________________
२१२ साहित्पदर्पणः।
[ तृतीयः यथा
'आश्लिष्टभूमि रसितारमुच्चै-लसद्भुजाकारबृहत्तरङ्गम् ।
केनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥ १०६ ॥' भथ गर्व:
१९६ गो मदः प्रभावश्री-विद्यासत्कुल ताऽदिजः ।
____ अवज्ञासविलासाङ्ग-दर्शनाविनयादिकृक् ॥ १८१ ॥ तत्र शौर्यगौं यथा'धृतायुधो यावदहं तावदन्यैः किमायुधैः । यद्वा न सिद्धमत्रेण मम, तत्केन सेत्स्यति ॥ १०७ ॥'
उदाहरति-यथा-'आश्लिष्टभूमि...'इत्यादौ ।
'असौ श्रीकृष्णचन्द्र इत्यर्थः । आश्लिष्टभूमिमाश्लिष्टा भूमियेन तम् । भुवि पतितमिति भावः । उच्चैः । रसितारं शब्दकर्तारम् । 'रस'शब्दे । 'वुल्तृचौ ।' ३।१।१३३ इति तृच । लसदभुजाकारबृहत्तरङ्गं लसन्तो स्फुरन्तौ यौ भुजौ तयोराकार इवाकारो येषां, तथाभूता बृहत्तरजा यस्य तम् । फेनायमानं फेनमुद्वमन्तम् । 'फेनाश्चेति वक्तव्यम् । इति क्यङ् । आपगानां नदीनाम् । ‘स्रवन्ती निम्नगापगा।' इत्यमरः । पतिम् । अपस्मारिणमपस्मारोऽस्यास्तीति, तम् । आशशड़े तत्कर्मयोगात्तथा सम्भावयामासेत्यर्थः । शिशुपालवधस्येदम् , अत्रेन्द्रवज्रोपेन्द्रवज्रयोरुपजातिश्छन्दः, तल्लक्षणं चोक्तं प्राक ॥१०६ ॥'
इदमवसेयम्-सम्भाव्यमानः कोऽप्यावेग आलम्बनं, तत्स्मरणमुद्दीपनं, भूपाताद्यनुभावश्चेत्येवमपस्मारोऽभिव्यज्यमानः सम्भाव्यते । 'अपस्मारिण' मित्यनेन तु समुद्रस्य समासोक्तया नायकत्वं नदीनां च नायिकात्वं च प्रत्याय्यापस्मारस्याशयमानत्वेन व्यक्तिबोध्यत्वं स्थिरीक्रियते सम्भवद् यत् सत्येतरत्वं तन्निराक्रियते च । यद्वा- 'हरिमागतमाकर्म्य मथुरामन्तकान्तकम् । कम्पमानः श्वसत्कंसो निपपात महीतले ॥' इति रसगङ्गाधरस्य, 'तव निशम्य जयाय विचारणा रिपुजना बत मत्सरिणोऽपि ते । धधधरेति विभो निजगोत्रयाऽप्यहह सङ्गमुशन्त्यतथेक्षणाः ॥' इति वा मम विविक्तमुदाहरणम् । इति ।
गर्व लक्षयितुं प्रतिजानीते-अथापस्मारोदाहरणानन्तरम् । गर्वः। 'लक्ष्यते-१९६ गर्यो.. इत्यादिना ।
१९६ प्रभावश्रीविद्यासत्कुलताऽऽदिजः । शौर्यादिजन्यः प्रतापः प्रभावः, कोशजन्यः पुनः श्रीः । शास्त्राध्ययनातिशयो विद्या । महतां कुले जन्म सत्कुलता । आदिना तपोमन्त्रादिसिद्धिः । अवज्ञा-खविलासाड्रदर्शना-(S) विनयादिकृत् । आदिना क्रोधपारतन्त्रादीनां ग्रहणम् । मदोऽभिमानः । गर्वः । 'उच्यत' इति शेषः ॥ १८१॥
___उदाहरति-तत्र तेषु शौर्ष्यादिप्रभवतयाऽनेकविधेषु गर्वेष्विति यावत् । शौर्यगर्वः। यथा-'धृतायुधो... इत्यादी। - 'यावद् यदवधि । अहं 'कर्ण' इति शेषः । धृतायुधो धृतमायुधमस्त्रं येन सः । 'आयुधं तु प्रहरणं शस्त्रमन' मित्यमरः । 'अस्मीति शेषः । तावत्तदवधि । अन्यैः। आयुधैर्योदृप्रवरैः । आयुध्यन्त इत्यायुधास्तैः । 'इगुपधज्ञाप्रीकिरः कः ।' ३।१।१३५ इति कः । किम् । यद्धा । मम 'कर्णस्य'ति शेषः । अस्त्रेण । अत्र करणे तृतीया । न । सिद्धम । 'य' 'दिति शेषः । तत् । केन 'मदन्यस्यास्त्रेणे'ति शेषः । सेत्स्यति । वेणीसंहारे कर्णस्योक्तिरियम् । अत्र श्लोकश्छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ १०७ ॥'
इद बोध्यम्-खकीयात्रबलस्यासाधारणताज्ञानमालम्बनं, स्वस्य धृतास्त्रतयोयुक्तत्वमुद्दीपनं, स्वेतरायुधासूयनमनुभावश्वेत्येवं गर्वोऽभिव्यज्यते । इति ।