________________
साहित्यदर्पणः।
[ तृतीयः
'सक्सूबवृत्त्या भावाना-मन्येषामनुगामकः।
न तिरोधीयते स्थायी तैरसौ पुष्यते परम् ॥' इति । तद्भेदानाह-- २२१ रतिर्हासश्च शोकश्च क्रोधोत्साही भयं तथा ।
जुगुप्सा विस्मयश्चेत्थ-मष्टौ प्रोक्ताः शमोऽपि च ॥ २०२ ॥ तत्र
२२२ रतिर्मनोऽनुकूलेऽथें मनसः प्रवणायितम् । उक्तेऽर्थे प्राचां सम्मतिं प्रदर्य सिद्धान्तयति-तद् यदभमाभिः २२० 'अविरुद्धा...,इत्यादिनोक्त'मिति शेषः । उक्तम् । 'स्रक..इत्यादिना ।
'सकसुत्रवृत्त्या स्रजो मालायाः सूत्रं तस्य वृत्तिः स्थितिया॑य इति यावत्तया । अन्येषाम् । 'मणीनामिव स्थिताना'मिति शेषः । भावानां 'निर्वेदादीना'मिति शेषः । अनुगामकोऽनुगमयतीति तथोक्तः । 'व्यङ्गयत्वेन सम्बन्धी'ति विवृतिः । तैर्मणिभिरिवास्थितैरन्यैर्भावैरित्यर्थः । स्थायी 'सूत्रायमाणो भाव' इति शेषः । न । तिरोधीयते । असौ तैरतिरस्कृतः स्थायीत्यर्थः । परं केवलम् । पुष्यते । अयम्भावः-यथा-मणिभिस्तदाधारभूतं सूत्र न तिरस्क्रियते, प्रत्युतालक्रियते; तथाऽन्ये (व्यभिचारिभिर्भावैः स्थायी भावो न तिरस्क्रियते, प्रत्युत परिपुष्टः क्रियते । एवं च मालास्थानीयो रसः, सूत्रस्थानीयः स्थायी मणिस्थानीयश्च व्यभिचारी भावः । इति ॥' इति ।
स्थायिभावस्य भेदानभिधातुमुपक्रमते-तद्भेदानित्यादिना।। तद्भेदांस्तस्य (स्थायिभावस्य ) भेदास्तान् । आह-२२१ रति..इत्यादिना ।
२२१ रतिः प्रीतिः। 'नायिकानायकयोरन्योन्यालम्बना इति शेषः । हासः। च। शोकाच। क्रोधोत्साहौ क्रोध उत्साहश्चेत्यर्थः । तथा । भयम् । जुगुप्सा कुत्सनम् । 'गुप्' गोपनकुत्सनयोः । 'गुप्रतिकिदभ्यः सन् ।' ३।१५ इति गर्हणे सन् । च । विस्मयः। इत्थमित्यनेन प्रकारेण । अष्टौ। 'स्थायिनो भेदा' इति शेषः । प्रोक्ताः । ननु तर्हि शान्तस्य क इत्याशङ्कयाह-च तथा। शमो न तु निर्वेदः, एतस्य व्यभिचारित्वादिति बोध्यम् । अपि । 'नवम' इति शेषः ॥ २०२॥
अयम्भावः- 'शान्तस्य शमसाध्यत्वानटे च तदसम्भवात् । अष्टावेव रसा नाटये न शान्तस्तत्र युज्यते ॥' इत्येवं कचिदष्वव रसा नाटये सम्भवन्तीत्याहुः, अत एव रत्यादीन् स्थायितया निर्दिश्य 'इत्थमष्टा विति परिगणयति स्म । किन्तु-'अष्टावेव रसाः।' इति नैषामपि सिद्धान्तः, नाट्यमात्रे तथास्वीकारात् । 'नाट्यमात्र' इत्यपि न युज्यत इत्यन्ये, तथाहि- 'नटे च तद (शमा) सम्भवा' दिति हेतुरमङ्गतो, नटे रसाभिव्यक्तरेवास्वीकारात, सामाजिकेषु पुना रसाभिव्यक्तिः स्वीक्रियते तत्र शमोऽस्त्येव, तदस्तु शान्तस्याप्यभिव्यक्तिः। इति। अतः सुप्रयुक्तम्, 'शमोऽपि चे त्यत्रा'पी'ति।
अथ रत्यादीन् क्रमतः खरूपतो निर्देष्टुमाह-तत्र तेषु रत्यादिषु मध्य इति यावत् ।।
२२२ मनसश्चित्तस्य । अनुकूले प्रीतिविषयत्वेनाविरुद्धे । अर्थे 'वस्तुनि नायिकारूपे नायकरूप वाSSलम्बन इति यावत् । अत्र विषये सप्तमी । प्रवणायितं जलमिव सरलं सरस्वभावतः प्रवृत्तमिव स्थितम् । प्रवणमिवाचरत ति प्रवणायते । अस्मान्निष्ठायां क्तः । मनश्चित्तम् । रतिः । तथा च-'मनस' इत्यस्य 'स्वस्' स्यर्थः । इदं बोध्यम-नायि. कायां नायकमनसो, नायके च नायिकामनसः प्रवणायितत्वं सम्भोगेच्छारूपमेव । तस्मात्-सम्भोगेच्छारूपेणानुकूलायां नायिका नायकस्य, नायके वाऽनुकूले नायिकाया मनःप्रवृत्ती रतिरिति स्थितम् । यदा-मनोऽनुकूले मनसो