________________
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः। शान्ते जुगुप्सा कथिता व्यभिचारितया पुनः ।
इत्याद्यन्यत्समुन्नेयं तथा भावितबुद्धिभिः ॥ २० ॥ अथ स्थायिभावः
२२० अविरुद्धा विरुद्धा वा यं तिरोधातुमक्षमाः । आस्वादाइकुररूपोऽसौ भावः स्थायीति सम्मतः ॥ २०१॥
शान्ते । पुनः । जुगुप्सा । उपचारात् शोकोऽपि । व्यभिचारितया। कथिता । इत्यादि । तथा । अन्यत् । यथा भयानके भयस्य व्यभिचारित्वम् । भावितबुद्धिभिर्भाविता काव्यभावनया नियमिना युद्भिर्यपांतः । गहृदयजनैरिति भावः । समन्त्रेयं निश्चेतव्यम् । अयम्भावः-यो यत्र स्थायी तं विना सर्वेऽप्यन्ये यथायथम रिणो भवन्तीति ॥ २० ॥
स्थायिभावं लक्षयितुं प्रतिजानीते-अथ व्यभिचारिभावनिरूपणानन्तरम् । स्थायिभावो लक्ष्यते-२२ अपि रुद्धा...इत्यादिना ।
२२. अविरुद्धा अनुकूलाः । यथा शृङ्गारे हौत्सुक्यादयः, हास्ये स्मृत्यादयः, एवमन्यत्रापि । वाऽथवा । विरुद्धाः प्रतिकूलाः । यथा वीरे चिन्ताऽऽदयः, रौद्रे विषादादयः । 'विरुद्धा अविरुद्धा वे'ति पाठान्तरम् । 'भावा' इति शेषः । यम् । तिरोधातुं तिरोहितं कर्तुम् । अक्षमा न क्षमा भवन्तीत्यर्थः । आस्वादाङ्कररूप आखादस्य रसानुभवस्याङ्कुर उपचारात् सम्भवस्तं रूपयतीति तथोक्तः । असौ। 'स' इति शेषः । 'आखादाइकुरकन्द'इति पाठान्तरे तु आखादो रसः सोऽकुर इवेति तस्य कन्दो मूलमिवेत्यर्थः । यद्वा-आस्वादस्य रसप्रत्ययस्य (वृक्षस्येव) अडकुरोऽभिनवोद्भेदः प्राथमिकः सम्भवस्तस्य कन्दी मूलभूतस्तमिति । 'आखाद्यत'इत्याखादः । 'अङ्कुरोऽभिनवीद्भिदि ।'इत्यमरः । 'कन्दोऽस्त्री सूरणे सस्यमूले जलधरे पुमान् ।'इति मेदिनी । भावो मानसो विकारः । स्थायी। इतीत्येवम् । सम्मतः । अयम्भावः-भावयति ज्ञापयति हृदयगतमिति भावः, असौ च मानसो विकारः । अमुष्य पुनःपुनर्झटित्याविर्भावतिरोभावशीलत्वेऽपि संस्कारात्मना चिरमवस्थीयमानत्वाद् यावद्रसमनुसन्धीयमानत्वाच स्थायित्वम् । तथोक्तम्-'विरुद्धैरविरुदैर्वा भावैविच्छिद्यते न यः । आत्मभावं नयत्यन्यान् स स्थायी लवणाकरः ॥'इति । लवणाकरः समुद्रः । उपचारात्-तद्वन्निर्विकारः । अत एव-'स यथेमा नद्यः स्पन्दमानाः समुद्रायमाणाः समुद्रमेवास्तं गच्छन्ती' त्यायुक्तं सङ्गच्छते । 'चिरं चित्तेऽवतिष्ठन्ते सम्बन्ध्यन्तेऽनुबन्धिभिः । रसत्वं ये प्रपद्यन्ते प्रसिद्धाः स्थायिनोऽ. व ते ॥' इति च। चिरं यावद्रसस्फुरणम्, तं विनतस्यासम्भवात् । एतेन व्यभिचारिणो व्यवच्छेदः सूचितः । अनुबन्धिभिर्विभावादिभिः । यदपि-अनुबन्धिभिर्व्यभिचारिणोऽपि सम्बन्ध्यन्ते । तदपि न स्फुटं सर्वत्रैव, अत एवोक्तम्-'विभावस्त्वत्र व्यभिचारिणो निमित्तकारणसामान्यम् । न तु रसस्येव सर्वथैवालम्बनोद्दीपने अपेक्षिते । यदि तु क्वचित्सम्भवतस्तदा न वार्येते।' इति, 'रत्यादयः स्थायिभावाः स्युर्भूयिष्टविभावजाः । स्तोकैविभावैरुत्पन्नास्त एव व्यभिचारिणः ॥' इति च । 'सजातीयविजातीयैरतिरस्कृतमूर्तिकः । यावद्रसं वर्तमानः स्थायी भाव . उदाहृतः ॥' इति च, 'यथा नराणां नपतिः शिष्याणां च यथा गुरुः । एवं हि सर्वभावानां भावः स्थायी महानिह ॥' इति च । यथा समानावस्थाका अपि जनाः कुलविद्याप्रतापादिना राजत्वं लभन्ते, तदभावेऽनुचरत्वं प्रतिपद्यन्ते, तथा विभावादिप्रकर्षेण भावाः स्थायित्वं तदन्यथा पुनरस्थायित्वं (व्यभिचारित्वम् ) श्रयन्ते । अथ एवैषामपि स्थायिन आश्रयभूता भवन्ति । तथा च-आलम्बनोद्दीपन-(विभाव ) व्यभिचारिणमाश्रयभूताः स्थायिनो भावा राजान इव, व्यमिचारिणस्तु एतेषामाश्रयितार इत्यनुचरा इव । यथा च राजाऽनुचरद्वारा सम्पादितमपि यशः खमिति लभते, तथा स्थायी भावोऽपि विभावादिना सम्पादितं चमत्कारं खमिति रसत्वं लभते। इति दिक् ॥ २०१॥