________________
परिच्छेदः ]
अथ धृतिः-
रुचिराख्यया व्याख्यया समेतः ।
२१३ ज्ञानाभीष्टागमाद्यैस्तु सम्पूर्णस्पृहता धृतिः । सौहित्यवचनोल्लास - साहसप्रतिभाऽऽदिकृत् ॥ १९५ ॥
यथा मम
'कृत्वा दीननिपीडन, निजजनैर्बद्धा वचोविग्रहं नैवालोच्य गरीयसीरपि चिरायामुष्मिकीर्यातनाः ।
३२५
उरकडाप्पेण सुचिकुरकलापेन । शोभनानां चिकुराणां वालानां कलापः समूहस्तेन । 'चिकुरः कुन्तलो वाल:' इत्यमरः । ‘कलापः संहतौ बर्हे काश्याम्भूषणतूणयोः । इत्यजयः । निबद्धा निबद्धा । बेणी वेणी । मह मम । यस्य हितका - रिणी त्वं तस्यास्येति भावः । हिअअं हृदयमन्तरात्मानमिति यावत् । आअसजट्टिग्व आयस्यष्टिरिव । आयसयष्टिः खङ्ग इत्येके, क्रकच इत्यपरे । दारइ दारयति । कालअइव्व कालाहिरिव । 'कालउरइव्व' इति पाठान्तरे कालोरगीवेत्यर्थः । एवं सति मात्राधिक्ये छन्दोभङ्गः । डंसइ दशति । यत्तु व्याख्यातं मह सही मम सखि । तस्य हिअअं हृदयं..' इति, तन्न सन् मम सखीति सम्बुद्धौ सारस्यभङ्गात् । हितकारिण्या अपि ते (सख्याः) वेणी मम (यस्य त्वं हितकारिणी तस्यास्य ) हृदयं यदि दारयेद्दशेद्वा, तर्हि नितान्तमयुक्तम् । अतो मम यथा हितं तथा त्वया त्वदीयया वाऽनया भवितव्यमिति निष्कृष्टोऽर्थः । अत्रार्य्यागीतिरछन्दः, तल्लक्षणं सूत्रितं यथा- 'अर्जे वसुगण आर्यागीतिः ।' इति ॥ इदमिह पुनरवधेयम्-यां प्रति कस्या अपि कामुकस्येयमुक्तिस्तत्सङ्गार्थं कृतस्यापि यत्नस्य विफलत्वं गम्यमानमालम्बनं, वेणीसौन्दर्यदर्शनेनोज्जृम्भमाणः काम उद्दीपनम् असह्यत्वं च तस्यानुभाव इति विषादो ध्वन्यते । इति ॥ १२१ ॥
1
यथा वा- 'व्यर्थे यत्र हरीन्द्रसख्यमपि में, वीय्ये हरीणां वृथा, प्रज्ञा जाम्बवतोऽपि यत्र, न गतिः पुत्रस्य वायोरपि । मार्गे रात्र न विश्वकर्म्मतनयः कर्तुं नलोऽपि क्षमः, सौमित्रेरपि पत्रिणामविषयस्तत्र प्रिया क्वास्ति मे ॥' इति, अत्र हिसीतायाः प्रियात्वं स्मर्यमाणमालम्बनं तदलाभश्रोद्दीपनं, सुग्रीवसख्यादीनामपि सीतालाभविषये विफलत्वेन मुखवैवर्ण्याधनुभावश्चेति स्फुटो विषादध्वनिः ।
धृतिं लक्षयितुं प्रतिजानीते-अथ विषादोदाहरणानन्तरम् । धृतिः लक्ष्यते २१३ ज्ञाना.. इत्यादिना ।
२१३ ज्ञानाभीष्टागमाद्यैज्ञनं चाभीष्टागमश्चेति तावायो येषां (वेराग्यादीनां तैः । तु पुनः । सौहित्यवचनोल्लाससाहस प्रतिभाऽऽदिकृत् । सुहितस्य भावः सौहित्यं, तृप्तिः । 'सौहित्यं तर्पणं तृप्ति' रित्यमरः । 'गुणवचनब्राह्मणादिभ्यः कर्म्मणि च । ५।१।१२४ इत्यनेन चाद्भावे ष्यञ् । वचनानामुहासोऽनाकुलत्वम् । सहसि बले भवं साहसम्, भयाभाव इत्यर्थः । ' तत्र भवः' ४।३।४३ इत्यण् । प्रतिभा नवनवोन्मेषशालिनी बुद्धि: । आदिना शान्त्या - दीनां ग्रहणम् । सम्पूर्णस्पृहता सम्पूर्णा स्पृहा यस्य तस्य भावस्तत्ता । धृतिः । 'उच्यत' इति शेषः ॥ १९५ ॥
उदाहरति यथा । मम कृतौ ' कृत्वा इत्यादौ ।
'दीननिपीडनां दीनानां दुःखितानामधमर्णत्वादिना पीडितानामिति यावनिपीडना निःशेषेण (पुनःपुनर्धनयुत्कोच वचनादिना ) पीडना दुःखाकरणमिति ताम् । कृत्वा । निजजनं नैजाः स्वात्मीया जनास्तैस्तथोक्तः । 'बुढो यूना..' इत्यादिनिर्देशात्तृतीया । 'निजजन' इति पाठान्तरे विषये सप्तमी । वचोविग्रहं वचसां विग्रहः कलहस्तम् । 'कलहविग्रहो ।' इत्यमरः । बड़ा । गरीयसी रत्यन्तं गुवः । द्विवचनविभज्योपपदे तरबीयसुनौ ।' ५।३।५७ इतीसुन् । 'प्रियम्थिर स्फिरोस् बहुलगुरुवृद्ध प्रदीचैबुन्दारकाणां प्रस्थस्प हर्षित्राधिवृन्दाः । ६।४।१५७ इति गर देशः । 'उगितश्च ।' ४।१।६ इति ङीष् । अपि । चिराय चिरं भोग्या 'चिरा' दिति पाठान्तरम् । चिराय चिररत्राय
१९