________________
साहित्यदर्पणः।
[ तृतीयः
अथालस्यम्
१९८ आलस्यं श्रमगर्भायै-डियं जृम्भासितादिकृत् ॥ १८२ ॥ यथा'न तथा भूषयत्यङ्गं न तथा भाषते सखीम् । जृम्भते मुहुरासीना चाला गर्भभराकुला १०९॥'
संयोगस्य हेतुत्वात् । उदाहरणम्-'दयितस्य गुणाननुस्मरन्ती शयने सम्प्रति या विलोकिताऽऽसीत् । अधुना खलु इन्त सा कृशाङ्गी गिरमजीकुरुते न भाषिताऽपि ॥' प्रियविरहोऽत्र विभावः । वचन विरामोऽनुभावः । हन्तपदस्यात्रात्यन्तमुपकारकत्वाद्वाक्यव्यङ्गयोऽप्ययं भावः पदव्यङ्गयतामावहति । एतेन भावस्य पदव्यङ्गथतायां नात्यन्तं वैचित्र्यमिति परास्तम् । दयितस्य गुणाननुस्मरन्तीत्यनेन व्यज्यमानं चरमावस्थायामपि तस्या दयितगुणविस्मरणं नाभूदिति वस्तुविप्रलम्भस्य शोकस्य वा चरममभिव्यक्तस्य पोषकम् । अयं च भावः । खव्यन्नकवाक्योत्तरवर्तिना वाक्यान्तरेण . सन्दर्भघटकेन नायिकादेः प्रत्युज्जीवनवर्णने विप्रलम्भस्य, अन्यथा तु करुणस्य पोषक इति विवेकः । कवयः पुनरमुं प्राधान्येन न वर्णयन्ति, अमङ्गलप्रायत्वात् ॥"इति । 'साक्षादपिस्थाने, भवन्तु चित्तवृत्तिरूपा भावाः, 'विषयाभिनिवेशेन नात्मानं यत्स्मरेत्पुनः । जन्तोः कस्यचिद्धतोम॑त्युरत्यन्तविस्मृतिः ॥' इत्यायुक्तदिशैतत्स्थूलशरीरसम्बन्धत्यागेऽपि यावल्लिङ्गशरीरं तावदस्यापि चित्तवृत्त्यात्मकत्वं निर्बाधम् । अत एवोक्तं 'मृत्युरत्यन्तविस्मृति'रिति । अन्यथा महतामपि तेषांतेषां तदातदा मूर्छा मरणमिति स्मृतिं लेभे।' इत्यन्ये ।
आलस्यं लक्षयितुं प्रतिजानिते-अथ मरणोदाहरणानन्तरम् । आलस्यं । लक्ष्यते-१९८ आलस्यं.. इत्यादिना ।
१९८ 'श्रमगर्भायैः श्रमश्च गर्भश्चेति तावाद्यौ येषां (जागरणादीनां) तैः । श्रमोऽध्वगमनादिना क्लान्तत्वं, गर्भो गर्भे बालधारणम् , उपचारात्तेन क्लमः । जृम्भाऽऽसितादिकृत् । आसितमेकत्र स्थितिः । आदिनाऽङ्गपतनादि । जाधम् । आलस्यम् । तदुक्तम्-'अतिवृप्तिगर्भव्याधिश्रमादिजन्या चेतसः क्रियाऽनुन्मुखताऽऽल-' स्यम् । 'अत्र च नासामर्थ्यम् । नापि कार्याकार्यविवेकशून्यत्वम् । तेन कार्याकरणरूपस्यानुभावस्य तुल्यत्वेऽपि ग्लानेन्डतायाश्चास्य भेदः ।' इति ॥ १८२॥
उदाहरति-यथा-'न तथा... इत्यादौ ।
'गर्भभराकुला गर्भस्य कुक्षिस्थबालस्य भरो भारस्तेनाकुला खिन्नेति तथोक्ता । एतेन शिरसि निहितो भारोऽ. पनेतुमपि कदाचिच्छक्यते, तेन न तथा क्लेशो यथाऽनेनेति युक्तमस्या आकुलात्वमिति सूचितम् । ‘गों भ्रूण इमो समो।' इत्यमरः । बाला न तु प्रगल्भा । आसीना। 'आस्' उपवेशने । 'लक्षणहेत्वो: क्रियायाः ।' ३१२।१२६ इति शानच् । 'ईदासः ।' १२१८३ इतीत्त्वम् । मुहुः पुनःपुनः । 'यथे'ति शेषः । ज़म्भते मुखं व्यादत्ते । तथा। भद्रं शरीरं करचरणादिरूपं शरीरावयवं वेति भावः । 'अझं गात्रे प्रतीकोपाययो: पुम्भूम्नि नीति । क्लीबैकत्वे त्वप्रधाने त्रिष्वङ्गवति चान्तिके ॥' इति मेदिनी। न नैव । भूषयति। तथा। सखीम्। 'अपी'ति शेषः । न नैव । भाषते। यद्यपि कदाचित् सख्यादीनामाप्रहान्माङ्गल्यचिह्नत्वाद्वाऽङ्गमपि भूषयति सखीमपि भाषते किन्तु यथा मुहुरूपविशन्ती जृम्भते तथा नेति भावः । अत्र श्लोकश्छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ १०९॥'
इदं बोध्यम्-बालाया बाल्यमालम्बनं, गर्भभराकुलात्वमुद्दीपनं, जम्भणं चानुभाव इत्येवोदासीन्यमभिव्यज्यते ।
यथा वा मम-'युधि साम्प्रतमेव वीक्षिता ये शितशस्त्रा रुषिता समुन्नदन्तः । विनमन्त इवापि शेरतेऽमी बत हा मुख विमुच नाथ ! शाम् ि ॥' इति शार्जिणोऽवलोकनमालम्बनं, शाङ्गतो वाणानां निपल्यनिपत्याहननमुद्दीपनं, भुवि शयनमनुभावश्चेत्येवं मरणमभिव्यज्यते।