________________
२२५
साहित्यदर्पणः।.
[तृतीयः
यथा-- 'अथ तत्र पाण्डुतनयेन सदसि विहितं मधुद्विषः । मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम् ॥१२०॥' अथ विषादः
२१२ उपायाभावजन्मा तु विषादः सत्त्वसङ्क्षयः ।
निःश्वासोच्छासहृत्ताप-सहायान्वेषणादिकृत् ॥ १९४ ॥ यथा मम'ऐसा कुडिलघणेण सुचिउरकडप्पेण तुह णिबद्धा बेणी । मह सहि ! दारइ डंसइ आअसजट्टिव्य कालअ इव्व हिअअम् ॥१२१॥' उदाहरति-यथा-'अथ..इत्यादौ ।
'अथ श्रीकृष्णचन्द्रस्य मुख्यतयाऽर्चनानन्तरम्। चेदिपतिश्चेदेदेशविशेषस्योपचारात्तत्रत्यानां जनानां पतिः प्रभु. रिति तथोक्तः। शिशुपालनामा वीर इति भावः । तत्र तस्यां तस्मिन्नित्येव वा । सदसि सभायाम् । पाण्डतनयेन पाण्डोः सुगृहीतनाम्नो नृपेन्द्रस्य तनयस्तेन, युधिष्टिरेणेत्यर्थः । विहितं कृतम् । मधुद्विषो मधुंदैत्यविशेषमद्विषदिति तस्य । श्रीकृष्णचन्द्रस्येत्यर्थः । 'सत्सूद्विषद्रुहदुयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि विप ।' ३१२१६१ इति क्विप् । मानं मुख्यत्वप्रत्यायकं पूजनम् । मननमेतेन नान्यत्सदृश इति विबोधनमिति मानः । भावे घञ् । न नैव । असहत । किन्त्वद्विक्षतेति भावः । हि यतः। 'हि हेताववधारणे । इत्यमरः । मानिनाम्मननम्मम सदृशो नान्य इति विचारणमिति मानोऽभिमानः, स एषामस्तीति तेषां तथोक्तानाम् । मनश्चित्तम् । परवद्धिमत्सरि परेषां स्वभिन्नानां वृद्धिरुत्कर्ष इति, तत्र मत्सरि मात्सर्यग्रस्त मिति तथोक्तम्। मत्सरोऽस्मिन्नस्तीति तथोक्तम्। 'मत्सरोऽन्यशुभद्वेष'इत्यमरः। 'भवतीति शेषः । शिशुपालवधस्थेदं पद्यम् । अत्रोद्गता छन्दः, तल्लक्षणं यथोक्तम् मसजादिमे सलघुके च नसजगुरुकेऽप्यथोद्गता । अघ्रिगतभजनजला गयुताः सजसा जगौ चरणमेकतः पठेत् ॥' इति ॥ १२० ॥ ___अयम्भावः-श्रीकृष्णेन समं पुरातनं वैरमालम्बन, सभायां च मुख्यत्वेन तदीया पूजा चोद्दीपनं, तृतीयपादार्थप-लोचनयोज्जम्भमाणं तदपमानार्थ दोषारोपणमनुभावश्चत्येवमसूयाऽभिव्यज्यते। यथा वा-'वृद्धारते न विचारणीयचारतास्तिष्ठन्तु है वर्तते, सुन्दस्त्रीदमनेऽप्यखण्डयशसो लोके महान्तो हि ते। यानि त्रीण्यकुतोभयान्यपि पदान्यासन्खरायोधने यद्वा कौशलमिन्दुसूनुदमने तत्राप्यभिज्ञो जनः ॥'इति । उत्तररामचरितस्येदं पद्यम् , लवस्य चन्द्रकेतोः समक्षे रामचन्द्रस्योपहासोक्तिरियम् । 'राम प्रति कुशोपहास'इति तु प्रमाद एव प्रकाशव्याख्यातुः । अत्र च औद्धत्यमालम्बनं, सुमन्त्रचन्द्रकेतुभ्यां कृतं रामचन्द्रचरितस्य सर्वातिशायित्वेन वर्णनमुद्दीपनं, वयोमात्रेण गौरवं रामस्येत्यादिरूपाः परिहासा अनुभावाश्चेति लवस्य रामचन्द्रविषयिण्यसूयाऽभिव्यज्यते ।
विषादं लक्षयितुं प्रतिज़ानीते-अथासूयोदाहरणानन्तरम् । विषादः। लक्ष्यते-२१२ उपाया... इत्यादिना ।
२१२ उपायाभावजन्मोपायस्य सिद्धिसाधनरूपस्य चेष्टितविशेषस्याभावो विफलत्वं तस्माज्जन्म यस्य स इति तथोक्तः । तु । निःश्वासोच्छ्रासहत्तापसहायान्वेषणादिकृत् नि:श्वास (बाह्याश्वासः) श्वोच्छ्वास(अन्तःसञ्चारी श्वासः) श्च हत्तापश्च सहायान्वेषणं चेति तान्यादौ येषां (ग्लानिवैवादीनां) तानि करोतीति तथोक्तः । सत्वसङक्षयः सत्त्वस्य बलस्योत्साहस्येति यावत् सइक्षय इति तथोक्तः । विषादः । “उच्यते' इति शेषः ॥ १९४ ॥
उदाहरति-यथा । मम 'कृतौ-एसा.. इत्यादौ ।
सहि सखि, उपचाराद्धितकारिणीत्यर्थः । एसा एषा । तुह तव । कडिलघणेण कुटिलघनेन । कुटिलेन निबिडेनेत्यर्थः । विशेषणविशेष्यभावे कामचार इति 'विशेषणं विशेष्येण बहुलम् ।' २११५७ इति समासः । सुचि
१ 'एषा कुटिलघनेन सुचिकुरकलापेन तव निबद्धा वेणी : मम सखि ? दारयति दंशति आयसयष्टिरिय कालोरगीव ॥' इति संस्कृतम् ।