________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः।
२०९ वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः, पततु शिरस्यकाण्डयमदण्ड इवैष भुजः॥१०२॥' अथ मोहः१९२ मोहो विचित्तता भीति-दुःखा-वेगा-नुचिन्तनैः ।
मूर्च्छना-ज्ञान-पतन-भ्रमणा-दर्शनादिकृत् ॥ १७७ ॥ 'तीव्राभिषङ्गप्रभवेण वृत्ति मोहेन संस्तम्भयतेन्द्रियाणाम् ।
अज्ञातभर्तृव्यसना मुहूर्त कृतोपकारेव रतिर्बभूव ॥ १०३ ॥ अथ विबोधः
यथा
पुनरन्यैरिति भावः । यत् । ताम्यति क्लिश्यति । तत्र तस्मिन् । वपुषि शरीरे 'मालत्या' इति शेषः । वधाय हन्तुम् । 'तुमर्थाच्च भाववचनात् ।' २।३।१५ इति चतुर्थी । शस्त्रम् । उपक्षिपतः पातयतः । तव 'अघोरघण्टस्येति शेषः । शिरसि मस्तके। अकाण्डयमदण्ड इवाकाण्डेऽसमये यो यमदण्डः कालदण्ड इति, तथोक्त इव । 'कराल'इति शेषः । एषः माधवसम्बन्धीति भावः । भुजो बाहुः । पततु । मालतीमाधवस्येदं पद्यम् , मालती हन्तुमुद्यतमघोरघण्टं प्रति माधवस्योक्तिरियम् , अत्र नकुटकं छन्दः, तल्लक्षणं चोक्तं यथा-'यदि भवतो नजो भजजला गुरु नर्कुटकम् ।' इति ॥ १०२ ॥' . इदं बोध्यम्-अघोरघण्टस्य प्रहारोद्योग आलम्बनं, मालत्या वधानहत्वमुद्दीपनं, भुजपाततद्वयङ्गयभर्त्सनाद्यनुभाष इत्युग्रताऽभिव्यज्यते । इति ।
मोहं लक्षयितुं प्रतिजानीते-अथोग्रतोदाहरणानन्तरम् । मोहः । लक्ष्यते..१९२ मोहः..इत्यादिना ।
१९२ भीतिदुःखावेगानुचिन्तनैीति-दुःखा-वेगानामनुचिन्तनानि तैः । मूर्च्छनाज्ञानपतनभ्रमणादर्शनादिकृत् । नेषदर्शनमदर्शनम् , न तु अज्ञानम् ; पृथगुपादानेनैव तस्य गतार्थत्वात् । आदिमाऽश्रवणादि । विचित्तता विगतं चित्तमनुसन्धानात्मकवृत्तिकमन्तःकरणमिति यस्य तस्य भावस्तत्ता। मोहो 'मत' इति शेषः । यथोक्तम्-'भयवियोगादिप्रयोज्या वस्तुतत्त्वानवधारिणी चित्तवृत्तिर्मोहः ।' इति ॥ १७७ ॥
उदाहरति-यथा-'तीव्रा.. इत्यादौ । ' 'तीव्राभिषङप्रभवेण तीव्रः सोढुं दुःशकोऽसावभिषङ्गः पराभवः ( प्रियव्यापादनरूपस्तिरस्कारः) स एव प्रभवो यस्य तेन । इन्द्रियाणां नेत्रादीनाम्। वृतिं दृश्यादिरूपं परिणामम् । संस्तम्भयता निरुन्धता। मोहेन मुर्छया न तु निरुक्तस्वरूपेण भावविशेषेण, तथा तस्य व्यङ्गयत्वानुपपत्तेः । 'मूर्छा तु कश्मलं मोहोऽपी'त्यमरः । मुहर्त्तम् । किञ्चित्कालस्योपलक्षणमिदम् । अज्ञातभर्तृव्यसनाऽज्ञातं विस्मृतं भर्तृव्यसनं यया सा। भर्तुः कामस्य व्यसनं शरीरदाहरूपं दुःखमिति भर्तव्यसनम् । अत एव-कृतोपकारा कृत उपकारो भर्तृमरणविस्मरणेन व्यसननिवर्त्तनं यया सा । इव । रतिः कामस्य सहधर्मिमणी । बभूव । कुमारसम्भवस्येदं पद्यम् , अत्रेन्द्रवज्रोपेन्द्रवज्रयोरुपजातिश्छन्दः, तलक्षणं चोक्तं प्राक् ॥ १०३ ॥'
इदं बोध्यम्-अत्र मदनस्य तथात्वमालम्बन, पुनःपुनस्तस्यावेक्षणं स्मरणं वोद्दीपनम् , व्यसनविस्मरणमनुभावश्चेत्येवं मोहोऽभिव्यज्यते । न चेयं निद्रा, सर्वथेन्द्रियलयाभावात् , केवलमनुसन्धानस्यैवान तिरोभावाच । अत एवोदाहरन्ति'विरहेण विकलहृदया विलपन्ती दयितदयितेति । आगतमपि तं सविधे परिचयहीनेव वीक्षते बाला ॥' इति, 'शुण्डादण्डं कुण्डलीकृत्य कूले कल्लोलिन्याः किञ्चिदाकुञ्चिताक्षः । नैवाकर्षत्यम्बु नैवाम्बुजालिं कान्तापतः कृत्यशेषो गजेन्द्रः ॥' इति च । ।
बिबोधं लक्षयितुं प्रतिजानीते-भथ मोहोदाहरणानन्तरम् । विबोधो 'लक्ष्यते-१९३ निद्रा...इत्यादिना ।
२७