________________
परिच्छेदः ]
अथामर्ष:
रुचिराख्यया व्याख्यया समेतः ।
१९९ निन्दाऽऽक्षेपापमानादे-रमर्षोऽभिनिविष्टता । नेत्ररागशिरःकम्प - भ्रूभङ्गोत्तर्जनादिकृत् ॥ १८३ ॥
यथा
'प्रायश्चित्तं चरिष्यामि पूज्यानां वो व्यतिक्रमात् । न त्वेवं दूषयिष्यामि शस्त्रग्रह महाव्रतम् ॥ ११०॥' अथ निद्रा
२०० चेतःसम्मीलनं निद्रा, श्रमक्कममदादिजा ।
२१५
जृम्भाऽक्षिमीलनोच्छ्रास-- गात्रभङ्गादिकारणम् ॥ १८४ ॥
अम लक्षयितुं प्रतिजानीते - अथेत्यादिना ।
अथ मरणोदाहरणानन्तरम् । अमर्षः । 'लक्ष्यते .. १९९ निन्दा.. इत्यादिना ।
1
१९९ निन्दाऽऽक्षेपापमानादेः । निन्दा दोषोद्भावनम् आक्षेपो भर्त्सनम्, अपमान स्तिरस्कारः, आदिनाsनिष्टाचरणानन्तरम् । नेत्र रागशिरःकम्पभ्रूभङ्गोत्तर्जनादिकृत् नेत्र (योः) रागश्च शिरः (सः) कम्पश्च भ्रू (भ्रुवोः ) भङ्गश्वोत्तर्जनादि चेति तानि करोतीति तथोक्ता । रागो रक्तवर्णत्वम्, भङ्गः कौटिल्यम् | आदि परुषीत्यादिप्राहकम् । रज्जनं रागः । 'भावे ।' ३।३।१८ इति घञ् । 'घञि च भावकर्मणोः । ६।४।२७ इति नलोपः । 'भङ्गस्तरने भेदे च रुग्विशेषे पराजये । कौटिल्ये भयविच्छित्यो 'रिति हैमः । अभिनिविष्टताऽभिनिवेशो ऽत्यन्तमाग्रहः । अमर्षः । ' मत ' इति शेषः ॥ १८३ ॥
उदाहरति यथा- 'प्रायश्वित्तं... इत्यादी ।
पूज्यानां पूजार्हाणाम् । वो युष्माकम् । ' वसिष्टशतानन्दविश्वामित्राणामिति शेषः । व्यतिक्रमात् प्रतिकूलाचरणात् । 'प्रतं भजस्व पन्थानम् ।' इत्यादिरूपाया अनुज्ञाया अनाचरणं कृत्वेति भावः । प्रायश्चित्तं प्रायस्य पापस्य चित्तं शोधनमिति तत् । ' प्रायः पापं विजानीयाचित्तं तस्य विशोधनम् ।' इति स्मरणम् । 'प्रायस्य चित्तिचित्तयोः ।' इति सुडागमः । चरिष्याम्याचरिष्यामि । न तु न पुनरित्यर्थः । शस्त्रग्रहमहाव्रतं शस्त्र (स्य ) प्रह एव महाव्रतमवश्यमनुष्ठेयमिति तत् । महच्च तद् व्रतमिति महाव्रतम् । एवं युष्माकमभ्यनुज्ञामात्रेणेति भावः । दूषयिष्यामि । महावीरचरिते जामदग्न्यस्येयमुक्तिः । अत्र लोकश्छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ ११० ॥'
अयम्भावः- शैवस्य धनुषो भङ्ग आलम्बनं, तस्य क्षत्रियकुमारकर्त्तृकत्वमुद्दीपनं, पूज्यानामप्यनुज्ञाननुपालनमनुभावश्वेत्येवममर्षोऽभिव्यज्यते । अत्र च - 'लाक्षागृहानल - विषान्न - सभाप्रवेशः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य । आकृष्य पाण्डववधू- परिधान-केशान् स्वस्था भवन्तु मयि जीवति धार्त्तराष्ट्राः ॥ इत्युदाहरणमपि लभ्यते । परिधानं च केशाश्चेति तान् । 'स्वस्था भवन्त्विति काकूक्तिः तथा च ' मा भूवनस्वस्था' इत्यर्थः । यद्वा-स्वः स्वर्गे तिष्ठन्तीति स्वस्थाः । ‘खर्परे शरि वा विसर्ग लोपो वक्तव्यः * ।' इति विसर्जनीयलोपः । तथा च स्वर्गे स्थिता भवन्तु म्रियन्तामित्यर्थः । मयि भीमसेन इत्यर्थः । अन्यत्पुरस्ताद् व्याख्यास्यते ॥ '
निद्रां लक्षयितुं प्रतिजानीते - अथेत्यादिना ।
अथामर्षोदाहरणानन्तरम् । निद्रा । लक्ष्यते - २०० चेतः.. इत्यादिना ।
२०० श्रमक्कममदादिजा । श्रमो व्यापारप्रयासः क्लमो मनःखेदः, मदो मद्यादिपानजन्यो विकार: । दिना राज्यादीनां ग्रहणम् । जृम्भाऽक्षिमीळनोच्छासगात्रभङ्गादिकारणम् । आदिना व्यापारान्तरेऽनुत्साहादि । चेतः सम्मीलनं चेतसो मध्यनाडीप्रवेशेन निश्चलत्वम् । निद्रा । 'मते 'ति शेषः ॥ १८४ ॥