________________
. [ तृतीयः
साहित्यदर्पणः। अथ मतिः२०६ नीतिमार्गानुसृत्यादे-रर्थनिर्धारणं मतिः ।
स्मेरताधृतिसन्तोषा बहुमानश्च तद्भवाः ॥ १९० ॥ यथा___ 'असंशयं क्षत्रपरिग्रहक्षमा यदाय॑मस्यामभिलाषि मे मनः ।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥ ११६ ॥'
श्वेत्येवं स्मृतिव॑न्यते । यथा वा-'तन्मञ्जु मन्दहसितं श्वसितानि तानि सा वै कलङ्कविधुरा मधुराननश्रीः । अद्यापि मे हृदयमुन्मदयन्ति हन्त सायन्तनाम्बुजसहोदरलोचनायाः ॥' इति । अत्र हि अदृष्टज्ञानमालम्वनं, चिन्ताविशेष उद्दीपनम् , आक्षेपगम्या भ्रून्नतिगात्रनिश्चलत्वादयश्चानुभावा इति स्मृतिव॑न्यते । यथा वा मम-'विकसत्कमलं वीक्षे यदा यदा वा सुधांशुमुद्यन्तम् । सुमुखि ! तदाऽहं तत्र त्वन्मुख इव हन्त लुभ्यामि ॥' इति, अत्र हि कमलं सुधांशुश्चेत्येतवयं त्वन्मुखसदशमिति तस्येक्षणमात्रेण त्वन्मुखस्मृतेरुद्रेके तत्रैव लुभ्यामीत्यभिहितम् , तथा च कमलविकासस्य सुधाकरोदयस्य च युगपदसम्भवात् कमलं सुधाकरो वाऽऽलम्बनं, तयोरेकतरस्य विकास उदयो वोद्दीपनं, 'तत्र त्वन्मुख इव लुभ्यामी' त्यावेद्यमानः खस्य तत्र तथा स्पृहाऽतिशयोऽनुभावश्चेति स्मृतिवन्यते । इति ।
मतिं लक्षयितुं प्रतिजानीते-अथ स्मृत्युदाहरणानन्तरम् । मतिः-लक्ष्यते-२०६ नीति...इत्यादिना । . २०६ नीतिमार्गानुसृत्यादेनीतिमार्गस्य नीतिशास्त्रस्यानुसूतिरनुसरणमित्यसावादिर्यस्य (अनुमानादेः) तस्मात् । अर्थनिर्धारणम् । मतिः । 'उच्यत' इति शेषः । तद्भवास्तस्या भवन्त्युत्पद्यन्त इति ते । स्मरताधृतिसन्तोषाः स्मेरता (मन्दहासान्वितता) च धृतिसन्तोषौ चेति ते । स्मरतेति धृतिसन्तोषाविति पृथकूपाठोऽपि । च तथा । बहमानोऽत्यन्तं वात्मनि गुरुत्वप्रत्ययः । 'सम्भवन्तीति शेषः ॥ १९ ॥
उदाहरति-यथा । 'असंशयं.. इत्यादौ ।
'असंशयं न संशयो यत्र (कर्मणि) तद् यथा स्यात्तथेत्यर्थः । क्षत्रपरिग्रहक्षमा क्षत्रस्य (क्षत्रियस्य) परिग्रहः (विवाहः) तस्य क्षमा योग्या । 'क्षत्रं क्षत्रियराजन्या'इति नाममाला, 'परिग्रहः परिजने पत्न्यां स्वीकारमूलयोः । इति विश्वः । 'इय'मिति शेषः। यद यस्माद्धतोः । आर्य पवित्रम् । मे मम । इदमर्थान्तरे सङ्क्रमितवाच्यम् । तथा चआर्य्यस्य (जितेन्द्रियस्य) दुष्यन्तस्येति निष्कृष्टोऽर्थः । मनः । अस्यामज्ञातकुलायां संशयितकुलायां वा परकन्यायाम् । इदमपि । पूर्ववत् । अभिलाषि । 'जात'मिति शेषः । यद्वा-यत् । आर्य्यम् । मे। मनः । अस्यां (विषये) अभिलाषि । 'तत'इति शेषः । असंशयं निश्चितं यथा स्यात्तथा । 'इय'मिति शेषः । क्षत्रपरिग्रहक्षमा । इस्यन्वयः । न च प्रमाद एवायमिति वक्तुमहसीत्साह-हि यतः । सन्देहपदेषु सन्देहस्य संशयस्य पदानि स्थानानि तद्रूपाणीति यावत् , तेषु । 'पदं व्यवसितत्राणस्थानलक्ष्माविवस्तुषु ।' इत्यमरः । वस्तुषु । विषये सप्तमीयम् । सता. मार्याणाम् । अन्तःकरणप्रवृत्तयः। प्रमाणम् । 'वेदाः प्रमाण' मितिवदुद्दिश्यविधेयभावं कल्पयित्वाऽन्वयोऽ. वगम्यः । शकुन्तलाया अवलोकनमात्रेण तत्र जातायां स्पृहायां 'कथं मुनितनयायामीदृशम्मन'इति गवेषयतो दुष्यन्तस्य 'कृतं सन्देहेने'त्यभिधानान्तरमिदमनुमानम् । अत्र वंशस्थं छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ ११६ ॥
अयम्भावः-स्वात्मनि जितेन्द्रियत्वप्रत्यय आलम्बनं, तनिदिध्यासनमुद्दीपनं, शकुन्तलायामभिलाषा युक्तव जातेत्येवं धृत्यादय आक्षिप्यमाणा अनुभावाश्चेति मतिय॑ज्यते । इति । यथा वा गङ्गाधरकाराः 'शास्त्रादिविचारजन्य. मर्थनिर्धारणं मतिः।' इत्यभिधाय अत्र निःशङ्कतदर्थानुष्ठानसंशयोच्छेदादयोऽनुभावाः । उदाहरणम्-'निखिलं जगदेव नश्वरं पुनरस्मिन्नितरां कलेवरम् । अथ तस्य कृते कियानयं क्रियते हन्त मया परिश्रमः ॥' 'शरीरमेतज्जलबुद्धदोपमं...' इत्यादिशास्त्रपय्यालोचनमत्र विभावः । हन्तपदगम्या खनिन्दा राजसेवाविरतिर्वितृष्णता चानुभावः । झटितिमतेरेव चमत्कारादनिहेतुता न शान्तस्य, विलम्बेन प्रतीतेः । इत्याहुः ।