________________
२२८
साहित्यदर्पणः।
[तृतीयः
यथावा'लुलितनयनताराः क्षामवक्रेन्दुबिम्बा रजनय इंव निद्राक्लान्तनीलोत्पलाक्ष्यः। तिमिरमिव दधानाः स्रंसिनः केशपाशानवनिपतिगृहेभ्यो यान्त्यमूरिवध्वः ॥ १२५ ॥' अथ चिन्ता----
२१६ ध्यानं चिन्ता हितानाप्तेः शून्यताश्वासतापकृत् । यथा मम'कमलेण विअसिएण सुसंजोएंती विरोहिणं ससिबिंबम् । करअलपल्लत्थमुही किं सुचिरं सुमुहि ! अंतराहिअहिअओ ॥ १२६ ॥' उदाहृते पद्ये 'ग्लपयतीति खशब्दवाच्यत्वावहमित्याह-यथा । वा । 'लुलित...इत्यादौ ।
'रजनयः। इव रात्रय इव । लुलितनयनतारा लुलिता विमर्दिता उपचारात्तथाभूता नयनतारा यासां ताः । नयनानीव तारा नक्षत्राणीति, नयनानि तारा इवेति वा नयनताराः । क्षामवक्रेन्दुबिम्बाःक्षामं वक्रेन्दुबिम्बं यासां ताः । वक्र मुखमिवेन्दुबिम्बमिति वमिन्दुबिम्वमिवेति वा वक्रेन्दुबिम्बम् । निद्राकान्तनीलोत्पलाक्ष्यो निद्राक्लान्तं नीलोत्पलाक्षि यासां ताः । निद्रव निद्रयेत्येव वा क्लान्तमभिभूतमिति निद्राक्लान्तम् । नीलोतालमक्षीयेति नीलोत्पलमिवाक्षीति वा नीलोत्पलाक्षि । संसिनः शिथिलबन्धनान् । केशपाशान् । इव तिमिरमन्धकारम् । यदा-तिमिरम् । इव । संसिनः । केशपाशान् । इति योज्यम् । दधानाः। अमूः। वारवध्वो वारस्य समुदायस्य साधारण्येन सर्वस्पति यावत्, वध्व इति तथोक्ताः । वेश्या इत्यर्थः । 'स्तोमौघनिकरवातवारसङ्घातसञ्चयाः ।' इत्यमरः । अवनिपतिगृहेभ्योऽवनिपतीनां राज्ञां गृहास्तेभ्यः । यान्ति । शिशुपालवधस्थेदं पद्यम् । अत्र मालिनी छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ १२५ ॥'
अत्रेदं बोध्यम्-रत्यायास आलम्बनं, जागरणं चोद्दीपनं, नयनादेमन्दप्रभवाद्यनुभावश्चेति ग्लानिरभिव्यज्यते । चिन्तां लक्षयितुं प्रतिजानीते-अथ ग्लानिनिदर्शनानन्तरम्। चिन्ता-लक्ष्यते...२१६ ध्यानं..इत्यादिना ।
२१६ हितानाप्तेहितस्याभीष्टस्यानाप्तिः प्राप्त्यभावस्तस्याः । शून्यताश्वासतापकृत् । ध्यानं किम्मया सापप्रतं कार्यमिति विमर्षः। चिन्ता। 'उच्यत' इति शेषः । यथोक्तम्-'विभावा यत्र दारिद्यमैश्चर्यभ्रंशनं तथा । इष्टार्थापहृतिः शश्चन्छासोच्छासावधोमुखम् ॥ सन्तापः स्मरणं चैव कार्य देहानुपस्कृतिः। अधतिश्चानुभावाः स्युस्सा चिन्ता परिचिन्तिता। वितर्कोऽस्याःक्षणे पूर्वे पाश्चात्येवोपजायते।' इति ।
उदाहरति-यथा । मम । 'कृतौ-'कमलेण.. इत्यादौ ।
'हे सुमुहि सुमुखि ! करअलपल्लत्थमुही करतलपर्यस्तमुखी करतले पर्यस्तं निक्षिप्तं निहितमिति यावत्, मुखमुपचारात्कपोलदेशो यया सा तथोक्ता । अंतराहिअहिअआऽन्तराहितहृदया, अन्तराहितं सङ्कल्पविकत्यान्तरं परित्यज्य स्थितं हृदयं मनो यस्याः सा । अत एव-विअसिएण विकसितेन । कमलेण कमलेन । सद्दार्थेऽसौ तृतीया। विरोहिणं विरोधिनम् । नहि कमलं शशिन उदये विकाशते, न वा कमले विकाशमाने शशी पुनरुदेतीत्युक्तमिदम् । ससिबिवं शशिबिम्बं शशिनश्चन्द्रस्य बिम्बो मण्डलं तम् । 'बिम्बोऽत्री, मण्डलं त्रिषु ।' इत्यमरः । सुसंजोएंती सुसंयोजयन्ती । किम् । सुचिरम् । बहुकालमारभ्येत्यर्थः । 'स्थिताऽसीति शेषः । 'चिंतसी'ति पाठान्तरे तु 'चिन्तयसी'त्यर्थः । इदमुक्तम्-विकसितकमलसदृशं करतलं, शशिबिम्बसदृशं च
१ 'कमलेन विकासितेन सुसंयोजयन्ती विरोधिनं शशिबिम्बम् । करतलपय॑स्तमुखी किं सुचिरं सुमुखि ! अन्तराहितहृदया ॥' इति संस्कृतम् ।