________________
२११
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । यथा'मामाकाशप्रणिहितभुजं निर्दयाऽऽश्लेषहेतो-लब्धायास्ते कथमपि मया स्वपसन्दर्शनेन । पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिशलयेवश्रुलेशाः पतन्ति ॥१०५॥' अथापस्मार:१९५ मनःक्षेपस्त्वपस्मारो ग्रहाद्यावेशनादिजः।
भूपातकम्पप्रस्वेदफेनलालाऽदिकारकः ॥ १८० ॥
उदाहरति-यथा-'मामाकाश..इत्यादौ ।
'स्वप्नसन्दर्शनेन स्वप्नः शयनावस्थायां जागृतिकालिकानां दृष्टश्रुतविषयाणामनुभवः, स एव सन्दर्शनं सम्यग्दर्शनं संविदिति यावत्तेन । 'स्वप्नः सुप्तस्य विज्ञान मिति विश्वः, 'दर्शनं समये शास्त्रे दृष्टौ स्वप्नेऽक्षिण संविदि ।' इति शब्दार्णवः । स्वप्यतेऽनेनेति स्वप्नः । 'स्वपो नन् ।' ३।३।९१ इति नन् । संदृश्यतेऽनुभूयत इति सन्दर्शनम् । 'न्युट्च ।' ३।३।११५ इति ल्युट । 'कर्तकरणयोस्तृतीया ।' २।३।१८ इति करणे तृतीया । 'स्वप्नसन्दर्शनेष्विति तु मल्लिनाथसम्मतः पाठः । मयाऽनेन त्वदीयेन जनेनेत्यर्थः । अत्र कर्तरि तृतीया । यद्वा-मया, माययाऽज्ञानेनेति यावत् । करणे तृतीया । तथा च-स्वप्नसन्दर्शनेन (तदभिन्नया) मया (अज्ञानेन) इति निष्कृष्टोऽर्थः । एतेन तस्य मृषात्वमावेदितम् । 'मा स्त्री लक्ष्म्यां च मायाया'मिति गोपालः । कथमपि नाल्पेन यत्नेनेति भावः । लब्धायाः प्राप्ताया इवाभिमताया इत्यर्थः । ते तव (प्रियायाः)। निर्दयाश्लेषहेतोर्निर्दयो गाढोऽसावाश्लेष आलिङ्गनं तस्य हेतु: कारणं तस्मात् । आकाशप्रणिहितभुजमाकाशे शून्येऽत एव निरस्तत्वत्सम्भव इति यावत् प्रणिहितौ प्रसारितो भुजो येन तम् । मां त्वप्रियमत एव त्वद्वियोगेन विकलमिति भावः । पश्यन्तीनाम् । स्थलीदेवतानां स्थल्या अस्य देशस्य देवता अधिष्ठात्र्यो देव्यस्तासाम् । मुक्तास्थूला मुक्ता मौक्तिकानीव स्थूलाः । अश्रुलेशाः। तरुकिशलयेषु तरूणां वृक्षाणां किशलयाः पलवास्तेषु । बहुशः । न । खल। पतन्ति । (इति) न । किन्तु पतन्त्येवेति भावः । यक्षस्य मेघ दूत प्रकल्प्य तद्वारा प्रियाऽन्तिके सन्देशप्रेषणमिदम् । अत एव-मेघदृतस्येदं पद्यम् । अत्र मन्दाक्रान्ता छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ १०५ ॥'
इदं बोध्यम्-प्रबुद्धस्यापि प्रियाविरहेण विकलस्य यक्षस्येयमुक्तिः, अत्र च प्रियाऽऽलम्बनं, तद्विरह उद्दीपनंस्मरणमात्रेणोत्तम्भितशरीरायाः प्रियाया आलिङ्गनार्थ भुजोत्तम्भनमनुभावश्चेत्येवं स्वप्नोऽभिव्यज्यते । 'स्वप्नसन्दर्शनेने' त्यादिना तु तस्यैवानुवादः । अथ यदीदं विबोधस्यैवोदाहरणमिति, तर्हि 'हा सोह्म अजउत्त कहिं सि' इत्युत्तररामचरितस्य 'दयिते दयितैव मे भवेस्त्यज मध्ये रससिन्धु नैव माम् । बत तामनुपेक्ष्य शाश्वती रतिमामोदय मां पुनर्मनाक् ॥ इति वा मम बोध्यम् । अत्र हि-खप्नेनावेदिता प्रियाऽऽलम्बनं, तयाऽऽश्लेषानन्द उद्दीपनं, तदर्थ प्रलपनं तदानीमाश्लेषानन्दस्याविर्भावतिरोभावौ चानुभाव इत्येवं स्वप्नोऽभिव्यज्यते । इति ।
अपस्मारं लक्षयितुं प्रतिजानीते-अथ स्वप्नोदाहरणानन्तरम् । अपस्मारः। लक्ष्यते- १९५ मनः...इत्यादिना ।
१९५ ग्रहाद्यावेशनादिजो ग्रहादीनां ग्रहभूतादीनामावेशनमाक्रमणं तदादौ यस्य (धातुवैषम्यादेः) इति, तस्माज्जायत इति तथोक्तः । 'पञ्चम्यामजातो।' ३।२।९८ इति ड: । भूपातकम्पप्रस्वेदफेनलालाऽदिकारकः । आदिनाऽव्यक्तशब्दविशेषादीनां ग्रहणम् । मनःक्षेपो मनसः क्षेपो विक्षिप्तत्वं निरस्तधर्मत्वमिति यावत् । तु पुनः । अपस्मारः । उक्तं च-'वियोगशोकभय जुगुप्साऽऽदीनामतिशयावहावेशादेश्वोत्पन्नो व्याधिविशेषोऽपरमारः ।' इति, 'व्याधित्वेनास्य कथनेऽपि विशेषाकारेण पुनः कथनं बीमत्सभयानकयोरस्यैव व्याधेरङ्गत्वं नान्यस्येति स्फोरणायविप्रलम्भे तु व्याध्यन्तरस्यापी'ति ॥१८॥
१ 'हा सौम्य आर्यपुत्र कुत्रासि ।'इति संस्कृतम् ।