________________
२१८
साहित्यदर्पणः।
-
[तृतीयः
यथा मम'भ्रातर्द्धिरेफ ! भवता भ्रमता समन्तात प्राणाधिका प्रियतमा मम वीक्षिता किम् ? ।
(अङ्कारमनुभूय-सानन्दम्) षे किमोमिति ? सखे ! कथयाशु तन्मे किंकि व्यवस्यति ? कुतोऽस्ति ? घ कीदृशीयम् ॥११३॥' अथ शङ्का२०४ परक्रौर्यात्मदोषायैः शङ्काऽनर्थस्य तर्कणम् ।
वैवर्ण्यकम्पवैस्वर्य--पार्शलोकास्यशोषकृत् ॥ १८८ ॥ यथा मम'प्राणेशेन प्रहितनखरेष्वङ्गकेषु क्षपाऽन्ते जातातङ्का रचयति चिरं चन्दनालेपनानि । धत्ते लाक्षामसकृदधरे दत्तदन्तावधाते क्षामाङ्गीयं चकितमभितश्चक्षुषी विक्षिपन्ती ॥११४॥'
उदाहरति-यथा । मम 'भ्रातदिरेफ..इत्यादौ । . 'हे भ्रातर्घातृवत्स्वाभाविकबन्धो इति भावः । द्विरेफ श्रमर : समन्तात्सर्वतः । भ्रमता भ्रमण कुर्वता भ्रमणकरणशीलेनेति यावत् । भवता। आदरोक्तिरियम् । किम्। मम । तव बन्धोरिति भावः । प्राणाधिका प्राणेभ्योऽधिकाऽतिशयिता। अत एव-प्रियतमाऽत्यन्तं प्रिया। वीक्षिता दृष्टा! (अङ्कारं झमित्यव्यक्तं शब्दम् । अनुभूय विज्ञाय । सानन्दम् ) किम् । ओमेवं स्वीकरोमीति यावत् । 'ओमेवं परमं मतम् ।' इत्यमरः। इतीत्येवम् । षे ? सखे! तत्तर्हि । मे मह्यम् । आशु । कथय । इयं मम प्रियतमा। किंकिम् । अत्र सम्भ्रमेण द्विरुक्तिः । व्यवस्यति निश्चिनोति । कुतः कुन । अस्ति? च तथा। कीदृशी किंवरूपाऽस्तीति भावः । अत्र वसन्ततिलका छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ ११३॥'
इदम्बोध्यम्-प्रियावियोग आलम्बनं, स्मय॑माण च तत्सौन्दर्यमुद्दीपन, ममा प्रति प्रश्नोऽनुभावश्चत्येवमुन्मादोऽ. भिव्यज्यते।
यथा वा-' का त्वं चिकीर्षसि च किं मुनिवयं ! शैले मायाऽसि काऽपि भगवत्परदेवतायाः । विज्ये विभाः धनुषी सुहृदात्मनोऽर्थे किं वा मृगान्मृगयसे विपिने प्रमत्तान् ॥' इत्यादौ।
शको लक्षयितुं प्रतिजानीते-अथोन्मादोदाहरणानन्तरम् । शङ्का । लक्ष्यते-२०४ पर..इत्यादिना ।
२०४ परक्रौर्यात्मदोषाद्यैः । आद्यपदेन दुर्दैवादीनां ग्रहणम् । वैवर्ण्यकम्पवैस्वयंपा लोकास्य शोषकृत् । अनर्थस्य । तर्कणं सम्भावना । शङ्का । 'मते'ति शेषः ॥ १८८ ॥
उदाहरति-यथा । मम । 'प्राणेशेन..इत्यादौ ।
'क्षपान्ते क्षपाया अन्तोऽवसानं तस्मिन्सति । जातातङ्का जात आतङ्कः पीडा सन्तापो वा यस्याः सा । 'रुक्तापशङ्कास्वातङ्क' इत्यमरः । अत:-क्षामाङ्गी क्षामाणि क्षीणानि कृशा दुर्बलता वा प्राप्तान्यङ्गानि यस्याः सा। इयम् । 'प्रिय'ति शेषः । प्राणशेन प्राणानामीशो निग्रहानुग्रहकर्मणि समर्थः, यत्कृते प्राणा अपि तुच्छास्तादृश इति वा, तेन । प्रहितनखरेषु प्रहिता(नि) न्यस्ता(नि) नखरा(णि) नखा(नि) उपचारेण तदाघातचिहानि यत्र तेषु । अङ्केषु स्वल्पानि कृशतया कोमलतया वाऽङ्गानि तेषु । 'अल्पे।' ५।३।८५ इति कन् । चन्दनालेपनानि चन्दनस्यालेपनानि समन्ताल्लेपव्यापारास्तानि । चिरं शङ्कायाः पुनःपुनराविर्भावाद्दीर्घसमयावधीति भावः । रचयति विधत्ते। दत्तदन्तावघाते दत्तो दन्तावघातो यत्र तत्र । अधरे। चकितं यथा भवेत्तथा। अभितः सर्वतः । चक्षषी नेत्रे। विक्षिपन्ती 'सती'ति शेषः । असकृद्वारंवारम् । लाक्षामुपचारात् तद्रसमिति भावः। धत्ते निधत्ते सिञ्चतीति यावत् । मुग्धेयं नायिका। एतस्याश्चेष्टां निदर्शयन्त्या नायिकासख्या नायकं प्रत्युक्तिः। अत्र मन्दाक्रान्ता छन्दः, तल्लक्षणं चोक्तं प्राकृ॥११४॥'