________________
परिच्छेदः
रुचिराख्यया व्याख्यया समेतः । मुग्धामजातरजसं कलिकामकाले व्यर्थ कदर्थयसि किं नवमल्लिकायाः ॥ १२३ ॥' अथ ग्लानिः२१५ रत्यायासमनस्तापक्षुत्पिपासाऽऽदिसम्भवा ।
ग्लानिर्निष्प्राणताकम्पकार्यानुत्साहताऽऽदिकृत् ॥ १९७ ॥ यथा'किशलयमिव मुग्धं बन्धनाद्विप्रलून हृदयकमलशोषी दारुणो दीर्घशोकः ।
ग्लपयति परिपाण्दु क्षाममस्याः शरीरं शरदिज इव धर्मः केतकीगर्भपत्रम् ॥ १२४॥' वेति तासु । विषये सप्तमीयम् । लोल चञ्चलं तृष्णातरलमिति यावत् । मनः । तावत् तृप्तिपर्यन्तमित्यर्थः । 'यावत्तावश्च साकल्य'इत्यमरः । विनोदय । नवमल्लिकाया नवाऽभिनवाकुराऽऽत्मवल्लभेनाप्यनुपभुक्तपूर्वा वाऽसौ मल्लिका तस्याः । मुग्धां कोमलां मूढां वा । अजातरजसं न जातं रजः पराग ऋतुजं स्रवणं वा यस्यास्ताम् । 'रजः क्लीबं गुणान्तरे। आर्त्तवे च परागे च रेणुमात्रेऽपि दृश्यते । इति मेदिनी। कलिकामल्पा कलीति कलिका ताम् । 'कली(लि:)त्री कलिकायां...'इति मेदिनी । 'अल्पे' ५।३।८५ इति कः । अकाले मकरन्दाभावदशायां बाल्ये (रसिकत्वविरहावस्थायां) वा । किम । व्यर्थ विगतो निवृत्तोऽर्थो मकरन्दावादनरूपः सुरतामोदानुभवनरूपो वा यस्मिन् कर्मणि तद् यथा भवेत्तथा। कदर्थयसि कदर्थी । करोषीत्यर्थः । विकटनितम्बायाः पद्यमिदम् । अत्र बसन्ततिलकं छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ १२३॥'
इदमवसेयम्-अत्र भृङ्गस्य कलिकायामनुराग आलम्बनं, मल्लिकासम्बन्धित्वं पुनरुद्दीपनं, कदर्थितकरणेनाक्षेप्यं हठादायत्तीविधानमनुभावश्चेति चपलताऽभिव्यज्यते । इति ।
ग्लानिं लक्षयितुं प्रतिजानीते-अथ चपलतोदाहरणानन्तरम्। ग्लानिः लक्ष्यते-२१५ रत्यायास...इत्यादिना ।
२१५ रत्यायासमनस्तापक्षुत्पिपासाऽऽदिसम्भवा । आदिना पराभवजुगुप्सितावेक्षादिग्रहणम् । निष्प्राणताकम्पकाऱ्यांनुत्साहताऽऽदिकृत् । निर्गताः प्राणा उपचारात्सामर्थ्य यस्य सस्य भावो निष्प्राणता । कम्प; प्रसिद्धः । कार्य्यस्यानुत्साहतेति कार्यानुत्साहता, नोत्साहो यस्येत्यनुत्साहस्तस्य भावस्तता । आदिना वैवादिप्रणम् । ग्लानिः । 'उच्यत इति शेषः ॥ १९७ ॥
उदाहरति-यथा-'किशलय...'इत्यादौ ।
'शरदिजः शरत्कालिकः । 'प्रावृट्शरत्कालदिवा जे ।' ६।३।१५ इति सप्तम्या अलुक् । 'सप्तम्यां जनेईः ।' ३।२।९७ इति जनेः । घर्मस्तापः । केतकीगर्भपत्रं केतक्या गर्भो मध्यं तस्य पत्रं तदिति तथोक्तम् । इव । हृदयकमलशोषी हृदयं कमलमिवेति तच्छोषयतीत्येवंशील इति तथोक्तः । अत एव-दारुणः। दीघंशोको दीर्घ आयतश्चिरकालं स्थायीति यावत्, शोको रामचन्द्रेण समं विरहजन्यो मनस्ताप इति तथोक्तः । बन्धनादुत्पत्तिस्थानात् । विप्रलूनमेकपदं छिन्नं दूरं पतितमिति यावत् । मुग्धं कोमलम् । किशलयमिव । अस्याः सीतायाः । परिपाण्डु परितः पाण्डुः पीतसंवलितः श्वेतवर्ण इति, सोऽस्यास्तीति तत्तथोक्तम् । 'पाण्डस्तु पीतभागार्द्धः केतकीधूलिसन्निभः । इति शब्दार्णवः । 'गुणवचनेभ्यो मतुपो लुगिष्टः' इति मतुपो लुक् । क्षामं दुर्बलम् । शरीरम् । ग्लपयति म्लानं करोति । इदमुत्तररामचरितस्य । अत्र मालिनी छन्दः । तल्लक्षणं चोक्तं प्राक् ॥ १२४ ॥'
. इदमवधेयम्-रामचन्द्रेण कृतः परित्याग आलम्बनम्, तत्र खात्मनो निरवद्यत्वस्मरणानुपदं तद्विरहस्यानवधिकत्व. मुहीपन, दौर्बल्ममनुभावश्चेति ग्लानिरभिव्यज्यते । इति ।