________________
२१७
परिच्छेदः ].
रुचिराख्यया व्याख्यया समेतः।। अथौत्सुक्यम्२०२ इष्टानवाप्तेरौत्सुक्यं कालक्षेपासहिष्णुता ।
चित्ततापत्वरास्वेद-दीर्घनिःश्वसिताऽऽदिकृत् ॥ १८६ ॥ यथा-'यः कौमारहरः स एव हि वरः...'इत्यादि।
भत्र यत् काव्यप्रकाशकारेण रसस्य प्राधान्यमित्युक्तं तद्रसनधर्मयोगित्वाद् व्यभिचारिभावस्यापि रसशब्दवाच्यत्वेन गतार्थ मन्तव्यम्। .. अथोन्मादः२०३ चित्तसम्मोह उन्मादः कामशोकमयादिभिः ।
अस्थानहासरुदित--गीतप्रलपनादिकृत् ॥ १८७ ॥ औत्सुक्यं लक्षयितुं प्रतिजानीते-अथ । औत्सुक्यम् । 'लक्ष्यते-२०२ इष्टा...इत्यादिना ।
२०२ इष्टानवारिष्टस्य (प्रियसङ्गमादेः) अनवाप्तिः प्राप्यभावस्तस्याः । चित्तंतापत्वरास्वेददीर्घनिःश्वसितादिकृत् । आदिनेतस्ततो विलोकनादि । कालक्षेपासहिष्णुता कालस्य क्षेपोऽत्ययस्तस्यासहिष्णुताऽसहन. शीलत्वम् । औत्सुक्यम् । 'मत'मिति शेषः ॥ १८६ ॥
उदाहरणं दर्शयति-यथा-'यः कौमारहरः स एव हि वरः...'इत्यादि । 'तथाऽन्यदप्युदाहरणं द्रष्टव्य'मिति शेषः ।
इदं तत्त्वम्-नायकेन समं विलासस्य कियन्त समयमभाव आलम्बनं वसन्तायुद्दीपन, तस्यतस्यानुगुण्योद्भावनमनुभावश्चेत्येवमौत्सुक्यं प्रतीयते । इति । - ननु यदिह भावस्यास्यैवाभिव्यक्तिः कथं तर्हि काव्यप्रकाशकारै रसस्य च प्राधान्यानालङ्कारते'त्युक्तमिति चेदेवमित्याह- अत्रास्मिन्नुदाहृते पद्य इति यावत् । काव्यप्रकाशकारेण मम्मटाचार्येण । रसस्य । प्राधान्यम् । इतीत्येवम् । यत् । उक्तम् । तद्रसस्य प्राधान्यमिति वच इत्यर्थः । रसनधर्मयोगित्वाद रसनधर्मस्य ( 'रस्यत आस्वाद्यत' इति रसनं तदेव धर्मस्तस्य) योगित्वं योगस्तस्मात् । व्यभिचारिभावस्य व्यभिचारिभावरूपस्यास्यौत्सुक्यस्थेत्यर्थः । अपि । रसशब्दवाच्यत्वेन । गतार्थ गतः सम्पन्नोऽर्थस्तात्पयं यस्य तत् । मन्तव्यम् । तथोक्तं'रसपदं चात्र सम्भोगव्यभिचायॊत्सुक्यमाह-रस्यतआखाद्यत'इति व्युत्पत्त्या, न तु सम्भोगनामा रसः, खाधीनपतिकायाः क्रीडास्थानं प्रत्यौत्सुक्यस्य वर्णनीयत्वा'दिति । एवं च-'अत्र विप्रलम्भो रस'इति व्याचक्षाणा अपि परास्ताः, 'स एव हि वर'इत्यादिना नायकस्य तदानीं तत्रैवावस्थानाद्विप्रलम्भस्य वक्तुमशक्यत्वात् । अयम्भावः-'रस्यत आखाद्यत इति व्युत्पत्त्यौत्सुक्यस्यापि रसस्येव रसनाख्यधर्मविशिष्टत्वम् । युज्यते चैवौत्सुक्यस्य च प्राधान्या'दित्यनभिधाय 'रसस्य च प्राधान्यादित्य'भिधातुम् । इति ।
यथा वा मम-'उदियाद् यदि चन्द्रमाः सदा यदि वा चण्डको विलीयताम् । दयितं विज़हातु का पुनः सुखिता वा न चिराय का भवेत् ॥' इति । दयितविरह आलम्बनं, चण्डकरस्य तत्र हेतुत्वमुद्दीपनं, तदिति चण्डकरस्य विलयार्थ चन्द्रमसः पुनरुदयार्थमाशंसनमनुभावश्चेत्येवमौत्सुक्यमभिव्यज्यते ।
उन्मादं लक्षयितुं प्रतिजानीते-अथौत्सुक्योदाहरणानन्तरम् । उन्मादः। लक्ष्यते-२०३ चित्त..इत्यादिना। -
२०३ कामशोकभयादिभिः। आदिना परमानन्दादि । अस्थानहासरुदितगीतप्रलपनादिकृत । आदिना-असम्बद्धभाषणादि । चित्तसम्मोहश्चित्तस्य सम्मोहोऽन्यस्मिन्नन्यावभासरूपो मोहः। उन्मादः 'उच्यत' इति शेषः । अत्राहुः-'उन्मादस्य व्याधावन्त वे सम्भवत्यपि पृथगुपादानं व्याध्यन्तरापेक्षया वैचित्र्यविशेषस्फोरणाय ।' इति । ॥ १८७ ॥
२८