________________
परिच्छेदः
रुचिराख्यया व्याख्यया समेतः। अथ स्मृतिः-- २०५ सदशज्ञानचिन्ताऽऽद्य-भूसमुन्नयनादिकृत् ।
स्मृतिः पूर्वानुभूतार्थ-विषयं ज्ञानमुच्यते ॥ १८९ ॥ यथा मम'मयि सकपटं किञ्चित्वापि प्रणीतविलोचने किमपि नयनं प्राप्ते तिर्यग्विजृम्भिततारकम् । स्मितमुपगतामाली दृष्ट्वा सलज्जमवाश्चितं कुवलयदृशः स्मेरं स्मेरं स्मरामि तदाननम् ॥११५॥'
अत्रेदं बोद्धव्यम्-नायककृतो नखदन्ताघातः आलम्बनं. तस्य पुनः प्रातः प्रेक्षणमुद्दीपनं, तत्रतत्र चन्दनालेपादि. विधानमनुभावश्चेत्येवं शङ्काऽभिव्यज्यते ।
यथा वा-'विधिवञ्चितया मया न यातं सखि! सङ्केतनिकेतनं प्रियस्य । अधुना बत किं विधातुकामो मयि कामो नपतिनहन्त जाने ॥' इति । अत्र हि कामदेवो नपतित्वेन वर्ण्यमान आलम्बनं, तस्यापराधरूपस्य नि गमनाभावस्य स्मरणमुद्दीपनम्मुखवैवाद्याक्षिप्यमाणमनुभावश्चेत्येवं शङ्काऽभिव्यज्यते ।
स्मृति लक्षयितुं प्रतिजानीते-अथ शङ्कोदाहरणानन्तरम् । स्मृतिः लक्ष्यते-२०५ सदृश.. इत्यादिना ।
२०५ सदृशज्ञानचिन्ताऽऽयैः सदृश (स्य ) ज्ञानचिन्ते आये येषां ( सम्बन्धिज्ञानादीनां ) तैः, सदृशज्ञानं च चिन्ताऽऽये चेति तैरिति वा तथोक्तैः । चिन्ताऽऽद्या ययोः (सम्बन्धिज्ञानादृष्टज्ञानयोः) ते चिन्ताऽऽद्ये । सदशं तद्भिनं सत्तद्गतभूयोधर्मवत् , यथा मुखस्य कमलम् । ज्ञानं बुद्धिः । चिन्ता ज्ञानजन्या भावना; एवं च ज्ञानस्य भावनो. द्वोधनद्वारा भावनायाश्च साक्षात् कारणत्वमिति ध्वनितम् । सम्वन्धि यथा मुखस्य भाषणं, कमलस्य भ्रमरादि वा । अदृष्टं प्रारब्धम् 'बुद्धिरनुभव' इति 'भावना संस्कार' इति चानान्तरम् । एवं च-'अनुभवजन्या स्मृतिहेतुर्भावना' इति, 'संस्कारजन्य ज्ञान' मिति च स्थाने । भ्रूसमुन्नयनादिकृत् । नेत्रादिविकारादि । पूर्वानुभूतार्थविषयं पूर्वमनुभूतो योऽर्थः पदार्थः स एव विषयो यस्य तत् । ज्ञानम् । स्मृतिः । उच्यते ॥ १८९ ॥
उदाहरति-यथा । मम । 'मयि... इत्यादौ ।
'वापि कस्मिंश्चित्कमल' इति शेषः । किञ्चित् । प्रणीतविलोचने प्रणीते प्रवर्तिते विलोचने (विशिष्टे सस्पृहत्वाद्विस्फारं प्राप्ते लोचने) येन तादृशे। मयि 'नायक' इति शेषः । सकपटं 'मधुपः कमलमिव माऽयं मां पा' दिति कपटपूर्वकं सन्निधीयमानमिति भावः । अथ-विज़म्भिततारकं विजृम्भिता सस्पृहं व्यापादिता तारका यस्मिन् कर्मणि तत्तथा । किमपि किञ्चित् , अनिर्वचनीयं वा । नयनं 'नायिकाया' इति शेषः । नायिकाया नयनविषयतामित्यर्थः । प्राप्ते 'मयी'ति शेषः । तिर्यक् तिर्यग्भूतमित्यर्थः । अत एव-स्मितं ( आवयोर्भावमुन्नीय ) मन्दहासम् । उपगतां प्राप्ताम् । आली सखीम् । दष्ट्रा । सलज्ज लज्जया सहितं यथा स्यात् तथा। अवाचितमानमितम् । तत् मनोविजयत्वेनाहादयमानम् । कुवलयदशः कुवलयवन्नीलकमलवदृशौ यस्यास्तस्याः । 'कुवलयमिन्दीवरं च नीलाब्जम् ।' इति नाममाला । 'प्रियाया' इति शेषः । स्मेरमीषद्धास्ययुक्तम् । अत एव-स्मेरं विकसितम् । आननं मुखम् । स्मरामि । मरुता पारभूयमानेनापि मधुपेन पुनःपुनर्निपीयमानं कमलं विलोक्य तथैव प्रियाया वदनं पातुं जातायां स्पृहायां कदाचिदनुभूतं प्रियायाः स्मितोद्गारं स्मरतः कस्याप्युक्तिरियम् । अत्र हरिणी छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ ११५॥
अत्रायम्भाव:-मधुपेन निपीयमानं कमलं दृष्टा प्रियाया वदनं पातुं स्पृहाऽऽसीदित्येतावता स्मृति+न्यते, इति सहदयाः; न तु स्मरामीत्यनेन, तथा तस्यावाच्यत्वाञ्चमत्कारानुदयाच्च । तथा च-कमलं वदनसदृशमिति कमलं दृष्टोद्धया भावनया वदनं स्मृनं, स्वसदृशं च मधुपपानमिति मधुपेन क्रियमाणं पानं दृष्ट्वोसुद्धया भावनया पानं स्मृतमिति कमलं वदनस्मृतौ मधुपपानं पुनः स्वपान आलम्बनं, प्रियासनिधिश्चोद्दीपनं, विज़म्भिततारकं यथा भवेत्तथा पातुं प्रवृत्तिरनुभाव