________________
२१३
परिच्छेदः]
सचिराख्यया व्याख्यया समेतः। अथ मरणम्
१९७ शराधैमरणं जीव-त्यागोङ्गपतनादिकृत् । यथा
'राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी । गन्धवगुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥ १०८ ॥'
यथा वा-'दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः करिण्यः कारुण्यास्पदमसमशीला: खलु मृगाः । इदानी. लोकेऽस्मिन्ननुपमशिखानां पुनरय नखानां पाण्डित्यं प्रकटयत कस्मिन्मृगपतिः ॥' अत्र हि स्वं मृगपतिमिबादान्तपराक्रममभिमन्यमानस्य पण्डितराजस्येयमुक्तिरिति स्वस्यासाधारणताभिमान आलम्बनं, स्वसदशानां च ध्रुत्यवशेषत्व. मुद्दीपनमधिगम्यमानानां च तुच्छत्वबुद्धयाऽवज्ञादर्शनमनुभावश्चेत्येवं गर्वोऽभिव्यज्यते । अत्राहुः पण्डितराजा:-उत्साहप्रधानो गूढगर्वो हि वीररसध्वनिः, अयं तु गर्षप्रधान इति तस्मादस्य विशेषः । तथाहि वीररसप्रसङ्गे प्रागुदाहृते-'यदि वक्ति गिरां पतिः स्वयं, यदि तासामधिदेवताऽपि वा । अयमस्मि पुरो हयाननस्मरणोल्लवितवाङ्मयाम्बुधिः ॥' इत्यादि (इति) पद्ये गीपतिना गिरामधिदेवतयाऽपि साकमहं वदिष्यामीति वचनेनाभिव्यक्तस्योत्साहस्य पारपोषकतया स्थितः सर्वेभ्यः पण्डितेभ्योऽहमधिकः । न तु प्रकृतपद्य इव नास्त्येव महीतले मदन्य इति स्फुटोदितेन सोलण्ठवचनेना नुभावेन प्राधान्येन प्रतीयमानः ।' इति दिक् ।
भरणं लक्षयितुं प्रतिजानीते-अथ गर्वोदाहरणानन्तरम् । मरणं लक्ष्यते-१९७ शराद्यै..इत्यादिना । ।
१९७ शराद्यैः । अत्र शरपदं शस्त्रमात्रस्योपलक्षकाम । आयपदं च रोगाधःप्रपातादीनां प्राहकम् । करणे तृतीया । अङ्गपतनाऽदिकृत् । अङ्गस्य शरीरस्य पतनादि, तत् करोतीति तथोक्तः । आदिना नेत्रादीनां लयः । जीवत्यागो जीवस्य त्यागो वर्जनमिति तथोक्तः । 'जीवोऽसुधारणम् ।' इत्यमरः । 'त्यागो दाने च वर्जने' इति मेदिनी। मरणम् । 'मत' मिति शेषः ।
उदाहरति-यथा-'राम.. इत्यादौ। .
'दुःसहेन दुःखेन सह्यत इति तेन । 'ईषदुःसुषु कृच्छाकृच्छ्रार्थेषु खल् ।' ३।३।१२६ इति खल् । राममन्मथशरण रामो मन्मय इवेति राम एव मन्मथ इति वा तस्य शरो बाणस्तेन मन्मथसशस्य रामस्य रामरूपस्य वा मन्मथस्य (कामस्य) शरेणेत्यर्थः । हृदये मनसि वक्षसि वा । 'हृदयं मानसे बुक्कोरसोरपि नपुंसकम् ।' इति मेदिनी। ताडिता । प्रहृता । अत एव-गन्धवद्रुधिरचन्दनोक्षिता प्रशस्तो गन्धोऽस्यास्तीति, गन्धवद् यद्रुधिरचन्दनं रुधिरस्य कुडकुमस्य चन्दनं रुधिरं चन्दनमिवेति वा तेनोक्षिता सिक्ता लिप्ता वेति तथोक्ता । 'रसादिभ्यश्च ।' ५२।९५ इति
। 'मादुपधायाश्च मतोर्वोऽयवादिभ्यः ।' ८९ इति मस्य वः । 'रुधिरं कुडकुमासृजोः।' इति विश्वः । सा प्रस्तुतवर्णना। निशाचरी । राक्षसी निशायामभिसारिका वा। जीवितेशवसतिं जीवतेशो यमः प्रियो वा तस्य वसतिः स्थानमिति ताम् । 'प्रियार्की जीवितेशाना' विति गोपालः । 'वसतिः स्यात्स्त्रियां वासे यामिन्यां च निकेतने ।'. इति मेदिनी। जगाम । रघुवंशस्येदं पद्यम् । अत्र बीभत्स: शृङ्गारश्चेति रसद्वयी । तत्राद्यः प्रकृतानुप्रसक्तः, अन्त्यस्तु केवलं कविना प्रत्यायित एव । रथोद्धता छन्दश्च, तल्लक्षणं चोक्तं प्राक् ॥ १०८ ॥'
अत्रेदं बोध्यम्-शराघात आलम्बनं, तस्य दुःसहत्वमुद्दीपनं, रुधिरोक्षितत्वमनुभावश्चेत्येवं मरणमभिव्यज्यते ।
अत्र मरणं शस्त्रपाताधैर्मुर्छाऽङ्गपतनादिकृत् । यथा-'आसाद्य भीमं पतितोऽपि चित्रं सुयोधनः साधुकृतार्थ एषः। विहातुमिच्छन्नपि यत्समाधि न जातु शक्नोति पुनः प्रकामम् ॥'इति पाठान्तरं मन्वते केचित् । अत एव रसगङ्गाधरकारा अप्याहुः-"रोगादिजन्या मूर्छारूपा मरणप्रागवस्था मरणम् । न चात्र प्राणवियोगात्मक मुख्यं मरणमुचितं ग्रहीतुम् । चित्तवृत्त्यात्मकेषु भावेषु तस्य अप्रसक्तेः । आवेषु च सर्वेषु कार्यसहवर्तितया शरीरप्राण