु परुषवचनासम्भाषणादिहेतुः । अयमेवामर्षाख्यो व्यभिचारीति विवेकः ।' इति, 'तदपि क्रोधोऽपि रसान्तरे व्यभिचारी न परममर्ष एव ।' इति बोध्यम् । कार्यारम्भेषु कार्याणां युद्धादीनामारम्भाः प्रक्रमास्तेषु। 'सत्सु' इति शेषः । स्थेयान अत्यन्त दृढस्थितिक इत्यर्थः । विघ्नोपस्थितावपि खरूपसन्निति भावः । संरम्भ उत्कट आवेगः । उत्साहः । वीरस्य स्थायी ति शेषः । उच्यते । अयम्भावः-'अङ्गीकृतं मुकृतिनः परिपालयन्ती'त्यायुक्तदिशा कस्मिन्नपि दुर्घटेऽपि कार्ये समारब्धेऽवश्यमेतत्सम्पादयिध्यामो जीवितं वा परित्यक्ष्याम इति दृढप्रत्ययमुद्यम उत्साहः, असावेव वीररसस्य स्थायी भावः । इति । रौद्रशतया रुद्रस्य भयङ्करस्येदं कर्म रौद्रं, तस्य शक्तिः सामर्थ्य तया रोदयतीति रुद्रः । 'रोदेणि लुक्च ॐ' इति रक् णिलुक् च । 'तस्येदम् ।' ४।३।१२ इत्यण् । तु । जनितम् । चित्तवैक्लव्यदं चित्तस्य वैक्लव्यं विक्लवता (व्याकुलता) तद्ददातीति तथोक्तम् । भयम् ‘भयानकस्य स्थायी'ति शंषः । तथोक्तम्-'व्याघ्रदर्शनादिजन्मा परमानर्थविषयको वैक्लव्याख्यः स भयम् ।' इति । दोषेक्षणादिभिर्दोषाणां दीनजनव्यापादनादीनामीक्षणा. दीनि दर्शनादीनि तैः । आदिना सम्भावनादीनां ग्रहणम् । विस्मयोद्भवा विस्मयात् किमर्थमिदमित्याश्चर्य्यादुद्भवतीति तथोक्ता । गर्दा कुत्सनम् । जुगुप्सा। 'बीभत्सस्य स्थायी भाव'इति शेषः । लोकसीमाऽतिवर्तिषु लोकस्य दृश्यमानस्य श्रूयमाणस्य वाऽस्य प्रपञ्चस्य सीमा मर्यादा सङ्घटनीयत्वेन सम्भावना तमतिवर्तन्त इति तथाभूतेषु ।