________________
परिच्छेद: ]
अथ व्याधिः
रुचिराख्यया व्याख्यया समेतः ।
यथा
२२१
२०७ व्याधिर्ज्वरादिर्वाताद्यैर्भूमीच्छोत्कम्पनादिकृत् ।
तत्र - दाहमयत्वे भूमीच्छादयः, शैत्यमयत्वे तूत्कम्पनादयः । स्पष्टमुदाहरणम् ।
1
अथ वास:
२०८ निर्घातविद्युदुल्काद्यैस्त्रासः कम्पादिकारकः ॥ १९९ ॥
'परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः । उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ॥ ११७॥ '
व्याधिं लक्षयितुं प्रतिजानीते- अथ मत्युदाहरणानन्तरम् । व्याधिः- लक्ष्यते - २०७
व्याधि..इत्यादिना ।
२०७ वातावति पित्तश्लेष्मप्रियचिरहादिभिरित्यर्थः । भूमीच्छोत्कम्पनादिकृद्भूमेरुपचाराच्छीतल देशस्ये च्छेत्यसौ चोत्कम्पनादीनि चेति, तानि करोतीति तथोक्तः । आदिना श्वसितप्रलपनगात्रप्रक्षेपणादीनि । ज्वरादिरादिनाऽतिसारादिः । व्याधिः । 'उच्यत' इति शेषः ।
अत्रानुभावान् विशेष्य निर्दिशति तत्र तस्मिन् ज्वरादिरूपे व्याधावित्यर्थः । दाहमयत्वे दाहः प्राचुर्येण प्रस्तुतो यत्र तस्य भावस्तत्त्वं तत्र । 'तत्प्रकृतवचने मयट् ।' ५।४।२१ इति मयटू । 'सती'ति शेषः । भूमीच्छाऽऽदयः । आदिना शैवलोशीराद्युपयोगादयः । ' अनुभावा ज्ञेया' इति शेषः । शैत्यमयत्वे शैत्यं प्राचुर्येण प्रस्तुतं भावस्तत्त्वं तत्र । 'सती'ति शेषः । तु पुनः । उत्कम्पनादयः । आदिना जाड्यादीनां ग्रहणम् । 'अनुभावा ज्ञेया ' इति शेषः ।
ननु किमस्योदाहरणमित्याशङ्कयाह - उदाहरणम् । स्पष्टम् । इति ।
इदं बोध्यम् - शरीरसम्बन्धनिबन्धनानामपि ज्वरादीनां ( तापस्य ) मनोमात्र वेद्यतया भावरूपत्वम् । अत एवाहु:'एकैकशो द्वन्द्वशो वा त्रयाणां वा प्रकोपतः । वातपित्तकफानां स्युर्व्याधयो ये ज्वरादयः ॥ इह तत्प्रभवो भावो व्याधिरित्यभिवीयते ।' इति । उदाहरणं यथा - 'हृदये कृतशैवलानुषङ्गा मुहुरङ्गानि यतस्ततः क्षिपन्ती । तदुदन्तपरे मुखे सखीनामतिदीना मियमादधाति दृष्टिम् ॥' इति । अत्र हि प्रियविरह आलम्बनम्, आक्षिप्यमाणो वसन्तादिकालश्चोद्दीपनम्, अस्वास्थ्यं चानुभाव इति व्याधिर्व्यज्यते । इति ।
त्रासं लक्षयितुं प्रतिजानीते - अथ व्याध्युदाहरणानन्तरम् । त्रासो । लक्ष्यते - २०८ निर्घात.. इत्यादिना ।
२०८ निर्घातविद्युदुल्काद्यैर्निर्घातः 'यदाऽन्तरिक्षे बलवान् मारुतो मरुता हतः । पतत्यधः स निर्घातो जायते वायुसम्भवः ॥' इत्युक्तः पवनाघातजन्यः शब्दविशेषः 'निर्घातो भूमिचलने' इत्युक्तदिशा वा भूमिकम्पश्च विद्युदुपचारातदुत्पातश्वोल्का 'बृहच्छिखा च सूक्ष्माग्रा रक्तनीलशिखोज्ज्वला । पौरुषी च प्रमाणेन सोल्का नानाविधा स्मृता ॥' इत्युक्तो गगनान्निपतंस्तेजःपुञ्जश्चेति त आद्या येषां ( सर्पव्याघ्रादीनां ) तैः । कम्पाऽऽदिकारकः । आदिना विस्मयादिः । 'मनः क्षोभ' इति शेषः । त्रासः । 'उच्यत' इति शेषः । 'औत्पातिकैर्मनः क्षोभस्त्रासः कम्पादिकारकः ।' इति पाठान्तरे तु औत्पातिकैरुत्पातसम्बन्धिभिर्निर्घातादिभिरित्यर्थः । उत्पातश्चाकस्मिकी घटना | अन्यत्स्पष्टम् ॥ १९१ ॥
उदाहरति-यथा- 'परि... इत्यादौ ।
'परिस्फुरन्मीनविघट्टितोरवः परिस्फुरन्तो ये मीनास्तैर्विघट्टिताः संश्लेषाभावं प्रापिता ऊरवो यासां ताः । अत एव त्रासविलोलदृष्टयस्त्रासं सम्भ्रमं यथा भवेत्तथा विलोलाचञ्चला दृष्टयो दृष्टिव्यापारा यासां ताः । त्रासेन भयेनेति तु न युक्तम् । एवंमस्य वाच्यत्वापत्तेः । कम्पितपाणिपल्लवाः कम्पिताः पाणिपल्लवा यासां ताः । पाणयः पलवा इति पाणिपल्लवाः । सुराङ्गनाः । सखीजनस्य । अपि किं पुनर्दर्शकान्तरस्य प्रियजनस्य । विलोकनीयतां रमणीयत्वम् । उपाययुः प्रापुः । किरातार्जुनीयस्येदं पद्यम् । अत्र वंशस्थं छन्दः, तल्लक्षणं चोक्तं प्राक् ॥११७॥'.