________________
३३६
साहित्यदर्पणः ।
द्रव्यौघाः परिसञ्चिताः खलु मया यस्याः कृते, साम्प्रतं नीवाराअलिनाsपि केवलमहो सेयं कृतार्था तनुः ॥ १२२ ॥
अथ चपलता
२१४ मात्सर्य्यद्वेषरागादे - चापल्यं त्वनवस्थिति: । तत्र भर्त्सनपारुष्य - स्वच्छन्दाचरणादयः ॥ ९९६ ॥
यथा
'अन्यासु तावदुपमर्दखहासु भृङ्ग ! लोलं विनोदय मनः सुमनोलतासु ।
[ तृतीय:
चिरस्याद्याश्चिरार्थकाः । ' इत्यत्राद्यपदाचिरादित्यपि । आमुष्मिकीर्लोकान्तरे कालान्तरे वा भाविनी । अमुष्मिन् (परिस्मिन् लोके काले वा ) भवा इति तास्तथोक्ताः । ' अमुष्मि' न्निति विभक्तिप्रतिरूपकमव्ययमिति कल्पयित्वा 'तत्र भवः ।' ४।३।५३ इत्यनेन 'अध्यात्मादिभ्यश्च' इति वा ठक् । 'कालाट्ठञ् ।' ४।३।११ इति ठञ् वा । 'अव्ययानाम्भमात्रे टिलोपः । ' * इति टिलोपः । यद्वा-'पृषोदरादीनि यथोपदिष्टम् । ६ । ३ । १०९ इत्यनेन निपातनात् विभत्तत्यलुक् टिलोपश्चेति बोध्यम् । यातनास्तीत्रवेदनाः । नैव । आलोच्य विचार्य । यस्याः ( तनोः ) । कृते निमित्तम् । मया लोभान्धेनेत्यर्थः । द्रव्यौघा द्रव्याणामनेकविधानां सुवर्णादिरूपाणां धनानामोघा राशय इति तथोक्ताः । ' द्रव्यं स्याद्वविणे भव्ये..' इति विश्वः । परिसञ्चिताः परितः सञ्चिताः । खलु । अहो आश्चर्यम् । साम्प्रतमस्मिन्समये संतोषास्थायामिति यावत् । सा । इयम् । तनुः शरीरम् । 'ममे 'ति शेषः । केवलम् । नीवाराञ्जलिना नीवारस्य तृणधान्यस्यान्ञ्जलिस्तेनेति तथोक्तेन । अञ्जलिपरिमितेन नीवारेणेति भावः । ' तृणधान्यानि नीवारा' इत्यमरः । अपि । कृतार्था कृतो निष्पादितोऽर्थः प्रयोजनं यस्याः संति तथोक्ता । कस्यापि सर्वतो विरक्तेः यथालाभं प्रसादे पूर्वावस्थां निन्दत उक्तिरियम् । अत्र शार्दूलविक्रीडितं वृत्तम् ॥ १२२ ॥
1
अत्रेदं बोध्यम् - आप्तवचनान्यालम्बनं, नीवाराञ्जलिनाऽपि निर्वाह उद्दीपनं, स्वात्मनस्ततोऽपि कृतार्थत्वनिश्चयोऽनुमावत्रेति वृतिर्व्यज्यते । इति ।
यथा वा- 'वयमिह परितुष्टा वल्कले, स्त्वं दुकूलैः, सम इह परिणाम निर्विशेषो विशेषः । स तु भवतु दरिद्रो यस्य तृष्णा विशाला, मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः ॥' इति । अत्र च प्रपञ्चस्य मिथ्यात्वनिश्चय आलम्बनं, विरक्तिश्चोद्दीपनं, तृष्णाया निन्दनमनुभावश्चेति धृतिरभिव्यज्यते ।
चपलतां लक्षयितुं प्रतिजानीते - अथ धृत्युदाहरणानन्तरम् । चपलता लक्ष्यते - २१४ मात्सर्य.. इत्यादिना ।
२१४ मात्सर्यद्वेषरागादेः । मत्सरोऽन्यशुभद्वेषोऽस्य इति मत्सरस्तस्य भावो मात्सर्यम् । 'गुणवचनेभ्यो मतुपो लुगिष्ट:' इति मतुपो लुक् । अत एव - 'मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु ।' इत्यमरोक्तौ तद्वदिति सङ्गच्छते । यद्वा- 'मायति परेषां दुःखादौ' इति मत्सरोऽन्येषां दुःखे शोके वा प्रमोदी | ब्राह्मणादित्वात् ष्यञ् । द्वेषो वैमनस्यम् । रागोऽनुरागः सौमनस्यमिति यावत् । आदिरसूयादिग्राहकः । तु पुनः । अनवस्थिति: । चापल्यं चपलता । 'उच्यत' इति शेषः । तत्र तस्मिंश्चापल्ये सतीति यावत् । भर्त्सनपारुष्यस्वच्छन्दाचरणादयः । आदिना ताडनादयः । 'सम्भवन्ती 'ति शेषः । यथाहुः - 'अमर्षप्रातिकूल्येर्ष्या रागद्वेषाच मत्सरः । इति यत्र विभावाः स्युरनुभावास्तु भर्सनम् ॥ वाक्पारुष्यं प्रहारश्च ताडनं बधबन्धने । तच्चापल्यमनालोच्य कार्यकारित्वमिष्यते ॥ ' इति ॥ १९६ ॥
उदाहरति-यथा- 'अन्यासु इत्यादौ ।
'हे भृङ्ग ! मधुकर उपचाराजार! अभ्यासु । उपमर्द्दसहा सूपमर्दस्य चरणप्रहारादिना दलनस्य चुम्बनादिना वा पीडायाः सहा इति तासु तथोक्तासु । सुमनोलतासु सुमनसां पुष्पाणां विहारे प्रशस्तमनसां वा लतास्ता इव
..