________________
साहित्यदर्पणः।
[ तृतीयः
यथा'सार्थकानर्थकपदं युवती मन्थराक्षरम् । प्रियाऽर्धमीलिताक्षी सा लिखितेवास्ति मे हदि॥१११॥' अथावहित्था
२०१ भयगौरवलज्जाऽऽदे-हर्षाद्याकारगुप्तिरवहित्था ।
व्यापारान्तरसक्त्य-न्यथाऽवभाषणविलोकनादिकरी ॥ १८५ ॥ यथा'एवंवादिनि देवर्षों पावे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥ ११२ ॥
उदाहरति-यथा-'सार्थका..'इत्यादौ ।
'सा प्रस्तुतसौन्दर्यप्रशंसेति भावः । सार्थकानर्थकपदं सार्थकानि चानर्थकानि चेति तानि पदानि यत्र तद्यथा भवेत्तथा । मन्थराक्षरं मन्थराणि मन्दमुच्चार्यमाणानि अक्षराणि यत्र तद्यथा भवेत्तथा। बुवती कथयन्ती सतीत्यर्थः । अर्धमीलिताक्षी। प्रिया । 'निद्रा मीलिताक्षी'ति तु न युक्तम् । उदाह्रियमाणस्य भावस्य वाच्यत्वापत्तेः । मे मम । हदि वक्षसि । लिखितेव । अस्ति । 'वर्तमानसामीप्ये वर्तमानवद्वा । ३।३।१३१ इत्यासीदित्यर्थे । 'आसे ति पाठे तु रराजेत्यर्थः । आमोदे चित्तविक्षेपाल्लिड्डा अत्र श्लोकश्छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ १११॥' .
अयम्भावः-विपरीतरतिरालम्बनं, प्रियं पराजेतुमुत्कण्ठोद्दीपनं, सार्थकानर्थकमन्थराक्षरोच्चारणपुरःसरं वक्षसि लिखितवदवस्थानमनुभावश्चेति निद्राऽभिव्यज्यते।
यथा वा-'सा मदागमनहिततोषा जागरेण गमिताखिलदोषा । बोधिताऽपि बुबुधे मधुपैर्न प्रातराननजसौरभलुब्धैः॥' इति । अत्र हि रात्रिजागरणमालम्बनं, तत् वेद उद्दीपनं, बन्दिभिरिव मधुपैर्बोध्यमानाया अपि बोधाभावोऽनुभाव इति निद्राऽभिव्यज्यते ।
अवहित्था लक्षयितुं प्रतिजानीते-अथ निद्रोदाहरणानन्तरम् । अवहित्था लक्ष्यते-२०० भय...इत्यादिना ।
२०१ भयगौरवलजादेः। आदिना धाष्टर्यादेमंहणम् । तथोक्तम्-'अनुभावपिधानार्थेऽवहित्थं भाव उच्यते । तद्विभाव्यं भयव्रीडाधाष्टयकौटिल्यगौरवैः ॥' इति । व्यापारान्तरसक्ति व्यापारान्तरे सक्तिरासक्तिर्यत्रासो यथा भवेत्तथा । अन्यथा प्रकारान्तरेण । अवभाषणविलोकनादिकरी। आदिना भ्रमणादीनां ग्रहणम् । हर्षाद्याकारगुप्तिहर्षादीनाकारयत्या विष्करोतीति, तस्य (मुखविकासादेः) गुप्तिर्गोपनम् । 'कर्मण्यण् ।' ३।२।१ इत्यण् । 'आदिना शोकादीनां प्रहणम् । अवहिस्था । 'उच्यत' इति शेषः । गीतिश्छन्दः, तल्लक्षणं चोक्तं प्राक् ॥१८५॥
उदाहरति- यथा-'एवं... इत्यादौ ।
'एववादिनि निर्दिष्टप्रकारेण कथयति सतीति भावः । देवर्षा वङ्गिरसी'ति शेषः । पितुहिमालयस्ये 'ति शेषः । पान्। अधोमुखी 'लोकलज्जाभयेने ति शेषः । पार्वती। लीलाकमलपत्राणि लीलायाः कमलं तस्य पत्राणीति तानि । गणयामास संचख्यौ । शङ्करेण समं विवाहार्थमङ्गिरसा देवर्षिणा याच्यमाने स्वपितरि प्रमोदव. शात्तदन्तिकं च हातुमशक्ता लज्जयाऽधोमुर्ख भूय लीलार्थ धृतस्य कमलस्य पत्रगणनव्याजेन तदनुमोदने स्वहर्ष जुगोपेति भावः । कुमारसम्भवस्येदं पद्यम् । श्लोकश्छन्दः, लक्षणं चोक्तं प्राक् ॥ ११२॥' .
अत्रायम्भावः-शङ्करगता रतिरालम्बनं, देवर्षेस्तदर्थो यत्न उद्दीपनं, तत्र स्वानुमतिव्यजनार्थमवस्थानमनुभाबस्तदिति व्यजमानस्य हर्षस्य लीलार्थ धृतस्य कमलस्य पत्रगणनया गोपनादवहित्थाऽभिव्यज्यते । . यथा वा महावीरचरिते रावणस्य मन्दोदUः पुरस्ताद्भयस्य धाष्टपैन गोपनम्, मेषधे च श्रीनलस्य सभायो दमयन्तीविषयकानुरागस्य मूर्च्छनादिना । एवमन्यत्रापीति दिक् ।