________________
परिच्छेदः ]
अथ वितर्क:
रुचिराख्यया व्याख्यया समेतः ।
२१७ ऊहो वितर्कः सन्देहाद् भ्रू-शिरो-गुलिनर्त्तकः ॥ १९८ ॥
यथा- 'किं रुद्धः प्रियया....' इत्यादौ ।
एते च त्रयस्त्रिंशद् व्यभिचारिभेदा इति यदुक्तं तदुपलक्षणमित्याह२१८ रत्यादयोऽप्यनियते रसे स्युर्व्यभिचारिणः ।
२२९:
मुरामिति करतले मुखस्य निधानं कमलेन शशिनः संयोग इव, कमलेन शशिने विरोध इति तथाभूते करतले मुखस्य निधानं विरुद्धं न तु युक्तम् । तथा सति पृच्छति, किं चिरादेवं ? किं वा स्तिमितेवासीति । अत्र गीतिश्छन्दः, लक्षणं चोक्तं प्राक् ॥ १२६ ॥ '
अत्रेदं बोध्यम्- प्रियविरह आलम्बनं पुनःपुनरसा एव स्मर्यमाण उद्दीपनं करतलोपरि मुखस्य पय्र्यस्तत्वं हृदयस्य हितत्वं चानुभावा इति चिन्ताऽभिव्यज्यते ।' 'किं चिन्तसी'ति पाठान्तरे स्वशब्दवाच्यत्वं स्यात् । इति ।
यथा वा - 'अधरद्युतिरस्तपल्लवा मुखशोभा शशिकान्तिलङ्घिनी । अकृतप्रतिमा तनुः कृता विधिना कस्य कृते मृगीदृशः ॥' इति । अत्र हि नायिकायाः स्मर्यमाणं लावण्यमालम्बनं, तदप्राप्तिस्तद्वैलक्षण्यं वोद्दीपनमनुतापादयश्चाक्षेप्या अनुभावा इति चिन्ता ध्वन्यते ।
वितर्क लक्षयितुं प्रतिजानीते-अथ चिन्तोदाहरणानन्तरम् । वितर्को लक्ष्यते - २१७ ऊहो.. इत्यादिना ।
२१७ सन्देहात् । इदं विपर्ययस्याप्युपलक्षकम् । ल्यपो लोपे चात्र पञ्चमी । तथा च-सन्देहं विपर्य्ययं वाssति निष्कृष्टोऽर्थः । भ्रूशिरोङ्गुलिनर्त्तकः । कहो निश्चयानुकूलो विचारः । वितर्कः । 'तर्को विचार 'इति पाठान्तरे 'निश्चयानुकूल' इत्यध्याहार्यम् ॥ १९८ ॥
उदाहरति - यथा । 'किं रुद्धः प्रियया... इत्यादौ ।
इदमुक्तम्- 'किं रुद्धः...' इति व्याख्यातपूर्व पद्यम् अत्र च प्रियस्यागमने विलम्ब आलम्बनं सख्या अपि प्रत्यानुयोत्तरदानाभाव उद्दीपनम्, भ्रूप्रभृतीनां नर्तनमाक्षिप्तं पुनरनुभाव इति वितर्केौऽभिव्यज्यते । न चासौ चिन्ता, 'इत्यालोच्ये 'ति स्वारस्येनान्तिमपक्षस्य निश्चयोपलम्भात्, चिन्तायां पुनस्तद्द्विरहात् । यथा वा मम - 'न दयां मयि
निधास्यते सखि हताभिनवाम्बुदोदयः । शिशुपालमसौ भजिष्यतीत्यपि किं जातु मनाक् प्रमन्यसे ॥' इति । अत्र च'यदि नागमिष्यति मुकुन्दः, तदा किं सखी शिशुपालं नोपासिष्यत ' इति सख्या विपर्ययग्रह आलम्बनम्, आगमनविलम्बे च सख्या प्रस्तूयमानाऽऽक्षेप्य मीमांसोद्दीपनं, किमाऽऽक्षेप्यं भ्रूक्षेपाद्यनुभावश्चेति वितर्को ध्वन्यते ।
·
एवं निर्वेदादीन् प्रदर्श्य रत्यादीनामपि हास्यादौ व्यभिचारित्वमिति प्रदर्शयितुमुपक्रमते - एते चेत्यादिना ।
एते 'निर्वेदादय' इति शेषः । च । व्यभिचारिभेदाः । त्रयस्त्रिंशत् त्र्युत्तरत्रिंशत्सङ्ख्याकाः । इतीत्येवम् । यत् । उक्तम् । 'त्रयस्त्रिंश' दित्यादिनेति शेषः । तत् ' त्रयस्त्रिंश' दिति वच इत्यर्थः । उपलक्षणं ज्ञापनं, न तु तथा नियमनमिति भावः । इतीत्येवम् । आह- २१० रत्यादयो.. इत्यादिना ।
२१८ रत्यादयः शृङ्गारादेः स्थायिभावा इत्यर्थः । अपि किं पुनर्निर्वेदादय एव । अनियते नियततो भन्ने स्वास्थिति नियमरहित इति यावत् । नियतता च वक्ष्यते । रसे । व्यभिचारिणः । स्युः ।