________________
२१०
यथा
साहित्यदर्पणः ।
१९३ निद्राऽपगमहेतुभ्यो विबोधश्चेतनागमः । जृम्भाऽङ्गभङ्गनयन - मीलनाङ्गविलोककृत् ॥ १७८ ॥
'चिररतिपरिखेदात्प्राप्तनिद्रासुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः । अपरिचलितगात्राः कुर्वते न प्रियाणा-मशिथिलभुजचक्राऽऽश्लेषभेदं तरुण्यः ॥ १०४ ॥ '
अथ स्वप्न:
१९४ स्वमो निद्रामुपेतस्य विषयानुभवस्तु यः ।
[ तृतीय:
कोपावेगभयग्लानि - सुखदुःखादिकारकः ।। १७९ ।।
१९३ निद्रापगमहेतुभ्यो निद्राया अपगमस्तस्य हेतवः कारणानि गीतवादित्रादीनि तेभ्यः । जृम्भाऽङ्गभङ्गनयनमीलनाङ्गविलोककृत् । जृम्भा ( मुखविस्फारः ) चाङ्गभङ्गः ( पार्श्वादिमोटनं ) च नयनमीलनं (नेत्रोमीलनं ) चाङ्गविलोकः ( करतलमुखकमलादिनिरीक्षणं) चेति, तान् करोतीति तथोक्तः । चेतनागमश्चेतनाया बुद्धेरागंमा बाह्यप्रणयोग्यत्वम् । विबोधो 'मत' इति शेषः ॥ १७८ ॥
उदाहरति-यथा- 'चिर इत्यादौ ।
'चिररतिपरिखेदाच्चिरं रती रमणं तया परिखेदः परिश्रमस्तस्मात् तं प्राप्येति यावत् । ल्यब्लोपे पञ्चमी । प्राप्तनिद्रा सुखानां प्राप्ता निद्रामुखमिति तेषाम् । 'प्राप्तापने च द्वितीयया ।' २।२।४ इति समासः । प्रियाणाम् । चरमं पश्चाच्छ्यनादूर्ध्वमिति यावत् । अपि । शयित्वा । पूर्वं प्रबोधात्प्राक् । एव न तूर्ध्वम् । प्रबुद्धा जागृति प्राप्ताः । एष साध्वीनां धर्म एव । तथाहि - ' सुप्तेः पश्चाच्च या शेते पूर्वमेव प्रबुध्यते । नान्यं कामयते चित्ते सा स्त्री ज्ञेया पतिव्रता ॥' इति स्मृतिः । तरुण्यः । अपरिचलितगात्रा न परिचलितानि गात्राणि यासां ताः, 'सत्य' इति शेषः । अशिथिलभुजचक्राश्लेषभेदमशिथिलो गाढो भुजचक्राश्लेषस्तस्य भेदो भङ्गस्तम् । भुजचक्रेण चक्राकारेण भुजेन कृत आश्लेष इति भुजचक्राश्लेषः । न । कुर्वते 'शयानं न प्रबोधयेत् ।' इति स्मरणात् । अत एवात्रात्मनेपदम् । ' निद्राभङ्गो माभूदेषा' मिति प्रबुद्धा अपि शयिता इवासन्निति भावः । शिशुपालवधस्येदं पद्यम्, अत्र मालिनी छन्दः, तलक्षणं चोक्तं प्राक् ॥ १०४ ॥ '
इदं बोध्यम् - - पत्युः प्रबोधात् पूर्वमुत्थातव्यमित्यालम्बनस्तदवधि पत्युः शयनमुद्दीपनं, 'न कुर्वत' इत्यत्र क्रियागतात्मनेपदव्यङ्गयं स्वधम्मरिरक्षणमनुभावश्चेति विबोधोऽभिव्यज्यते । वस्तुतस्तु नेदं विविक्तमुदाहरणम् । अत एव एतस्य स्थाने 'एकेन नेत्रकमलं मलयन्करेण, पाणिं परं च कलयन्नवनीतभाण्डे । निद्राविरामकमनीयमुखाम्बुजश्रीमपातु पादरजसा ननु नन्दबालः ॥ इति क्वचित् लभ्यमानमुदाहरणमेव साधु । अत्र हि बाल्यनाट्यं दर्शयतः श्रीकृष्णस्य स्मरणम् । तथा च- बुभुक्षाssलम्बनं, तदानीमभिव्यङ्गयो दधिमथनघोष उद्दीपनं, नयनमलिनीकरणपुरःसरं नवनीतभाण्डे र प्रक्षेपश्चानुभाव इत्येवं विबोधोऽभिव्यज्यते । यथा वा- 'नितरां हि तयाऽद्य निद्रया मे बत यामे चरमे निवेदि - तायाः । सुदृशो वचनं शृणोमि यावन्मयि तावत्प्रचुकोप वारिवाहः ॥' इति । अत्र च चिराच्छ्यनमालम्बनं, वारिवाहगर्जनमुद्दीपनं स्वप्नानुभवोऽनुभावश्चेति विबोधोऽभिव्यज्यते ।
स्वप्नं लक्षयितुं प्रतिजानीते - अथ विबोधोदाहरणानन्तरम् । स्वप्नः । ' लक्ष्यते- १९४ स्वप्नो... इत्यादिना । नेति शेषः ।
१९४ निद्राम् । उपेतस्य प्राप्तस्य । कोपावेगभयग्ला निसुखदुःखादिकारकः । आदिना गानादि । यः । तु । विषयानुभवो विषया दृश्याः श्रुता वा ये नेत्रादिभिर्ब्राह्यास्तेषामनुभवो मनसैवारोप्य तथाऽनुसन्धानम् । 'स' इति शेषः । स्वप्नः । 'स्यादिति शेषः ॥ १७९ ॥