________________
साहित्यदर्पणः।
[ तृतीयःतथाहि-शृङ्गारेऽनुच्छिद्यमानतयाऽवस्थानाद्रतिरेव स्थायिशब्दवाच्या। हासः पुनरुत्पद्यमानो व्यभिचायव । व्यभिचारिलक्षणयोगात ।
तदुक्तम्'रसावस्थः परम्भावः स्थायितां प्रतिपद्यते।' इति । तत कस्य स्थायिनः कस्मिन् रसे सञ्चारित्वमित्याह--
२१९ शृङ्गारवीरयोहांसो वीरे क्रोधस्तथा मतः॥ १९९ ॥ कथमित्युपपादयति-तथा 'यथा रत्यादयोऽप्यनियते रसे स्युर्व्यभिचारिणः ।' इत्युतं तेन प्रकारेणेत्यर्थः । ह्येव । 'प्रतिपाद्यत' इति शेषः । शृद्धारे तदाख्ये रसे । अनुच्छिद्यमानतया नोच्छिद्यमानेत्यनुच्छिद्यमाना तस्या भावस्तत्ता तया । 'त्वतलोर्गुणवचनस्य ।' इति हस्खत्वम् । यद्वा-नोच्छिद्यमानं तस्य भावस्तत्ता तया । 'सामान्ये नपुंसकम् ।' इति तथा निर्देशः । अवस्थानात् । रतिर्दम्पत्योरनुरागविशेषः । एव 'न तु हासादय' इति शेषः । स्थायिशब्दवाच्या । यदवधि शृङ्गारस्तदवधि रतिरवतिष्टत इति तत्र रतिः । स्थायिशब्दवाच्या, न पुन हस्सादय इति भावः । हासः । इदमुपलक्षणं क्रोधादेः । तथा च-हासादय इत्यर्थः । पुनः । उत्पद्यमानः । व्यभिचारी। एव न तु स्थायीत्यर्थः । कुत इत्याह-व्यभिचारिलक्षणयोगाद व्यभिचारिणां लक्षणं (विशेषा..' इत्यादिना यदुक्तं तत् ) तस्य योगस्तस्मात् । अयम्भाव:-'विशेषाः...' इत्यादिनोक्तस्य लक्षणस्य याथाऽर्थेनोपस्थितेर्हा सादयः शृङ्गारे व्यभिचारिणः, एवं हासे रत्यादयो व्यभिचारिणः, हासः परं स्थायी। एवमन्यत्रापीति।
तत् तथा । उक्तम् ।
किमिति निर्दिशति--'रसावस्थो रसः शृङ्गाराद्यन्यतमोऽवस्था स्वरूपं यस्य सः । परं केवलम् । भावः । स्थायितां स्थायिखरूपताम् । प्रतिपद्यते।' इति ।
अत्रायं पालोकः--'अस्य रसत्यायमेव स्फूर्तिमूल' मिति नियमात्तन्त्रत्वे सति विभावानुभावसात्त्विकभावभिन्नतया रसानुगुणकत्वं व्यभिचारिभावत्वम् । रसानुगुणकत्वं रसोत्कर्षकात्मना समुद्रे तरङ्गवत्स्थायिनि तिरोभवनाविर्भवनशीलत्वम् । यथा पवनाहतिवशात् पृथक् प्रतीयमाना अपि तरङ्गा न समुद्रतोऽतिरिच्यन्ते, तथा विभावानुभाववशत्प्रतीयमाना अपि व्यभिचारिणो न स्थायिनोऽतिरिच्यन्ते । एवं च विभावानुभाववशात् प्रतीयमानत्वं व्यभिचारिभावत्वम् । न चैवं (शृङ्गारादौ) रसेऽतिप्रसङ्गः, विभावानुभावमात्रेणाभिव्यज्यमानस्य रसत्वा (शृङ्गाराद्यन्यतमत्वा) नङ्गीकारात् । भावत्वं मनोविकारविशेषत्वम् । यथाऽऽहु:-'विकारो मानसो भावः । इति । भावाश्च निर्वेदाद्यास्त्रयस्त्रिंशत् रत्याद्या अनियते रसे न वेत्येवमेकचत्वारिंशत् । यद्यपि-मात्सर्योद्वेगदम्भाविवेकनिर्णयक्लैब्यक्षमाकुतुफोत्कण्ठाविनयसंशयधाष्टर्यापमानसम्मानादीनां तत्रतत्र व्यङ्गयात्मनोपपद्यमानत्वम्, तथाऽप्येतेष्वेवैषामन्तर्भावी युक्तः, तावन्मात्रताया मुनिवचनायत्तीकृतत्वात् । तथा च-असूयातो मात्सर्य्यस्य, त्रासत उद्वेगस्य, अवहित्थातो दम्भस्य, अमर्षत ईाया, मतितो विवेकस्य, निर्णयस्य च; दैन्यतः क्लैब्यस्य, धृतितः क्षमायाः, औत्सुक्यतः कुतुकस्योत्कण्ठाया, लजातो विनयस्य, तर्कतः संशयस्य, चपलतातो धाष्टर्यस्य, विषादतोऽपमानस्य, हर्षतश्च सम्मानस्य, सूक्ष्मदशा भेदेऽपि तत्रतत्रैवान्तर्भावो वोध्यः । एषां चैक एंवैकत्राभिव्यज्यते, न पुनर्द्वितीय इति न नियमः, सामग्रीमहिम्ना द्वितीयस्यापि ध्वन्यमानतायामक्षतेः । अत एव-'मयि सकपटं..' इत्यादौ स्मृतिर्कीडा च, न चैवमेकस्य प्राधान्यमपरस्य गुणीभूतत्वं वाच्यम्, स्वस्वं प्रति तस्यतस्य तथागुणीभावानुपपत्तेः । कुत्रचित्त्वेकस्यैव प्राधान्यमपरस्याङ्गभूतत्वम्, यथाऽमर्षे गर्वस्य, गर्वे वाऽमषेस्य । ग्लानिदैन्यविषादानों बलहानिस्वरूपत्वेन प्रतीयमानेऽप्यभदे निष्प्राणत्वानोजस्य सत्त्वसइक्षयाणां विभिन्नत्वेन विभिन्नत्वम् । केषांचिद्विभेदो गोबलीवर्दन्यायेन, यथामतिवितर्कयोः । इति दिक ।
२१८ रत्यादयो..इत्यादिनोक्तं स्पष्टयितुमुपक्रमते-तदित्यादिना ।
तत् तर्हि । कस्य । स्थायिनः स्थायिभावस्य । कस्मिन् । रसे। सश्चारित्वं व्यभिचारिभावत्वम् । इतीत्येवम् । 'आशङ्कोत्तरयितु'मिति शेषः । आह-२१९ शृङ्गार..इत्यादि।
२१९ शृङ्गारवीरयोः। उपचारादद्धतेऽपि । हासः। 'व्यभिचारी'ति शेषः । तथा। वीरे । उपलक्षणेन रेऽपि । क्रोधः। उपचारादागोऽपि । व्यभिचारी'ति शेषः । मतः ॥१९॥