________________
२२३
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । अथ हर्षः_____ २१० हर्षस्त्विष्टावाप्ते-मन प्रसादोऽश्रुगद्गदादिकरः ॥ १९२ ॥ यथा
'समीक्ष्य पुत्रस्य चिरात्पिता मुखं निधानकुम्भस्य यथैव दुर्गतः।
तदा शरीरे प्रबभूव नात्मनः पयोधिरिन्दूदयमूर्च्छितो यथा ॥११९॥' अथासूया२११ असूयाऽन्यगुणीना-मौद्धत्यादसहिष्णुता ।
दोपोद्घोषभूविभेदा-वज्ञाक्रोधेगितादिकृत् ॥ १९३ ॥
हर्ष लक्षयितुं प्रतिजानीते-अथ वीडोदाहरणानन्तरम् । हर्षः लक्ष्यते-२१० हर्ष..इत्यादिना ।.
२१० इष्टावाप्तरिष्टस्यावाप्तिाभस्तस्याः । तु पुनः । अश्रुगद्गदादिकरोऽश्रुगद्गदादेः करः कर्तेति तथोक्तः । आदिपदं सम्भ्रमादिप्राहकम् । मनःप्रसादो मनसः प्रसादः प्रसन्नत्वम् । 'प्रसादस्तु प्रसन्नता ।' इत्यमरः । हर्षः । विवृण्वते यथाऽऽU:-'देवभर्तृगुरुस्वामिप्रसादः प्रियसङ्गमः । मनोरथाप्तिरप्राप्य मनोहरधनागमः ॥ तथोत्पत्तिश्च पुत्रादेर्विभावो यत्र जायते । नेत्रवक्रप्रसादव प्रियोक्तिः पुलकोद्गमः ॥ अश्रुस्वेदादयश्चानुभावा हर्षे तमादिशेत् ॥ इति । अत्र गीतिश्छन्दः, तल्लक्षण चोक्तं प्राक् ॥ १९२ ॥
उदाहरति-यथा-'समीक्ष्य..इत्यादौ ।
'यथा। एव । दर्गतो दरिद्रः। 'दरिद्रो दुर्गतोऽपि सः।' इत्यमरः । निधानकुम्भस्य निधानस्य कोशस्य कुम्भः कलशस्तस्य । तथेलि शेषः । पिता। पुत्रस्य। चिराद्वहोः कालादनेकदेवाराधनाद्यनन्तरमिति भावः । मुखम् । समीक्ष्य दृष्टा । 'स्थित' इति शेषः । यथा। पयोधिः क्षीरसमुद्रः । 'तथेति शेषः । इन्ददयमूच्छित इन्दोश्चन्द्रस्योदय इति, इन्दुवचन्द्रस्येवोदयो जन्मविकाशो वेति वा तेन मूच्छितः प्रबुद्ध उन्मत्तो वति तथोक्तः । तदा यदा मुखं समीक्षितमिति शेषः । 'मुदे'ति पाठस्तु न साधीयान् , अस्य वाच्यत्वापत्तेः । आत्मनः स्वस्य । शरीर न नैव । प्रबभूव प्रभुरभूत् । कस्याप्येतत्पद्यम्, एतेन 'पिता दिलीप' इति व्याख्यानमपास्तम, रघुवंशेऽस्यादर्शनात् । अत्र वंशस्थ छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ ११९ ॥'
इदमवसेयम्-पुत्रमुखस्य दर्शनमालम्बनं, 'चिरा'दिति निर्दिष्टदिशा तत्सम्भवाशानिवर्त्तनानन्तरमिति समयात्यय उद्दीपनं, तदानीमत्युनतत्वमनुभावश्चेति हर्षो व्यज्यते । इति । _ यथा वा-'अवधौ दिवसावसानकाले भवनद्वारि विलोचनं दधाना । अवलोक्य समागतं तदा मा-मथ रामाविकसन्मुखी बभूव ॥' इति अत्र हि प्रतीक्ष्यमाणोऽवसर आलम्बन, तदानीमेव प्रियस्य पुनरागमनमुद्दीपनं, मुखविकासश्वामुभाव इति हर्षोऽभिव्यज्यते । · असूयां लक्षयितुं प्रतिजानीते-अथ हर्षोदाहरणानन्तरम् । असूया लक्ष्यते-२११ असूया...इत्यादिना ।
२११ औद्धत्यादुद्धततया गतिशयेन दुर्जनत्वोत्कर्षेण क्रोधोद्रेकेण वेति भावः । दोषोद्घोषभ्रूविभेदावज्ञाक्रोधेङ्गितादिकृत् । क्रोधेङ्गितं मुखरागादि। आदिना कलहादि । अन्यत्स्पष्टम् । अन्यगुणर्थीनांमन्यस्य गुणर्द्धयस्तासाम् । गुणाश्चर्द्धयश्चेति गुणानामृद्धय इति वा गुणर्द्धयः । असहिष्णुताऽसहिष्णुत्वम् । असूया 'उच्यत' इति शेषः ॥ १९३॥