________________
२२२
साहित्यदर्पणः।
[ तृतीयःअथ व्रीडा
२०९ धाटाभावो ब्रीडा वदनानमनादिकृडुराचारात् । यथा-- 'मयि सकपटं..' इत्यादि, यथा वा'पटाळग्रे पस्यौ नमयति मुखं जातविनया, हठाश्लेषं वाञ्छत्यपहरति गात्राणि निभृतम् । प्रवृत्तेऽपि प्रष्टुं न गदति सखीं पश्यति परं, समुत्ताम्यत्यन्तः प्रथमपरिहासे नववधूः॥ ११८ ॥
अयम्भावः-अत्र मीनकृतोरुविघटनमालम्बनं, सुराङ्गनानां खभावसिद्धं चाञ्चल्यमुद्दीपनं, सम्भ्रमवाञ्चल्यकम्पनान्यनुभावाश्चेत्येवं त्रासोऽभिव्यज्यते। यथा वा-'आलीषु केलीरभसेन बाला मुहुर्ममालापमुपालपन्ती। आरादुपाकर्ण्य गिरम्मदीयां सौदामिनीयां सुषमामयास त् ॥' इति, अत्र हि प्रियस्याकम्मादागमनमालम्वनम्, 'तेन मद्चनं श्रुत'मिनि नायिकागता नायकविषयिणी लनया परिपोषिताऽऽशङ्कोद्दीपनं, पलायनमनुभावश्चेत्येवं त्रासोऽभिव्यज्यते।
बीडां लक्षयितुं प्रतिजानीते-अथ त्रासोदाहरणानन्तरम् । व्रीडा रजा । लश्यते-:.. धाष्टोभावो.. इत्यादिना ।
२०९ दुराचाराषितादाचरणात् । वदनानमनादिकृत् । आदिना वैवण्यादि । धाष्टोभावो घायल्स (कृष्टस्य ( स्तब्यस्य) भाव इति धाष्टय तम्य ) अभावः । व्रीडा । 'उच्यत' इति शेषः । विवृण्वतेऽप्यपरे-'स्त्रीणां पुरुष. मुखावलोकनादेः पुंसां च प्रतिज्ञामापराभवादेरुत्पन्ने । वैवाधोमुखत्वादिकारणीभूतश्चिनवत्तिविशेषो व्रीडा।' इति । स्त्रीणां (पर) पुरुषमुखावलोकनायेव दुराचरणमिति बोध्यम् ।
उदाहरणं दर्शयति-यथा-'मयि सकपटं..' इत्यादि । 'बोध्य मिति शेषः । अयम्भाव:-व्याख्यातपूर्वमिदं पद्यम् , अन्यत्र दत्तदृष्टावपि पत्यौ सकपटं, सस्पृहं च स्वनयनगोचरतां प्रतिपन्ने तम्मिस्तिप्यंगित्येतावता लजाऽपि ध्वन्यते, तथा हि-स्वकपटमवस्थानमालम्बनं, नायकस्य सस्पृहं स्वनयनविषयीभवनमुद्दीपनं, तिर्यग्भवनमनुभावश्चेत्येवं ब्रीडाध्वनिः । न तु-'सलज' मिति लजां द्योतयतीति वाच्यम्, स्फुटं वाच्यत्वात् । इति ।
मा वा भूत्सूदाहरणमिदमित्याह-वाऽथवा | यथा-'पटालग्ने.. इत्यादि।
'पटालग्ने पटे आ समन्तान् लग्नः संसक्तस्तस्मित् । पत्यो 'सती'ति शेषः । जातविनया जात उत्पन्नो विनयोऽनुनयस्तदिच्छेति यावत्, यस्याः सा । मुखम् । नमयति । हठाश्लेषं हठेन बलत्कारेणाश्लेष आलिङ्गनमिति तं तथोक्तम् । वाञ्छति 'पत्यौ सती'ति शेषः । निभृतं तिरोभवितुमवस्थितं यथा भवेत्तथा । 'नभसा निभृतेन्दुने' त्यादिप्रयोगदर्शनान्निभृतशब्दोऽस्तायावस्थितवचनः । गात्राणि । अपहरति स्पृश्यत्वयोग्यतां निवर्तयतीति भावः । प्रष्टुं किमप्यालपन प्रसङ्गोपन्यासाय सहासं कुशलादिज्ञातुमिति भावः । प्रवृत्ते । अपि किं पुनरप्रवृत्त इति भावः । न नैव । गदति । उत्तरं ददातीति भावः । किं तर्हि विधत्त इत्याह-परं केवलम् । सखी सखीमुखम् । पश्यति । तथा-नववधूः। प्रथमपरिहासे। अन्तरन्तःकरणे। समुत्ताम्यप्ति नितान्तं खिद्यति । 'बतोत्ताम्य'ति इति पाठान्तरं, बतेति च हर्षे । अमरुशतके कस्याश्चिन्नववध्वा वर्णनमिदम् । अत्र च शिखरिणी छन्दः, तल्लक्षणं चोक्तं प्राक् ॥११॥
इदं बोध्यम्- नवसङ्ग आलम्बनं, पत्युस्तत्तदीहितमुद्दीपनं, मूकीभवनाद्यनुभावश्चेति व्रीडा ध्वन्यते। यथा वा'कुचकलशयुगान्तर्मामकीनं नखाई सपुलकतनु मन्दमन्दगालोकमाना । विनिहितवदनं मां वीक्ष्य बाला गवाक्षे चकित. नतनताङ्गी सद्म सद्यो विवेश ॥' इति, अत्र हि प्रियस्य दर्शनमालम्वनं तदानीमेव प्रियकृतनखक्षतावलोकनजन्यहर्षावेदकपुल कादिदर्शनमुद्दीपनं सद्यः सद्मनि प्रवेशोऽनुभावश्चेति ब्रीडाऽभिव्यज्यते । यथा वा-निरुध्य यान्तीं तरसा कपोती कूजकपोतस्य पुरो ददाने । मयि स्मिताई वदनारविन्दं सा मन्दमन्दन्नमयाम्बभूव -' इति, अत्र हि प्रियकर्तृकं कपोतस्याग्रे कपोत्याः समर्पणमालम्बनं, कपोत्याश्च कूजन्तमपि कपोतमपहाय यानार्थ चेष्टितमुद्दीपनं, वदननमनमनुभावश्चेति ब्रीडाऽभिव्यक्तिः।