________________
साहित्यदर्पणः ।
'वरिअ तं जुअजुअलं अण्णोष्णं णिहिदसजल मंथरदिहिं । arraafvifar खणमेत्तं तत्थ संद्विअं मुअसणं ॥ १०१ ॥ अथोग्रता
२०८
यथा
१९१ शौर्य्यापराधादिभवं भवेच्चण्डत्वमुग्रता ।
तत्र स्वेदशिरःकम्प - तर्जनाताडनादयः ॥ १७६ ॥
[ तृतीथ:
'प्रणयिसखीसलील परिहासरसाधिगतै-र्ललितशिरीषपुष्पहननैरपि ताम्यति यत् ।
'तं तत् । जुअजुअलं युवयुगलम् । युवती च युवा चेति युवानौ तयोर्युगलमिति तथोक्तम् । 'पुमान् स्त्रिया ॥ १।२।६७ । इत्येकशेषः । अत्र युगलपदमनुरागातिशयं द्योतयितुम् । णवरिभ केवलम् | 'णवरिअशब्दः केवलार्थे देशी 'ति विश्रुतिकाराः । अण्णोष्णमन्योन्यम् । णिहिदसजलमंथरदिट्ठि निहितसजलमन्थरदृष्टि । निहिते आरोपिते सजलमन्थरदृष्टी येन तत्तथोक्तम् । सजले ( अत एव ) मन्थरे स्तिमिते इमे दृष्टी इति सजलमन्थरदृष्टी । 'स' दिति शेषः । तत्थ तत्र । खणमेत्तं क्षणमात्रम् । आलेक्खओपिअंविr आलेख्यार्पितमिव । आलेख्यं चित्रं तत्रार्पितमङ्कयित्वा स्थापितमिव । मुअसण्णं मुक्तसङ्गम् । संद्विअं संस्थितम् । सम्यक् स्थितमासीदिति भावः । चिरात् सम्मिलितयोः प्रथमं दृष्टिपातेऽवस्थावर्णनपरमिदम् । अत्र स्कन्धकं छन्दः, तलक्षणं यथोक्तम्- 'स्कन्धकमिति तत्कथितं यत्र चतुष्कलगणाष्टकेनार्थं स्यात् । तत्तुल्यमग्रिमदलं भवति चतुष्षष्टिमात्रकशरीरमिदम् ॥' इति ॥ १०१ ॥
अत्रेदं बोध्यम्-अन्योऽन्यं दृष्टिपात आलम्बनम्, चिरं विप्रवासे दुःखस्य स्मरणमुद्दीपनम्, मुक्तसङ्ग सच्चित्रार्पितमिवावस्थानं नेत्रयोः सजलमन्थरत्वं चानुभाव इत्येवं जडताऽभिव्यज्यते । न य मोहः, तत्र सजलनेत्रार्पणस्यान्योऽन्यमसम्भवात् । सजलत्वं हि तयोर्विरहवेदनावेदकम्, अन्योऽन्यं निश्चलदृष्टिश्च तयोरत्यन्तं तदानीमामोदमानदयतीति ।
यथा वा- 'यदवधि दयितो विलोचनाभ्यां सहचारे । दैववशेन दूरतोऽभूत् । तदवधि शिथिलीकृतो मदीयैरथकरणैः प्रणयो निजक्रियासु ॥' इति, अत्र दयितविरह आलम्बनं तत्र दुःखमुद्दीपनम् इन्द्रियाणां निश्रेष्टत्वमनुभावः; इत्येवं जडताऽभिव्यज्यते । अत्राहु:- 'मोहे चक्षुरादिभिश्चाक्षुषादेरजननम्, इह तु प्रकार विशेषवैशिष्टयेन बाहुल्येनाजमममिति तस्मादस्य विशेषः । अत एवोदाहरणे 'शिथिलीकृत' इत्युक्तम्, न तु व्यक्त इति ।' इति ।
उप्रतां लक्षयितुं प्रतिजानीते-अथ जडतोदाहरणानन्तरम् । उग्रता लक्ष्यते .. १९१ शौर्या... ' इत्यादिना ।
१९१ शौर्यापराधादिभवं शौर्य्यं ( बलात्कारः ) चापराधः ( प्रतिद्वन्द्विताभवो दोषः ) च तावादी येषां ( दीनतर्जनताडनादिस्वाज्ञोल्लङ्घनादीनां ) तेभ्यो भवतीति तथोक्तम् । चण्डत्वमसहित्वम् । उग्रता । भवेत् । तत्र तस्यामुग्रतायां सत्यामित्यर्थः । स्वेदशिरःकम्पतर्जनाताडनादयः । आदिना नेत्ररतिमादीनां ग्रहणम् । ' भवन्ती 'ति शेषः ॥ १७६ ॥
'उदाहरति- यथा । 'प्रणयि..' इत्यादौ ।
'प्रणयिसखीसलील परिहासरसाधिगतैः प्रणचिन्यः प्रीतिभाजनानि याः सख्यः तासां सलीलपरिहास - स्तस्य रसस्तेनाधिगतास्तैः । लीलया सह वत्तत इति, सलीलोऽसौ परिहास इति सलीलपरिहास: । ललितशिरीषgoपहननैर्ललितानि मनोरमाणि यानि शिरीषपुष्पाणि तैः ( तत्कृतानि ) हननानि तैः । हननं ताडनम् । अपि किं
१
१ केवलं तद् युवयुगलमन्योऽन्यं निहितसजलमन्थरदृष्टि । आलेख्यार्पितमित्र क्षणमात्रं तत्र संस्थितं मुक्तस॥ इति संस्कृतम् ।